अध्यायः 091
दुर्योधनेन स्वगृहमागतस्य श्रीकृष्णस्य पूजापूर्वकं भोजनायामन्त्रणम् ॥ 1 ॥ दुर्योधनेन श्रीकृष्णं प्रति स्वीयान्नपानाद्यनादरणकारणप्रश्ने कृष्णेन तत्कथनपूर्वकं विदुरगृहगमनम् ॥ 2 ॥ विदुरेण सादरमन्नपानादिना श्रीकृष्णाराधनम् ॥ 3 ॥
वैशम्पायन उवाच KK05-06-091-001
पृथामामन्त्र्य गोविन्दः कृत्वा चाभिप्रदक्षिणम् । KK05-06-091-001a
दुर्योधनगृहं शौरिरभ्यगच्छदरिन्दमः ॥ KK05-06-091-001c
लक्ष्म्या परमया युक्तं पुरन्दरगृहोपमम् । KK05-06-091-002a
विचित्रैरासनैर्युक्तं प्रविवेश जनार्दनः ॥ KK05-06-091-002c
तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः । KK05-06-091-003a
ततोऽभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् ॥ KK05-06-091-003c
श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः । KK05-06-091-004a
तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् ॥ KK05-06-091-004c
धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने । KK05-06-091-005a
दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ॥ KK05-06-091-005c
दुर्योधनसमीपे तानासनस्थान्ददर्श सः । KK05-06-091-006a
अभ्यागच्छति दाशार्हे धार्तराष्ट्रो महायशाः ॥ KK05-06-091-006c
उदतिष्ठत्सहामात्यः पूजयन्मधुसूदनम् । KK05-06-091-007a
समेत्य धार्तराष्ट्रेण सहामात्येन केशवः ॥ KK05-06-091-007c
राजभिस्तत्र वार्ष्णेयः समागच्छद्यथावयः । KK05-06-091-008a
तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ॥ KK05-06-091-008c
विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः । KK05-06-091-009a
तस्मिन्गां मधुपर्कं चाप्युदकं च जनार्दने ॥ KK05-06-091-009c
निवेदयामास तदा गृहान्राज्यं च कौरवः । KK05-06-091-010a
'आसनं सर्वतोभद्रं सर्वरत्नविभूषितम् ॥ KK05-06-091-010c
कृष्णार्थमेव संसिद्धं धार्तराष्ट्रस्य शासनात् ।' KK05-06-091-011a
तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ॥ KK05-06-091-011c
उपासाञ्चक्रिरे सर्वे कुरवो राजभिः सह । KK05-06-091-012a
ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ॥ KK05-06-091-012c
न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः । KK05-06-091-013a
ततो दुर्योधनः कृष्णमब्रवीत्कुरुसंसदि ॥ KK05-06-091-013c
मृदुपूर्वं शठोदर्कं कर्णमाभाष्य कौरवः । KK05-06-091-014a
कस्मादन्नानि पापानि वासांसि शयनानि च ॥ KK05-06-091-014c
त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन । KK05-06-091-015a
उभयोश्च ददत्साह्यमुभयोश्च हिते रतः ॥ KK05-06-091-015c
सम्बन्धी दयितश्चासि धृतराष्ट्रस्य माधव । KK05-06-091-016a
त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः । KK05-06-091-016c
तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥ KK05-06-091-016e
वैशम्पायन उवाच KK05-06-091-017
स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः । KK05-06-091-017a
उद्यन्मेघस्वनः काले प्रगृह्य विपुलं भुजम् ॥ KK05-06-091-017c
अलघूकृतमग्रस्तमनिरस्तमसङ्कुलम् । KK05-06-091-018a
राजीवनेत्रो राजानं हेतुमद्वाक्यमुत्तमम् ॥ KK05-06-091-018c
कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव ह । KK05-06-091-019a
कृतार्थं मां सहामात्यं समर्चिष्यसि भारत ॥ KK05-06-091-019c
एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् । KK05-06-091-020a
न युक्तं भवताऽस्मासु प्रतिपत्तुमसाम्प्रतम् ॥ KK05-06-091-020c
कृतार्थं वाऽकृतार्थं वा त्वां वयं मधुसूदन । KK05-06-091-021a
यतामहे पूजयितुं दाशार्ह न च शक्नुमः ॥ KK05-06-091-021c
न च तत्कारणं विद्मो यस्मान्नो मधुसूदन । KK05-06-091-022a
पूजां कृतां प्रीयमाणो नामंस्थाः पुरुषोत्तम ॥ KK05-06-091-022c
वैरं नो नास्ति भवता गोविन्द न च विग्रहः । KK05-06-091-023a
स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥ KK05-06-091-023c
वैशम्पायन उवाच KK05-06-091-024
एवमुक्तः प्रत्युवाच धार्तराष्ट्रं जनार्दनः । KK05-06-091-024a
अभिवीक्ष्य सहामात्यं दाशार्हः प्रहसन्निव ॥ KK05-06-091-024c
नाहं कामान्न संरम्भान्न द्वेषान्नार्थकारणात् । KK05-06-091-025a
न हेतुवादाल्लोभाद्वा धर्मं जह्यां कथञ्चन ॥ KK05-06-091-025c
सम्प्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः । KK05-06-091-026a
न च सम्प्रीयसे राजन्न चैवापद्गता वयम् ॥ KK05-06-091-026c
'द्विषदन्नं न भोक्तव्यं द्विषन्तं नैव भोजयेत् । KK05-06-091-027a
पाण्डवान्द्विषसे राजन्मम प्राणा हि पाण्डवाः ॥' KK05-06-091-027c
अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् । KK05-06-091-028a
प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥ KK05-06-091-028c
अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते । KK05-06-091-029a
धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥ KK05-06-091-029c
यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु समामनु । KK05-06-091-030a
ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥ KK05-06-091-030c
कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सति । KK05-06-091-031a
गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥ KK05-06-091-031c
यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते । KK05-06-091-032a
सोजितात्माऽजितक्रोधो न चिरं तिष्ठति श्रिया ॥ KK05-06-091-032c
अथ यो गुणसम्पन्नान्हृदयस्याप्रियानपि । KK05-06-091-033a
प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ KK05-06-091-033c
सर्वमेतन्न भोक्तव्यमन्नं दुष्टाभिसंहितम् । KK05-06-091-034a
क्षुत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥ KK05-06-091-034c
एवमुक्त्वा महाबाहुर्दुर्योधनममर्षणम् । KK05-06-091-035a
निश्चक्राम ततः शुभ्राद्धार्तराष्ट्रनिवेशनात् ॥ KK05-06-091-035c
निर्याय च महाबाहुर्वासुदेवो महामनाः । KK05-06-091-036a
निवेशाय ययौ वेश्य विदुरस्य महात्मनः ॥ KK05-06-091-036c
तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः । KK05-06-091-037a
कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥ KK05-06-091-037c
त ऊचुर्माधवं वीरं कुरवो मधुसूदनम् । KK05-06-091-038a
निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥ KK05-06-091-038c
तानुवाच महातेजाः कौरवान्मधुसूदनः । KK05-06-091-039a
सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता ॥ KK05-06-091-039c
वैशम्पायन उवाच KK05-06-091-040
यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् । KK05-06-091-040a
अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥ KK05-06-091-040c
ततः क्षत्राऽन्नपानानि शुचीनि गुणवन्ति च । KK05-06-091-041a
उपाहरदनेकानि केशवाय महात्मने ॥ KK05-06-091-041c
तैस्तर्पयित्वा प्रथमं ब्राह्मणान्मधुसूदनः । KK05-06-091-042a
वेदविद्भ्यो ददौ कृष्णः परमद्रविणान्यपि ॥ KK05-06-091-042c
'भुक्तवत्सु द्विजाग्र्येषु निषण्णेषु वरासने । KK05-06-091-043a
शुचिः सुप्रयतो भूत्वा विदुरोऽन्नमुपाहरत् ॥ KK05-06-091-043c
श्रद्धया परया युक्त इदं वचनमब्रवीत् । KK05-06-091-044a
संवृतैस्तुष्य गोविन्द एतन्नः परमं धनम् । KK05-06-091-044c
अन्यथा हि विशेषेण कस्त्वामर्चितुमर्हति ॥ KK05-06-091-044e
वैशम्पायन उवाच KK05-06-091-045
ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः । KK05-06-091-045a
विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥ KK05-06-091-045c
तं भुक्तवन्तं विविधाः सुशब्दाः सूतमागधाः । KK05-06-091-046a
अभितुष्टुवुरासीनं दाशार्हमपराजितम् ॥ ॥ KK05-06-091-046c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकनवतितमोऽध्यायः ॥
5-91-14 शठोदर्कं शाठ्यपर्यवसानम् । आभाष्य सम्बोधनेनोन्मुखीकृत्य । 5-91-17 प्रगृह्य उद्यम्य ॥ 5-91-25 संरम्भात् क्रोधात् । हेतुवादात् कपटात् ॥ 5-91-31 विरुरुत्सति विरोधं कर्तुमिच्छति ॥ 5-91-44 संवृतैः राजानर्हतया गोपितैः ॥