अध्यायः 090
श्रीकृष्णस्य कुन्तीसमीपगमनम् ॥ 1 ॥ कृष्णेन प्रत्येकं नामनिर्देशपूर्वकं युधिष्ठिरादिकुशलमापृच्छ्य स्वानुभूतदुःखानुस्मरेन शोचन्त्याः कुन्त्याः समाश्वासनम् ॥ 2 ॥ तथा कुन्तीमामन्त्र्य दुर्योधनगृहगमनम् ॥ 3 ॥
वैशम्पायन उवाच KK05-06-090-001
अथोपगम्य विदुरमपराह्णे जनार्दनः । KK05-06-090-001a
पितृष्वसारं स पृथामभ्यगच्छदरिन्दमः ॥ KK05-06-090-001c
सा दृष्ट्वा कृष्णमायान्तं प्रसन्नादित्यवर्चसम् । KK05-06-090-002a
कण्ठे गृहीत्वा प्राक्रोशत्स्मरन्ती तनयान्पृथा ॥ KK05-06-090-002c
तेषां सत्ववतां मध्ये गोविन्दं सहचारिणम् । KK05-06-090-003a
चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पमाहारयत्पृथा ॥ KK05-06-090-003c
साऽब्रवीत्कृष्णमासीनं कृतातिथ्यं युधां पतिम् । KK05-06-090-004a
बाष्पगद्गदपूर्णेन मुखेन परिशुष्यता ॥ KK05-06-090-004c
एते बाल्यात्प्रभृत्येव गुरुशुश्रूषणे रताः । KK05-06-090-005a
परस्परस्य सुहृदः सम्मताः समचेतसः । KK05-06-090-005c
निकृत्या भ्रंशिता राज्याज्जनार्हा निर्जनं गताः ॥ KK05-06-090-005e
विनीतक्रोधहर्षाश्च ब्रह्मण्याः सत्यवादिनः । KK05-06-090-006a
त्यक्त्वा प्रियमुखे पार्था रुदतीमपहाय माम् ॥ KK05-06-090-006c
अहार्षुश्च वनं यान्तः समूलं हृदयं मम । KK05-06-090-007a
अतदर्हा महात्मानः कथं केशव पाण्डवाः ॥ KK05-06-090-007c
ऊषुर्महावने तात सिंहव्याघ्रगजाकुले । KK05-06-090-008a
बाला विहीनाः पित्रा ते मया सततलालिताः ॥ KK05-06-090-008c
अपश्यन्तश्च पितरौ कथमूषुर्महावने । KK05-06-090-009a
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गैर्वेणुनिस्वनैः ॥ KK05-06-090-009c
पाण्डवाः समबोध्यन्त बाल्यात्प्रभृति केशव । KK05-06-090-010a
ये स्म वारणशब्देन हयानां हेषितेन च ॥ KK05-06-090-010c
रथेनेमिनिनादैश्च व्यबोध्यन्त तदा गृहे । KK05-06-090-011a
शङ्खभेरीनिनादेन वेणुवीणानुनादिना ॥ KK05-06-090-011c
पुण्याहघोषमिश्रेण पूज्यमाना द्विजातिभिः । KK05-06-090-012a
वस्त्रै रत्नैरलङ्कारैः पूजयन्तो द्विजन्मनः ॥ KK05-06-090-012c
गीर्भिर्मङ्गलयुक्ताभिर्ब्राह्मणानां महात्मनाम् । KK05-06-090-013a
अर्चितैरर्चनार्हैश्च स्तुवद्भिरभिनन्दिताः ॥ KK05-06-090-013c
प्रासादाग्रेष्वबोध्यन्त राङ्कवाजिनशायिनः । KK05-06-090-014a
क्रूरं च निनदं श्रुत्वा श्वापदानां महावने ॥ KK05-06-090-014c
न स्मोपयान्ति निद्रां ते नतदर्हा जनार्दन । KK05-06-090-015a
भेरीमृदङ्गनिनदैः शङ्खवैणवनिस्वनैः ॥ KK05-06-090-015c
स्त्रीणां गीतनिनादैश्च मधुरैर्मधुसूदन ॥ KK05-06-090-016a
वन्दिमागधसूतैश्च स्तुवद्भिर्बोधिताः कथम् ॥ KK05-06-090-016c
महावनेष्वबोध्यन्त श्वापदानां रुतेन च । KK05-06-090-017a
ह्रीमान्सत्यधृतिर्दान्तो भूतानामनुकम्पिता ॥ KK05-06-090-017c
कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते । KK05-06-090-018a
अम्बरीषस्य मान्धातुर्ययातेर्नहुषस्य च ॥ KK05-06-090-018c
भरतस्य दिलीपस्य शिबेरौशीनरस्य च । KK05-06-090-019a
राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम् ॥ KK05-06-090-019c
शीलवृत्तोपसम्पन्नोः धर्मज्ञः सत्यसङ्गरः । KK05-06-090-020a
राजा सर्वगुणोपेतस्त्रौलोक्यस्यापि यो भवेत् ॥ KK05-06-090-020c
अजातशत्रुर्धर्मात्मा शुद्धजाम्बूनदप्रभः । KK05-06-090-021a
श्रेष्ठः कुरुषु सर्वेषु धर्मतः श्रुतवृत्ततः । KK05-06-090-021c
प्रियदर्शो दीर्घभुजः कथं कृष्ण युधिष्ठिरः ॥ KK05-06-090-021e
यः स नागायुतप्राणो वातरंहा महाबलः । KK05-06-090-022a
सामर्षः पाण्डवो नित्यं प्रियो भ्रातुः प्रियङ्करः ॥ KK05-06-090-022c
कीचकस्य तु सज्ञातेर्यो हन्ता मधुसूदन । KK05-06-090-023a
शूरः क्रोधवशानां च हिडिम्बस्य बकस्य च ॥ KK05-06-090-023c
पराक्रमे शक्रसमो मातरिश्वसमो बले । KK05-06-090-024a
महेश्वरसमः क्रोधे भीमः प्रहरतां वरः ॥ KK05-06-090-024c
क्रोधं बलममर्षं च यो निधाय परन्तपः । KK05-06-090-025a
जितात्मा पाण्डवोऽमर्षी भ्रातुस्तिष्ठति शासने ॥ KK05-06-090-025c
तेजोराशिं महात्मानं वरिष्ठममितौजसम् । KK05-06-090-026a
भीमं प्रदर्शनेनापि भीमसेनं जनार्दन ॥ KK05-06-090-026c
तं ममाचक्ष्व वार्ष्णेय कथमद्य वृकोदरः । KK05-06-090-027a
आस्ते परिघबाहुः स मध्यमः पाण्डवो बली ॥ KK05-06-090-027c
अर्जुनेनार्जुनो यः स कृष्ण बाहुसहस्रिणा । KK05-06-090-028a
द्विबाहुः स्पर्धते नित्यमतीतेनापि केशव ॥ KK05-06-090-028c
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः । KK05-06-090-029a
इष्वस्त्रे सदृशो राज्ञः कार्तवीर्यस्य पाण्डवः ॥ KK05-06-090-029c
तेजसाऽऽदित्यसदृशो महर्षिसदृशो दमे । KK05-06-090-030a
क्षमया पृथिवीतुल्यो महेन्द्रसमविक्रमः ॥ KK05-06-090-030c
आधिराज्यं महद्दीप्तं प्रथितं मधुसूदन । KK05-06-090-031a
आहृतं येन वीर्येण कुरूणां सर्वराजसु ॥ KK05-06-090-031c
यस्य बाहुबलं सर्वे पाण्डवाः पर्युपासते । KK05-06-090-032a
स सर्वरथिनां श्रेष्ठः पाण्डवः सत्यविक्रमः ॥ KK05-06-090-032c
यं गत्वाऽभिमुखः सङ्ख्ये न जीवन्कश्चिदाव्रजेत् । KK05-06-090-033a
यो जेता सर्वभूतानामजेयो जिष्णुरच्युत ॥ KK05-06-090-033c
योऽपाश्रयः पाण्डवानां देवानामिव वासवः । KK05-06-090-034a
स ते भ्राता सखा चैव कथमद्य धनञ्जयः ॥ KK05-06-090-034c
दयावान्सर्वभूतेषु ह्रीनिषेवो महास्त्रवित् । KK05-06-090-035a
मृदुश्च सुकुमारश्च धार्मिकश्च प्रियश्च मे ॥ KK05-06-090-035c
सहदेवो महेष्वासः शूरः समितिशोभनः । KK05-06-090-036a
भ्रातॄणां कृष्ण शुश्रूषुर्धर्मार्थकुशलो युवा ॥ KK05-06-090-036c
सदैव सहदेवस्य भ्रातरो मधुसूदन । KK05-06-090-037a
वृत्तं कल्याणवृत्तस्य पूजयन्ति महात्मनः ॥ KK05-06-090-037c
ज्येष्ठोपचायिनं वीरं सहदेवं युधां पतिम् । KK05-06-090-038a
शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं प्रचक्ष्व मे ॥ KK05-06-090-038c
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः । KK05-06-090-039a
भ्रातॄणां चैव सर्वेषां प्रियः प्राणो बहिश्चरः ॥ KK05-06-090-039c
चित्रयोधी च नकुलो महेष्वासो महाबलः । KK05-06-090-040a
कच्चित्स कुशली कृष्ण वत्सो मम सुखैधितः ॥ KK05-06-090-040c
सुखोचितमदुःखार्हं सुकुमारं महारथम् । KK05-06-090-041a
अपि जातु महाबाहो पश्येयं नकुलं पुनः ॥ KK05-06-090-041c
पक्ष्मसम्पातजे काले नकुलेन विनाकृता । KK05-06-090-042a
न लभामि धृतिं वीर साऽद्य जीवामि पश्य माम् ॥ KK05-06-090-042c
सर्वैः पुत्रैः प्रियतरा द्रौपदी मे जनार्दन । KK05-06-090-043a
कुलीना रूपसम्पन्ना सर्वैः समुदिता गुणैः ॥ KK05-06-090-043c
पुत्रलोकात्पतिलोकं वृण्वाना सत्यवादिनी । KK05-06-090-044a
प्रियान्पुत्रान्परित्यज्य पाण्डवाननुरुध्यते ॥ KK05-06-090-044c
महाभिजनसम्पन्ना सर्वकामैः सुपूजिता । KK05-06-090-045a
ईश्वरी सर्वकल्याणी द्रौपदी कथमच्युत ॥ KK05-06-090-045c
पतिभिः पञ्चभिः शूरैरग्निकल्पैः प्रहारिभिः । KK05-06-090-046a
उपपन्ना महेष्वासैर्द्रौपदी दुःखभागिनी ॥ KK05-06-090-046c
चतुर्दशमिदं वर्षं यन्नापश्यमरिन्दम । KK05-06-090-047a
पुत्रादिभिः परिद्यूनां द्रौपदीं सत्यवादिनीम् ॥ KK05-06-090-047c
न नूनं कर्मभिः पुण्यैरश्नुते पुरुषः सुखम् । KK05-06-090-048a
द्रौपदी चेत्तथावृत्ता नाश्नुते सुखमव्ययम् ॥ KK05-06-090-048c
न प्रियो मम कृष्णाया बीभत्सुर्न युधिष्ठिरः । KK05-06-090-049a
भीमसेनो यमौ वापि यदपश्यं सभागताम् ॥ KK05-06-090-049c
न मे दुःखतरं किञ्चिद्भूतपूर्वं ततोऽधिकम् । KK05-06-090-050a
स्त्रीधर्मिणीं द्रौपदीं यच्छ्वशुराणां समीपगाम् ॥ KK05-06-090-050c
आनायितामनार्येण क्रोधलोभानुवर्तिना । KK05-06-090-051a
सर्वे प्रैक्षन्त कुरव एकवस्त्रां सभागताम् ॥ KK05-06-090-051c
तत्रैव धृतराष्ट्रश्च महाराजश्च बाह्लिकः । KK05-06-090-052a
कृपश्च सोमदत्तश्च निर्विण्णाः कुरवस्तथा ॥ KK05-06-090-052c
तस्यां संसदि सर्वेषां क्षत्तारं पूजयाम्यहम् । KK05-06-090-053a
वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ॥ KK05-06-090-053c
तस्य कृष्ण महाबुद्धेर्गम्भीरस्य महात्मनः । KK05-06-090-054a
क्षत्तुः शीलमलङ्कारो लोकान्विष्टभ्य तिष्ठति ॥ KK05-06-090-054c
वैशम्पायन उवाच KK05-06-090-055
सा शोकार्ता च हृष्टा च दृष्ट्वा गोविन्दमागतम् । KK05-06-090-055a
नानाविधानि दुःखानि सर्वाण्येवान्वकीर्तयत् ॥ KK05-06-090-055c
पूर्वैराचरितं यत्तत्कुराजभिररिन्दम । KK05-06-090-056a
अक्षद्यूतं मृगवधः कच्चिदेषां सुखावहम् ॥ KK05-06-090-056c
तन्मां दहति यत्कृष्णा सभायां कुरुसन्निधौ । KK05-06-090-057a
धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा ॥ KK05-06-090-057c
निर्वासनं च नगरात्प्रव्रज्या च परन्तप । KK05-06-090-058a
नानाविधानां दुःखानामावासोऽस्मि जनार्दन ॥ KK05-06-090-058c
अज्ञातचर्या बालानामवरोधश्च माधव । KK05-06-090-059a
न मे क्लेशतमं तत्स्यात्पुत्रैः सह परन्तप ॥ KK05-06-090-059c
दुर्योधनेन निकृता वर्षमद्य चतुर्दशम् । KK05-06-090-060a
दुःखादपि सुखं नः स्याद्यदि पुण्यफलक्षयः ॥ KK05-06-090-060c
न मे विशेषो जात्वासीद्धार्तराष्ट्रेषु पाण्डवैः । KK05-06-090-061a
तेन सत्येन कृष्ण त्वां हतामित्रं श्रिया वृतम् । KK05-06-090-061c
अस्माद्विमुक्तं सङ्ग्रामात्पश्येयं पाण्डवैः सह ॥ KK05-06-090-061e
नैव शक्याः पराजेतुं सर्वं ह्येषां तथाविधम् । KK05-06-090-062a
पितरं त्वेव गर्हेयं नात्मानं न सुयोधनम् ॥ KK05-06-090-062c
येनाहं कुन्तिभोजाय धनं वृत्तैरिवार्पिता । KK05-06-090-063a
बालां मामार्यकस्तुभ्यं क्रीडन्तीं कन्दुहस्तिकाम् ॥ KK05-06-090-063c
अदात्तु कुन्तिभोजाय सखा सख्ये महात्मने । KK05-06-090-064a
साऽहं पित्रा च निकृता श्वशुरैश्च परन्तप । KK05-06-090-064c
अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम ॥ KK05-06-090-064e
यन्मां वागब्रवीन्नक्तं सूतके सव्यसाचिनः । KK05-06-090-065a
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवं स्पृशेत् ॥ KK05-06-090-065c
हत्वा कुरून्महाजन्ये राज्यं प्राप्य धनञ्जयः । KK05-06-090-066a
भ्रातृभिः सह कौन्तेयस्त्रीन्मेधानाहरिष्यति ॥ KK05-06-090-066c
नाहं तामभ्यसूयामि नमो धर्माय वेधसे । KK05-06-090-067a
कृष्णाय महते नित्यं धर्मो धारयति प्रजाः ॥ KK05-06-090-067c
धर्मश्चेदस्ति वार्ष्णेय यथा वागभ्यभाषत । KK05-06-090-068a
त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ॥ KK05-06-090-068c
न मां माधव वैधव्यं नार्थनाशो न वैरिता । KK05-06-090-069a
तथा शोकाय दहति यथा पुत्रैर्विना भवः ॥ KK05-06-090-069c
याऽहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम् । KK05-06-090-070a
धनञ्जयं न पश्यामि का शान्तिर्हृदयस्य मे । KK05-06-090-070c
इतश्चतुर्दशं वर्षं यन्नापश्यं युधिष्ठिरम् ॥ KK05-06-090-070e
धनञ्जयं च गोविन्द यमौ तं च वृकोदरम् । KK05-06-090-071a
जीवनाशं प्रनष्टानां श्राद्धं कुर्वन्ति मानवाः ॥ KK05-06-090-071c
अर्थतस्ते मम मृतास्तेषां चाहं जनार्दन । KK05-06-090-072a
ब्रूया माधव राजानं धर्मात्मानं युधिष्ठिरम् ॥ KK05-06-090-072c
भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः । KK05-06-090-073a
पराश्रया वासुदेव या जीवति घिगस्तु ताम् ॥ KK05-06-090-073c
वृत्तेः कार्पण्यलब्धाया अप्रतिष्ठैव ज्यायसी । KK05-06-090-074a
अथो धनञ्जयं ब्रूया नित्योद्युक्तं वृकोदरम् ॥ KK05-06-090-074c
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः । KK05-06-090-075a
अस्मिंश्चेदागते काले मिथ्या चातिक्रमिष्यति ॥ KK05-06-090-075c
लोकसम्भाविताः सन्तः सुनृशंसं करिष्यथ । KK05-06-090-076a
नृशंसेन च वो युक्तांस्त्यजेयं शाश्वतीः समाः ॥ KK05-06-090-076c
काले हि समनुप्राप्ते त्यक्तव्यमपि जीवनम् । KK05-06-090-077a
माद्रीपुत्रौ च व्यक्तव्यौ क्षत्रधर्मरतौ सदा ॥ KK05-06-090-077c
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि । KK05-06-090-078a
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः ॥ KK05-06-090-078c
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम । KK05-06-090-079a
गत्वा ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् ॥ KK05-06-090-079c
अर्जुनं पाण्डवं वीरं द्रौपद्याः पदवीं चर । KK05-06-090-080a
विदितौ हि तवात्यन्तं क्रुद्धौ तौ तु यथान्तकौ ॥ KK05-06-090-080c
भीमार्जुनौ नयेतां हि देवानपि परां गतिम् । KK05-06-090-081a
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ॥ KK05-06-090-081c
दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् । KK05-06-090-082a
दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ॥ KK05-06-090-082c
पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् । KK05-06-090-083a
न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ॥ KK05-06-090-083c
सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति । KK05-06-090-084a
यावदन्तं न नयति शात्रवाञ्छत्रुकर्शनः ॥ KK05-06-090-084c
न दुःखं राज्यहरणं न च द्यूते पराजयः । KK05-06-090-085a
प्रव्राजनं तु पुत्राणां न मे तद्दुःखकारणम् ॥ KK05-06-090-085c
यत्तु सा बृहती श्यामा एकवस्त्रा सभां गता । KK05-06-090-086a
अशृणोत्परुषा वाचः किं नु दुःखतरं ततः ॥ KK05-06-090-086c
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा । KK05-06-090-087a
नाभ्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥ KK05-06-090-087c
यस्या मम सपुत्रायास्त्वं नाथो मधुसूदन । KK05-06-090-088a
रामश्च बलिनां श्रेष्ठः प्रद्युम्नश्च महारथः ॥ KK05-06-090-088c
साऽहमेवंविधं दुःखं सहेयं पुरुषोत्तम । KK05-06-090-089a
भीमे जीवति दुर्धर्षे विजये चापलायिनि ॥ KK05-06-090-089c
वैशम्पायन उवाच KK05-06-090-090
तत आश्वासयामास पुत्राधिभिरभिप्लुताम् । KK05-06-090-090a
पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥ KK05-06-090-090c
वासुदेव उवाच KK05-06-090-091
का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः । KK05-06-090-091a
शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥ KK05-06-090-091c
महाकुलीना भवती ह्रदाद्ध्रदमिवागता । KK05-06-090-092a
ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥ KK05-06-090-092c
वीरसूर्वीरपत्नी त्वं सर्वैः समुदिता गुणैः । KK05-06-090-093a
सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥ KK05-06-090-093c
निद्रातन्द्रे क्रोधहर्षौ क्षुत्पिपासे हिमातपौ । KK05-06-090-094a
एतानि पार्था निर्जित्य नित्यं वीरसुखे रताः ॥ KK05-06-090-094c
त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः । KK05-06-090-095a
न तु स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥ KK05-06-090-095c
अन्तं धीरा निषेवन्ते मध्यं ग्राम्यसुखप्रियाः । KK05-06-090-096a
उत्तमांश्च परिक्लेशान्भोगांश्चातीव मानुषान् ॥ KK05-06-090-096c
अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे । KK05-06-090-097a
अन्तप्राप्तिं सुखं प्राहुर्दुःखमन्तरमन्तयोः ॥ KK05-06-090-097c
अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया । KK05-06-090-098a
आत्मानं ते कुशलिनं निवेद्याहुरनामयम् ॥ KK05-06-090-098c
अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् । KK05-06-090-099a
ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ॥ KK05-06-090-099c
एवमाश्वासिता कुन्ती प्रत्युवाच जनार्दनम् । KK05-06-090-100a
पुत्राधिभिरभिध्वस्ता निगृह्याबुद्धिजं तमः ॥ KK05-06-090-100c
कुन्त्युवाच KK05-06-090-101
यद्यत्तेषां महाबाहो पथ्यं स्यान्मधुसूदन । KK05-06-090-101a
यथायथा त्वं मन्येथाः कुर्याः कृष्ण तथातथा ॥ KK05-06-090-101c
अविलोपेन धर्मस्य अनिकृत्या परन्तप । KK05-06-090-102a
प्रभावज्ञाऽस्मि ते कृष्ण सत्यस्याभिजनस्य च ॥ KK05-06-090-102c
व्यवस्थायां च मित्रेषु बुद्धिविक्रमयोस्तथा । KK05-06-090-103a
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं तपो महत् ॥ KK05-06-090-103c
त्वं त्राता त्वं महद्ब्रह्म त्वयि सर्वं प्रतिष्ठितम् । KK05-06-090-104a
यथैवात्थ तथैवैतत्त्वयि सत्यं भविष्यति ॥ KK05-06-090-104c
'कुरूणां पाण्डवानां च लोकानां चापराजित । KK05-06-090-105a
सर्वस्यैतस्य वार्ष्णेय गतिस्त्वमसि माधव । KK05-06-090-105c
प्रभावो बुद्धिवीर्यं च तादृशं तव केशव ॥' KK05-06-090-105e
वैशम्पायन उवाच KK05-06-090-106
तामामन्त्र्य च गोविन्दः कृत्वा चाभिप्रदक्षिणम् । KK05-06-090-106a
प्रातिष्ठत महाबाहुर्दुर्योधनगृहान्प्रति ॥ ॥ KK05-06-090-106c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि नवतितमोऽध्यायः ॥
5-90-6 प्रियं राज्यादि । सुखं भोगोत्थ आह्लादः ॥ 5-90-21 प्रियो दर्शो दर्शनं यस्य ॥ 5-90-48 तथावृत्ता पुण्यशीला ॥ 5-90-59 अवरोधः राज्याप्रदानरूपो वृत्तिनिरोधः ॥ 5-90-60 यदि सुखं पुण्यक्षयरूपम् अर्थाद्दुःखं पापक्षयरूपं तर्हि दुःखात्पापक्षयहेतोस्तत्सुखं नः अस्माकं स्यात् । तथा च न वयं दुःखाद्भयं प्राप्नुम इत्यर्थः ॥ 5-90-61 अस्मात् भाविनः कुरुपाण्डवसङ्ग्रामात् ॥ 5-90-62 सर्वं वृत्तम् । एषां पाण्डवानां तथाविधम् अविषमम् ॥ 5-90-63 वृत्तैर्वदान्यत्वेन ख्यातैर्धनं यथा अक्लेशेनार्प्यते तद्वत् येनाहमर्पिता । वृत्तोऽतीते दृढे ख्याते इति विश्वः । आर्यकः पितामहः । तुभ्यं तव ॥ 5-90-66 महाजन्ये महायुद्धे । मेधान् अश्वमेधान् ॥ 5-90-75 अतिक्रमिष्यति अयुद्धेनेत्यर्थः ॥ 5-90-102 अनिकृत्या अच्छलेन ॥