अध्यायः 095
श्रीकृष्णेन धृतराष्ट्रं प्रति सन्ध्यर्थं स्वस्यागमनकथनम् ॥ 1 ॥ सन्धिविग्रहपक्षयोः गुणदोषवर्णनपूर्वकं पाण्डवविज्ञापननिवेदनम् ॥ 2 ॥ तथा हितमुपदिश्य अन्ते यथारुचि करणाभिधानम् ॥ 3 ॥
वैशम्पायन उवाच KK05-06-095-001
तेष्वासीनेषु सर्वेषु तूष्णीम्भूतेषु राजसु । KK05-06-095-001a
वाक्यमभ्याददे कृष्णः सुदंष्ट्रो दुन्दुभिस्वनः ॥ KK05-06-095-001c
जीमूत इव घर्मान्ते सर्वां संश्रावयन्सभाम् । KK05-06-095-002a
धृतराष्ट्रमभिप्रेक्ष्य समभाषत माधवः ॥ KK05-06-095-002c
श्रीभगवानुवाच KK05-06-095-003
कुरूणां पाण्डवानां च शमः स्यादिति भारत । KK05-06-095-003a
अप्रणाशेन वीराणामेतद्याचितुमागतः ॥ KK05-06-095-003c
राजन्नान्यत्प्रवक्तव्यं तव नैःश्रेयसं वचः । KK05-06-095-004a
विदितं ह्येव ते सर्वं वेदितव्यमरिन्दम ॥ KK05-06-095-004c
इदं ह्यद्य कुलं श्रेष्ठं सर्वराजसु पार्थिव । KK05-06-095-005a
श्रुतवृत्तोपसम्पन्नं सर्वैः समुदितं गुणैः ॥ KK05-06-095-005c
कृपानुकम्पा कारुण्यमानृशंस्यं च भारत । KK05-06-095-006a
तथार्जवं क्षमा सत्यं कुरुष्वेतद्विशिष्यते ॥ KK05-06-095-006c
तस्मिन्नेवंविधे राजन्कुले महति तिष्ठति । KK05-06-095-007a
त्वन्निमित्तं विशेषेण नेह युक्तमसाम्प्रतम् ॥ KK05-06-095-007c
त्वं हि धारयिता श्रेष्ठः कुरूणां कुरुसत्तम । KK05-06-095-008a
मिथ्याप्रचरतां तात बाह्येष्वाभ्यन्तरेषु च ॥ KK05-06-095-008c
ते पुत्रास्तव कौरव्य दुर्योधनपुरोगमाः । KK05-06-095-009a
धर्मार्थौ पृष्ठतः कृत्वा प्रचरन्ति नृशंसवत् ॥ KK05-06-095-009c
अशिष्टा गतमर्यादा लोभेन हृतचेतसः । KK05-06-095-010a
स्वेषु बन्धुषु मुख्येषु तद्वेत्थ पुरुषर्षभ ॥ KK05-06-095-010c
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता । KK05-06-095-011a
उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति ॥ KK05-06-095-011c
शक्या चेयं शमयितुं त्वं चेदिच्छसि भारत । KK05-06-095-012a
न दुष्करो ह्यत्र शमो मतो मे भरतर्षभ ॥ KK05-06-095-012c
त्वय्यधीनः शमो राजन्मयि चैव विशाम्पते । KK05-06-095-013a
पुत्रान्स्थापय कौरव्य स्थापयिष्याम्यहं परान् ॥ KK05-06-095-013c
आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः । KK05-06-095-014a
हितं बलवदप्येषां तिष्ठतां तव शासने ॥ KK05-06-095-014c
तव चैव हितं राजन्पाण्डवानामथो हितम् । KK05-06-095-015a
शमे प्रयतमानस्य तव शासनकाङ्क्षिणः ॥ KK05-06-095-015c
स्वयं निष्फलमालक्ष्य संविधत्स्व विशाम्पते । KK05-06-095-016a
सहायभूता भरतास्तवैव स्युर्जनेश्वर ॥ KK05-06-095-016c
धर्मार्थयोस्तिष्ठ राजन्पाण्डवैरभिरक्षितः । KK05-06-095-017a
न हि शक्यास्तथाभूता यत्नादपि नराधिप ॥ KK05-06-095-017c
न हि त्वां पाण्डवैर्जेतुं रक्ष्यमाणं महात्मभिः । KK05-06-095-018a
इन्द्रोपि देवैः सहितः प्रसहेत कुतो नृपाः ॥ KK05-06-095-018c
यत्र भीष्मश्च द्रोणश्च कृपः कर्णो विविंशतिः । KK05-06-095-019a
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः ॥ KK05-06-095-019c
सैन्धवश्च कलिङ्गश्च काम्भोजश्च सुदक्षिणः । KK05-06-095-020a
युधिष्ठिरो भीमसेनः सव्यसाची यमौ तथा ॥ KK05-06-095-020c
सात्यकिश्च महातेजा युयुत्सुश्च महारथः । KK05-06-095-021a
को नु तान्विपरीतात्मा युद्ध्येत भरतर्षभ ॥ KK05-06-095-021c
लोकस्येश्वरतां भूयः शत्रुभिश्चाप्यधृष्यताम् । KK05-06-095-022a
प्राप्स्यसि त्वममित्रघ्न सहितः कुरुपाण्डवैः ॥ KK05-06-095-022c
तस्य ते पृथिवीपालास्त्वत्समाः पृथिवीपते । KK05-06-095-023a
श्रेयांसश्चैव राजानः सन्धास्यन्ते परन्तप ॥ KK05-06-095-023c
स त्वं पुत्रैश्च पौत्रैश्च पितृभिर्भ्रातृभिस्तथा । KK05-06-095-024a
सुहृद्भिः सर्वतो गुप्तः सुखं शक्ष्यसि जीवितुम् ॥ KK05-06-095-024c
एतानेव पुरोधाय यत्कृत्य च यथा पुरा । KK05-06-095-025a
अखिलां भोक्ष्यसे सर्वां पृथिवीं पृथिवीपते ॥ KK05-06-095-025c
एतैर्हि सहितः सर्वैः पाण्डवैः स्वैश्च भारत । KK05-06-095-026a
अन्यान्विजेष्यसे शत्रूनेष स्वार्थस्तवाखिलः ॥ KK05-06-095-026c
तैरेवोपार्जितां भूमिं भोक्ष्यसे च परन्तप । KK05-06-095-027a
यदि सम्पत्स्यसे पुत्रैः सहामात्यैर्नराधिप ॥ KK05-06-095-027c
संयुगे वै महाराज दृश्यते सुमहान्क्षयः । KK05-06-095-028a
क्षये चोभयतो राजन्कं धर्ममनुपश्यसि ॥ KK05-06-095-028c
पाण्डवैर्निहतैः सङ्ख्ये पुत्रैर्वापि महाबलैः । KK05-06-095-029a
यद्विन्देथाः सुखं राजंस्तद्ब्रूहि भरतर्षभ ॥ KK05-06-095-029c
शूराश्च हि कृतास्त्राश्च सर्वे युद्धाभिकाङ्क्षिणः । KK05-06-095-030a
पाण्डवास्तावकाश्चैव तान्रक्ष महतो भयात् ॥ KK05-06-095-030c
न पश्येम कुरून्सर्वान्पाण्डवांश्चैव संयुगे । KK05-06-095-031a
क्षीणानुभयतः शूरान्रथिनो रथिभिर्हतान् ॥ KK05-06-095-031c
समवेताः पृथिव्यां हि राजानो राजसत्तम । KK05-06-095-032a
अमर्षवशमापन्ना नाशयेयुरिमाः प्रजाः ॥ KK05-06-095-032c
त्राहि राजन्निमं लोकं न नश्येयुरिमाः प्रजाः । KK05-06-095-033a
त्वयि प्रकृतिमापन्ने शेषः स्यात्कुरुनन्दन ॥ KK05-06-095-033c
शुक्ला वदान्या ह्रीमन्त आर्याः पुण्याभिजातयः ॥ KK05-06-095-034a
अन्योन्यसचिवा राजंस्तान्पाहि महतो भयात् ॥ KK05-06-095-034c
शिवेनेमे भूमिपालाः समागम्य परस्परम् । KK05-06-095-035a
सह भुक्त्वा च पीत्वा च प्रतियान्तु यथागृहम् ॥ KK05-06-095-035c
सुवाससः स्रग्विणश्च सत्कृता भरतर्षभ । KK05-06-095-036a
अमर्षं च निराकृत्य वैराणि च परन्तप ॥ KK05-06-095-036c
हार्दं यत्पाण्डवेष्वासीत्प्राप्तेऽस्मिन्नायुषः क्षये । KK05-06-095-037a
तदेव ते भवत्वद्य सन्धत्स्व भरतर्षभ ॥ KK05-06-095-037c
बाला विहीनाः पित्रा ते त्वयैव परिवर्धिताः । KK05-06-095-038a
तान्पालय यथान्यायं पुत्रांश्च भरतर्षभ ॥ KK05-06-095-038c
भवतैव हि रक्ष्यास्ते व्यसनेषु विशेषतः । KK05-06-095-039a
मा ते धर्मस्तथैवार्थो नश्येत भरतर्षभ ॥ KK05-06-095-039c
आहुस्त्वां पाण्डवा राजन्नभिवाद्य प्रसाद्य च । KK05-06-095-040a
भवतः शासनाद्दुःखमनुभूतं सहानुगैः ॥ KK05-06-095-040c
द्वादशेमानि वर्षाणि वने निर्व्युषितानि नः । KK05-06-095-041a
त्रयोदशं तथाऽज्ञातैः सजने परिवत्सरम् ॥ KK05-06-095-041c
स्थाता नः समये तस्मिन्पितेति कृतनिश्चयाः । KK05-06-095-042a
नाहास्म समयं तात तच्च नो ब्राह्मणा विदुः ॥ KK05-06-095-042c
तस्मिन्नः समये तिष्ठ स्थितानां भरतर्षभ । KK05-06-095-043a
नित्यं सङ्क्लेशिता राजन्स्वराज्यांशं लभेमहि । KK05-06-095-043c
त्वं धर्ममर्थं सञ्जानन्सम्यङ्नस्त्रातुमर्हसि ॥ KK05-06-095-043e
गुरुत्वं भवति प्रेक्ष्य बहून्क्लेशांस्तितिक्ष्महे । KK05-06-095-044a
स भवान्मातृपितृवदस्मासु प्रतिपद्यताम् ॥ KK05-06-095-044c
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत । KK05-06-095-045a
वर्तामहे त्वयि च तां त्वं च वर्तस्व नस्तथा ॥ KK05-06-095-045c
पित्रा स्थापयितव्या हि वयमुत्पथमास्थिताः । KK05-06-095-046a
संस्थापय पथिष्वस्मांस्तिष्ठ धर्मे सुवर्त्मनि ॥ KK05-06-095-046c
आहुश्चेमां परिषदं पुत्रास्ते भरतर्षभ । KK05-06-095-047a
धर्मज्ञेषु सभासत्सु नेह युक्तमसाम्प्रतम् ॥ KK05-06-095-047c
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । KK05-06-095-048a
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ KK05-06-095-048c
विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते । KK05-06-095-049a
नचास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ॥ KK05-06-095-049c
धर्म एतानारुजति यथा नद्यनुकूलजान् ॥ KK05-06-095-050ac
ये धर्ममनुपश्यन्तस्तूष्णीं ध्यायन्त आसते । KK05-06-095-051a
ते सत्यमाहुर्धर्म्यं च न्याय्यं च भरतर्षभ ॥ KK05-06-095-051c
शक्यं किमन्यद्वक्तुं ते दानादन्यज्जनेश्वर । KK05-06-095-052a
ब्रुवन्तु ते महीपालाः सभायां ये समासते ॥ KK05-06-095-052c
धर्मार्थौ सम्प्रधार्यैव यदि सत्यं ब्रवीम्यहम् । KK05-06-095-053a
प्रमुञ्चेमान्मृत्युपाशात्क्षत्रियान्पुरुषर्षभ ॥ KK05-06-095-053c
प्रशाम्य भरतश्रेष्ठ मा मन्युवशमन्वगाः । KK05-06-095-054a
पित्र्यं तेभ्यः प्रदायांशं पाण्डवेभ्यो यथोचितम् । KK05-06-095-054c
ततः सपुत्रः सिद्धार्थो भुङ्क्ष्व भोगान्परन्तप ॥ KK05-06-095-054e
अजातशत्रुं जानीषे स्थितं धर्मे सतां सदा । KK05-06-095-055a
सपुत्रे त्वयि वृत्तिं च वर्तते यां नराधिप ॥ KK05-06-095-055c
दाहितश्च निरस्तश्च त्वामेवोपाश्रितः पुनः । KK05-06-095-056a
इन्द्रप्रस्थं त्वयैवासौ सपुत्रेण विवासितः ॥ KK05-06-095-056c
स तत्र विवसन्सर्वान्वशमानीय पार्थिवान् । KK05-06-095-057a
त्वन्मुखानकरोद्राजन्न च त्वामत्यवर्तत ॥ KK05-06-095-057c
तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता । KK05-06-095-058a
राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः ॥ KK05-06-095-058c
स तामवस्थां सम्प्राप्य कृष्णां प्रेक्ष्य सभां गताम् । KK05-06-095-059a
क्षत्रधर्मादमेयात्मा नाकम्पत युधिष्ठिरः ॥ KK05-06-095-059c
अहं तु तव तेषां च श्रेय इच्छामि भारत । KK05-06-095-060a
धर्मादर्थात्सुखाच्चैव मा राजन्नीनशः प्रजाः ॥ KK05-06-095-060c
अनर्थमर्थं मन्वानोऽप्यर्थं चानर्थमात्मनः । KK05-06-095-061a
लोभेऽतिप्रसृतान्पुत्रान्निगृह्णीष्व विशाम्पते ॥ KK05-06-095-061c
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिन्दमाः । KK05-06-095-062a
यत्ते पथ्यतमं राजंस्तस्मिंस्तिष्ठ परन्तप ॥ KK05-06-095-062c
वैशम्पायन उवाच KK05-06-095-063
तद्वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन् । KK05-06-095-063a
न तत्र कश्चिद्वक्तुं हि वाचं प्राक्रामदग्रतः ॥ ॥ KK05-06-095-063c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चनवतितमोऽध्यायः ॥
5-95-3 आगतः अहमिति शेषः ॥ 5-95-6 कृपा परस्य सुखार्थे यत्नः । अनुकम्पा परदुःखदर्शने त्रासः । कारुण्यं परदुःखप्रहाणार्थो यत्नः । आनृशंस्यं परदुःखाप्रदानम् ॥ 5-95-8 बाह्येषु द्यूतादिषु । आभ्यन्तरेषु जतुगृहादिषु ॥ 5-95-11 कुरुष्वेव भवत्स्वेव नतु पाण्डवेषु ॥ 5-95-14 एषामपि एषामेव ॥ 5-95-15 शासनकाङ्क्षिणः पुत्रान् शासितुमिच्छतस्तव ॥ 5-95-16 निष्फलं वैरम् । संविधत्स्व शमं कुरु ॥ 5-95-23 पाण्डवैः सह सन्धास्यन्ते सन्धिं करिष्यन्ति ॥ 5-95-25 अखिलां निष्कण्टकाम् ॥ 5-95-33 प्रकृतिं सत्त्वगुणम् ॥ 5-95-42 स्थाता स्थास्यति ॥ 5-95-50 आरुजति हिनस्ति । अनुकूलजान् कूलं कूलमनुसृत्य जातान् वृक्षादीन् ॥ 5-95-58 परमोपधिः महच्छद्म ॥