अध्यायः 089

प्रातः कृताह्निकस्य श्रीकृष्णस्य वृकस्थलात्कुरुपुरमुपेत्य धृतराष्ट्रभवनप्रवेशः ॥ 1 ॥ तथा धृतराष्ट्रपूजां स्वीकृत्य विदुरसदनगमनम् ॥ 2 ॥ वैशम्पायन उवाच KK05-06-089-001
प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम् । KK05-06-089-001a
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति ॥ KK05-06-089-001c
तं प्रयान्तं महाबाहुमनुज्ञाप्य महाबलम् । KK05-06-089-002a
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः ॥ KK05-06-089-002c
'प्रददौ पुण्डरीकाक्षो रत्नानि च धनानि च । KK05-06-089-003a
तान्प्रस्थाप्य महाबाहुरुपायात्कुरुसंसदम् ॥' KK05-06-089-003c
धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलङ्कृताः । KK05-06-089-004a
दुर्योधनादृते सर्वे भीष्मद्रोणकृपादयः ॥ KK05-06-089-004c
पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः । KK05-06-089-005a
यानैर्बहुविधैरन्ये पद्भिरेव तथाऽपरे ॥ KK05-06-089-005c
स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा । KK05-06-089-006a
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ ॥ KK05-06-089-006c
कृष्णसम्माननार्थं च नगरं समलङ्कृतम् । KK05-06-089-007a
बभूव राजमार्गश्च बहुरत्नसमाचितः ॥ KK05-06-089-007c
न च कश्चिद्गृहे राजंस्तदाऽऽसीद्भरतर्षभ । KK05-06-089-008a
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया ॥ KK05-06-089-008c
राजमार्गे नरास्तस्मिन्संस्तुवन्त्यवनिं गताः । KK05-06-089-009a
तस्मिन्काले महाराज हृषीकेशप्रवेशने ॥ KK05-06-089-009c
आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि । KK05-06-089-010a
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले ॥ KK05-06-089-010c
तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः । KK05-06-089-011a
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते ॥ KK05-06-089-011c
स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः । KK05-06-089-012a
पाण्डुरैः पुण्डरीकाक्षः प्रासादैरुपशोभितम् ॥ KK05-06-089-012c
तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः । KK05-06-089-013a
वैचित्रवीर्यं राजानमभ्यगच्छदरिन्दमः ॥ KK05-06-089-013c
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नराधिपः । KK05-06-089-014a
तहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः ॥ KK05-06-089-014c
कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः । KK05-06-089-015a
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ KK05-06-089-015c
ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम् । KK05-06-089-016a
सभीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा ॥ KK05-06-089-016c
तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः । KK05-06-089-017a
यथावयः समीयाय राजभिः सह माधवः ॥ KK05-06-089-017c
अथ द्रोणं सबाह्लीकं सपुत्रं च यशस्विनम् । KK05-06-089-018a
कृपं च सोमदत्तं च समीयाय जनार्दनः ॥ KK05-06-089-018c
तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम् । KK05-06-089-019a
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः ॥ KK05-06-089-019c
अथ गां मधुपर्कं चाप्युदकं च जनार्दने । KK05-06-089-020a
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः ॥ KK05-06-089-020c
कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून् । KK05-06-089-021a
आस्ते साम्बन्धिकं कुर्वन्कुरुभिः परिवारितः ॥ KK05-06-089-021c
सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः । KK05-06-089-022a
राजानं समनुज्ञाप्य निरक्रामदरिन्दमः ॥ KK05-06-089-022c
तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि । KK05-06-089-023a
विदुरावसथं रम्यमुपातिष्ठत माधवः ॥ KK05-06-089-023c
विदुरः सर्वकल्याणैरभिगम्य जनार्दनम् । KK05-06-089-024a
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम् ॥ KK05-06-089-024c
कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित् । KK05-06-089-025a
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम् ॥ KK05-06-089-025c
प्रीयमाणस्य सुहृदो विदुरो बुद्धिसत्तमः । KK05-06-089-026a
धर्मार्थनित्यस्य सतो गतरोषस्य धीमतः ॥ KK05-06-089-026c
तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम् । KK05-06-089-027a
क्षत्तुराचष्ट दाशार्हः सर्वं प्रत्यक्षदर्शिवान् ॥ ॥ KK05-06-089-027c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोननवतितमोऽध्यायः ॥

5-89-22 पूजितः स्तुतः ॥ 5-89-26 विदुरः पाण्डवानां विचेष्टितं तस्य तं कृष्णं प्रति अपृच्छदित्यनुकृष्यान्वयः । षष्ठ्यो द्वितीयार्थे ॥