अध्यायः 094
प्रभाते सन्ध्यामुपतिष्ठमानं श्रीकृष्णमभ्येत्य शकुनिदुर्योधनाभ्यां सभागमनाय प्रार्थनम् ॥ 1 ॥ श्रीकृष्णस्य विदुरेण सह सभाप्रवेशः ॥ 2 ॥ अन्तरिक्षगतेषु नारदादिषु श्रीकृष्णाज्ञया भीष्मेण आसनादिना सत्कृतेषु कृष्णादीनां यथोचितमासनेषूपवेशनम् ॥ 3 ॥
वैशम्पायन उवाच KK05-06-094-001
तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा । KK05-06-094-001a
शिवा नक्षत्रसम्पन्ना सा व्यतीयाय शर्वरी ॥ KK05-06-094-001c
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः । KK05-06-094-002a
शृण्वतो विविधा वाचो विदुरस्य महात्मनः ॥ KK05-06-094-002c
कथाभिरनुरूपाभी रक्तस्यामिततेजसः । KK05-06-094-003a
अकामस्यैव कृष्णस्य सा व्यतीयाय शर्वरी ॥ KK05-06-094-003c
ततस्तु स्वरसम्पन्ना बहवः सूतमागधाः ॥ KK05-06-094-004a
शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् ॥ KK05-06-094-004c
तत उत्थाय दाशार्हऋषभः सर्वसात्वताम् । KK05-06-094-005a
सर्वमावश्यकं चक्रे प्रातः कार्यं जनार्दनः ॥ KK05-06-094-005c
कृतोदकानुजप्यः स हुताग्निः समलङ्कृतः । KK05-06-094-006a
ततश्चादित्यमुद्यन्तमुपातिष्ठत माधवः ॥ KK05-06-094-006c
अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः । KK05-06-094-007a
सन्ध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥ KK05-06-094-007c
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् । KK05-06-094-008a
कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ॥ KK05-06-094-008c
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः । KK05-06-094-009a
तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥ KK05-06-094-009c
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः । KK05-06-094-010a
ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परन्तपः ॥ KK05-06-094-010c
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् । KK05-06-094-011a
तिष्ठन्तमुपसङ्गम्य ववन्दे सारथिस्तदा ॥ KK05-06-094-011c
'तस्मै रथवरो युक्तः शुशुभे लोकविश्रुतः । KK05-06-094-012a
वाजिभिः शैब्यसुग्रीवमेघपुष्पबलाहकैः ॥ KK05-06-094-012c
शैब्यस्तु शुकपत्राभः सुग्रीवः किंशुकप्रभः । KK05-06-094-013a
मेघपुष्पो मेघवर्णः पाण्डरस्तु बलाहकः ॥ KK05-06-094-013c
दक्षिणं चावहच्छैब्यः सुग्रीवः सव्यतोऽवहत् । KK05-06-094-014a
पृष्ठवाहौ रथस्यास्तां मेघपुष्पबलाहकौ ॥ KK05-06-094-014c
विश्वकर्मकृताऽऽपीडा रत्नजालविभूषिता । KK05-06-094-015a
आश्रिता वै रथे तस्मिन्ध्वजयष्टिरशोभत ॥ KK05-06-094-015c
वैनतेयः स्थितस्तस्यां प्रभाकरमिव स्पृशन् । KK05-06-094-016a
तस्य सत्ववतः केतौ भुजगारिरशोभत ॥ KK05-06-094-016c
तस्य कीर्तिमतस्तेन भास्वरेण विराजता । KK05-06-094-017a
शुशुभे स्यन्दनश्रेष्ठः पतगेन्द्रेण केतुना ॥ KK05-06-094-017c
रश्मिजालैः पताकाभिः सौवर्णेन च केतुना । KK05-06-094-018a
बभूव स रथश्रेष्ठः कालसूर्य इवोदितः ॥ KK05-06-094-018c
पक्षिध्वजवितानैश्च रुक्मजालकृताङ्गणैः । KK05-06-094-019a
दण्डमार्गविभागैश्च सुकृतैर्विश्वकर्मणा ॥ KK05-06-094-019c
प्रवालमणिशोभैश्च मुक्तावैडूर्यशोभनैः । KK05-06-094-020a
किङ्किणीशतसङ्घैश्च वालजालकृतान्तरैः ॥ KK05-06-094-020c
कार्तस्वरमयीभिश्च पद्मिनीभिरलङ्कृतः । KK05-06-094-021a
शुशुभे स्यन्दनश्रेष्ठस्तापनीयैश्च पादपैः ॥ KK05-06-094-021c
व्याघ्रसिंहवराहैश्च गोभिश्च मृगपक्षिभिः । KK05-06-094-022a
ताराभिर्भास्करैश्चापि वारणैश्च हिरण्मयैः ॥ KK05-06-094-022c
वज्राङ्कुशविमानैश्च कूबरावृत्तसन्धिषु । KK05-06-094-023a
समुच्छ्रितमहानाभिः स्तनयित्नुमहास्वनः ॥' KK05-06-094-023c
ततो रथेन शुभ्रेण महता किङ्किणीकिना । KK05-06-094-024a
हयोत्तमयुजा शीघ्रमुपातिष्ठत दारुकः ॥ KK05-06-094-024c
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः । KK05-06-094-025a
महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥ KK05-06-094-025c
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः । KK05-06-094-026a
कौस्तुभं मणिमाबध्य श्रिया परमया ज्वलन् ॥ KK05-06-094-026c
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः । KK05-06-094-027a
आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥ KK05-06-094-027c
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् । KK05-06-094-028a
सर्वप्राणभृतां श्रेष्ठं सर्वबुद्धिमतां वरम् ॥ KK05-06-094-028c
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः । KK05-06-094-029a
द्वितीयेन रथेनैनमन्वयातां परन्तपम् ॥ KK05-06-094-029c
सात्यकिः कृतवर्मा च वृष्णीनां चापरे रथाः । KK05-06-094-030a
पृष्ठतोऽनुययुः कृष्णं गजैरश्वै रथैरपि ॥ KK05-06-094-030c
तेषां हेमपरिष्कारैर्युक्ताः परमवाजिभिः । KK05-06-094-031a
गच्छतां घोषिणश्चित्ररथा राजन्विरेजिरे ॥ KK05-06-094-031c
सम्मृष्टसंसिक्तरजः प्रतिपेदे महापथम् । KK05-06-094-032a
राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ॥ KK05-06-094-032c
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः । KK05-06-094-033a
शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥ KK05-06-094-033c
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः । KK05-06-094-034a
परिवार्य रथं शौरेरगच्छन्त परन्तपाः ॥ KK05-06-094-034c
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः । KK05-06-094-035a
असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ॥ KK05-06-094-035c
गजाः पञ्चशतास्तत्र रथाश्चासन्सहस्रशः । KK05-06-094-036a
प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥ KK05-06-094-036c
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् । KK05-06-094-037a
सबालवृद्धं सस्त्रीकं रथ्यागतमरिन्दम ॥ KK05-06-094-037c
वेदिकामाश्रिताभिश्च समाक्रान्तान्यनेकशः । KK05-06-094-038a
प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ॥ KK05-06-094-038c
स पूज्यमानः कुरुभिः संशृण्वन्मधुराः कथाः । KK05-06-094-039a
यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ॥ KK05-06-094-039c
ततः सभां समासाद्य केशवस्यानुयायिनः । KK05-06-094-040a
सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥ KK05-06-094-040c
ततः सा समितिः सर्वा राज्ञाममिततेजसाम् । KK05-06-094-041a
सम्प्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥ KK05-06-094-041c
ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः । KK05-06-094-042a
श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥ KK05-06-094-042c
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् । KK05-06-094-043a
अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥ KK05-06-094-043c
नवमेघप्रतीकाशां ज्वलन्तीमिव तेजसा । KK05-06-094-044a
महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥ KK05-06-094-044c
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः । KK05-06-094-045a
ज्येतींष्यादित्यवद्राजन्कुरून्प्राच्छादयच्छ्रिया ॥ KK05-06-094-045c
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ । KK05-06-094-046a
वृष्णयः कृतवर्मा चाप्यासन्कृष्णस्य पृष्ठतः ॥ KK05-06-094-046c
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः । KK05-06-094-047a
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ KK05-06-094-047c
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वर । KK05-06-094-048a
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ KK05-06-094-048c
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे । KK05-06-094-049a
तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥ KK05-06-094-049c
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् । KK05-06-094-05a0
कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥ KK05-06-094-050c
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः । KK05-06-094-051a
अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥ KK05-06-094-051c
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् । KK05-06-094-052a
राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥ KK05-06-094-052c
तत्र तिष्ठन्स दाशार्हो राजमध्ये परन्तपः । KK05-06-094-053a
अपश्यदन्तरिक्षस्थानृषीन्परपुरञ्जयः । KK05-06-094-053c
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् ॥ KK05-06-094-053e
अभ्यभाषत दाशार्हो भीष्मं शान्तनवं शनैः । KK05-06-094-054a
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ॥ KK05-06-094-054c
निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा । KK05-06-094-055a
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ॥ KK05-06-094-055c
पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् । KK05-06-094-056a
वैशम्पायन उवाच KK05-06-094-056
ऋषीञ्शान्तनवो दृष्ट्वा सभाद्वारमुपस्थितान् । KK05-06-094-056c
त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् । KK05-06-094-057a
आसनान्यथ मृष्टानि महान्ति विपुलानि च ॥ KK05-06-094-057c
मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः । KK05-06-094-058a
तेषु तत्रोपविष्टेषु गृहीतार्घ्येषु भारत ॥ KK05-06-094-058c
निषसादासने कृष्णो राजानश्च यथासनम् । KK05-06-094-059a
दुःशासनः सात्यकये ददावासनमुत्तमम् ॥ KK05-06-094-059c
विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे । KK05-06-094-060a
अविदूरे तु कृष्णस्य कर्णदुर्योधनावुभौ ॥ KK05-06-094-060c
एकासने महात्मानौ निषीदतुरमर्षणौ । KK05-06-094-061a
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ॥ KK05-06-094-061c
निषसादासने राजा सहपुत्रो विशाम्पते । KK05-06-094-062a
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ॥ KK05-06-094-062c
संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् । KK05-06-094-063a
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्व एव ते ॥ KK05-06-094-063c
अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् । KK05-06-094-064a
अतसीपुष्पसङ्काशः पीतवासा जनार्दनः ॥ KK05-06-094-064c
व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥ KK05-06-094-065ac
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् । KK05-06-094-066a
न तत्र कश्चित्किञ्चिद्वा व्याजहार पुमान्क्वचित् ॥ ॥ KK05-06-094-066c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुर्नवतितमोऽध्यायः ॥
5-94-31 चित्राश्च ते रथाश्च ॥ 5-94-33 एकपुष्कराः काहलाः ॥