अध्यायः 092
रात्रौ विदुरेण श्रीकृष्णं प्रति भीष्मादिसमाश्रयणेन गर्वितस्य दुर्योधनस्य दौश्शील्याभिलपनपूर्वकं तस्मिन् सामवचनस्य नैष्फल्यकथनम् ॥ 1 ॥ तथा दुष्टभूयिष्ठसभाप्रवेशस्य स्वानभिमतत्वकथनम् ॥ 2 ॥
वैशम्पायन उवाच KK05-06-092-001
तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् । KK05-06-092-001a
नेदं सम्यग्व्यवसितं केशवागमनं तव ॥ KK05-06-092-001c
अर्थधर्मातिगो मन्दः संरम्भी च जनार्दन । KK05-06-092-002a
मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥ KK05-06-092-002c
धर्मशास्त्रातिगो मूढो दुरात्मा प्रग्रहं गतः । KK05-06-092-003a
अनेयः श्रेयसां मन्दो धार्तराष्ट्रो जनार्दन ॥ KK05-06-092-003c
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्किता । KK05-06-092-004a
अकर्ता चाकृतज्ञश्च त्यक्तधर्मा प्रियानृतः ॥ KK05-06-092-004c
मूढश्चाकृतबुद्धिश्च इन्द्रियाणामनीश्वरः । KK05-06-092-005a
कामानुसारी कृत्येषु सर्वेष्वकृतनिश्चयः ॥ KK05-06-092-005c
एतैश्चान्यैश्च बहुभिर्दोषैरेव समन्वितः । KK05-06-092-006a
त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ॥ KK05-06-092-006c
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे । KK05-06-092-007a
भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥ KK05-06-092-007c
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन । KK05-06-092-008a
भीष्मद्रोणमुखान्पार्था न शक्ताः प्रतिवीक्षितुम् ॥ KK05-06-092-008c
सेनासमुदयं कृत्वा पार्थिवं मधुसूदन । KK05-06-092-009a
कृतार्थं मन्यते बाल आत्मानमविचक्षणः ॥ KK05-06-092-009c
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् । KK05-06-092-010a
धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥ KK05-06-092-010c
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव । KK05-06-092-011a
शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥ KK05-06-092-011c
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् । KK05-06-092-012a
इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ॥ KK05-06-092-012c
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन । KK05-06-092-013a
न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥ KK05-06-092-013c
अविजानत्सु मूढेषु निर्मर्यादेषु माधव । KK05-06-092-014a
तत्त्वं वाक्यं ब्रुवन्निन्द्यश्चण्डालेषु द्विजो यथा ॥ KK05-06-092-014c
सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः । KK05-06-092-015a
तस्मिन्निरर्थकं वाक्यमुक्तं सम्पत्स्यते तव ॥ KK05-06-092-015c
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् । KK05-06-092-016a
तव मध्यावतरणं मम कृष्ण न रोचते ॥ KK05-06-092-016c
दुर्बुद्धीनामशिष्टानां बहूनां दुष्टचेतसाम् । KK05-06-092-017a
प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥ KK05-06-092-017c
अनुपासितवृद्धत्वाच्छ्रियो दर्पाच्च मोहितः । KK05-06-092-018a
वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥ KK05-06-092-018c
बलं बलवदप्यस्य यदि वक्ष्यसि माधव । KK05-06-092-019a
त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥ KK05-06-092-019c
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः । KK05-06-092-020a
इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥ KK05-06-092-020c
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु । KK05-06-092-021a
समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥ KK05-06-092-021c
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः । KK05-06-092-022a
दुर्योधनो मन्यते वीतभीतिः कृत्स्ना मयेयं पृथिवी जितेति ॥ KK05-06-092-022c
आशंसते वै धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम् । KK05-06-092-023a
तस्मिञ्शमः केवलो नोपलभ्यो बद्धं सन्तं मन्यते लब्धमर्थम् ॥ KK05-06-092-023c
पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान्योद्धुकामाः । KK05-06-092-024a
समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः ॥ KK05-06-092-024c
सर्वे चैते कृतवैराः पुरस्तात्त्वया राजानो हृतसाराश्च कृष्ण । KK05-06-092-025a
तवोद्वेगात्संश्रिता धार्तराष्ट्रान्सुसंहताः सह कर्णेन वीराः ॥ KK05-06-092-025c
त्यक्तात्मानः सह दुर्योधनेन हृष्टा योद्धुं पाण्डवान्सर्वयोधाः । KK05-06-092-026a
'मृत्युर्जयो वेति कृतैकभावाः कामात्मानो मन्युवशा विनीताः ॥' KK05-06-092-026c
तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्हवीर ॥ KK05-06-092-026e
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् । KK05-06-092-027a
कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥ KK05-06-092-027c
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः । KK05-06-092-028a
प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥ KK05-06-092-028c
या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव । KK05-06-092-029a
प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥ KK05-06-092-029c
या मे प्रीतिः पुष्कराक्ष त्वद्दर्शनसमुद्भवा । KK05-06-092-030a
सा किमाख्यायते तुभ्यमन्तरात्माऽसि देहिनाम् ॥ ॥ KK05-06-092-030c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्विनवतितमोऽध्यायः ॥
5-92-3 प्रग्रहं निर्बन्धम् अत्यन्ताभिनिवेशमित्यर्थः । अनेयः अप्रापणीयः । श्रेयसां श्रेयांसि ॥ 5-92-4 सर्वशङ्किता सर्वत्र विश्वासहीनः ॥ 5-92-7 वृत्तिं जीविकाम् । एते युद्धेन मह्यं राज्यं दास्यन्तीत्याशयेत्यर्थः ॥ 5-92-9 पार्थिवं पृथ्वीसम्बन्धिनम् ॥ 5-92-12 प्रतिदेयं परावृत्यदेयम् । व्यवसिताः निश्चिताः ॥ 5-92-18 ते त्वत्तः ॥ 5-92-23 बद्धं स्थिराम् ॥