अध्यायः 088

दुर्योधनेन श्रीकृष्णस्य विदुरोदीरितभेदागोचरताङ्गीकरणम् ॥ 1 ॥ तथा हेतूपन्यासपूर्वकं कृष्णस्योपायनदाननिषेधनम् ॥ 2 ॥ भीष्मेण कृष्णस्य दुरवज्ञेयत्वकथनपूर्वकं तदुक्तस्य कर्तव्यत्वकथनम् ॥ 3 ॥ दुर्योधनेन स्वस्य कृष्णबन्धनाध्यवसायकथने धृतराष्ट्रेण तद्गर्हणम् ॥ 4 ॥ भीष्मेण दुर्योधनोपालम्भपूर्वकं सभातो निर्गमनम् ॥ 5 ॥ दुर्योधन उवाच KK05-06-088-001
यदाह विदुरः कृष्णे सर्वं तत्सत्यमच्युते । KK05-06-088-001a
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः ॥ KK05-06-088-001c
यत्तत्सत्कारसंयुक्तं देयं वसु जनार्दने । KK05-06-088-002a
अनेकरूपं राजेन्द्र न तद्देयं कदाचन ॥ KK05-06-088-002c
देशः कालस्तथाऽयुक्तो न हि नार्हति केशवः । KK05-06-088-003a
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति ॥ KK05-06-088-003c
अवमानश्च यत्र स्यात्क्षत्रियस्य विशाम्पते । KK05-06-088-004a
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः ॥ KK05-06-088-004c
स हि पूज्यतमो लोके कृष्णः पृथुललोचनः । KK05-06-088-005a
त्रयाणामपि लोकानां विदितं मम सर्वथा ॥ KK05-06-088-005c
न तु तस्मै प्रदेयं स्यात्तथा कार्यगतिः प्रभो । KK05-06-088-006a
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात् ॥ KK05-06-088-006c
वैशम्पायान उवाच KK05-06-088-007
तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः । KK05-06-088-007a
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत् ॥ KK05-06-088-007c
सत्कृतोऽसत्कृतो वाऽपि न क्रुध्येत जनार्दनः । KK05-06-088-008a
'नावमंस्यत्यवज्ञातॄनवज्ञातोऽपि केशवः ।' KK05-06-088-008c
नालमेनमवज्ञातुं नावज्ञेयो हि केशवः ॥ KK05-06-088-008e
यत्तु कार्यं महाबाहो मनसा कार्यतां गतम् । KK05-06-088-009a
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा ॥ KK05-06-088-009c
स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया । KK05-06-088-010a
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः ॥ KK05-06-088-010c
धर्म्यमर्थ्यं च धर्मात्मा ध्रुवं वक्ता जनार्दनः । KK05-06-088-011a
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह ॥ KK05-06-088-011c
दुर्योधन उवाच KK05-06-088-012
न पर्याप्तोस्मि यद्राजञ्श्रियं निष्केवलामहम् । KK05-06-088-012a
तैः सहेमामुपाश्नीयां यावज्जीवं पितामह ॥ KK05-06-088-012c
इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम् । KK05-06-088-013a
परायणं पाण्डवानां नियच्छामि जनार्दनम् ॥ KK05-06-088-013c
तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा । KK05-06-088-014a
पाण्डवाश्च विधेया मे स च प्रातरिहैष्यति ॥ KK05-06-088-014c
अत्रोपायान्यथा सम्यङ्न बुद्ध्येत जनार्दनः । KK05-06-088-015a
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे ॥ KK05-06-088-015c
वैशम्पायन उवाच KK05-06-088-016
तस्य तद्वचनं श्रुत्वा घोरं कृष्णेऽभिसंहितम् । KK05-06-088-016a
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत् ॥ KK05-06-088-016c
ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः । KK05-06-088-017a
मैवं वोचः प्रजापाल नैष धर्मः सनातनः ॥ KK05-06-088-017c
दूतश्च हि हृषीकेशः सम्बन्धी च प्रियश्च नः । KK05-06-088-018a
अपापः कौरवेयेषु स कथं बन्धमर्हति ॥ KK05-06-088-018c
भीष्म उवाच KK05-06-088-019
परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः । KK05-06-088-019a
वृणोत्यनर्थं नैवार्थं याच्यमानः सुहृज्जनैः ॥ KK05-06-088-019c
इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम् । KK05-06-088-020a
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे ॥ KK05-06-088-020c
कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः । KK05-06-088-021a
तव पुत्रः सहामात्यः क्षणेन न भविष्यति ॥ KK05-06-088-021c
पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः । KK05-06-088-022a
नोत्सहेऽनर्थसंयुक्ताः श्रोतुं वाचः कथञ्चन ॥ KK05-06-088-022c
इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान् । KK05-06-088-023a
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः ॥ ॥ KK05-06-088-023c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टाशीतितमोऽध्यायः ॥

5-88-1 असंहार्यः हर्तुमशक्यः ॥ 5-88-3 देश इति । यद्यपि केशवोऽर्चामर्हत्येव तथापि अर्चायां देशः कालश्चायुक्त इत्यर्थः । तदेवाह मंस्यतीति ॥ 5-88-6 कार्यगतिः कर्तव्यरीतिः । अविग्रहात् आतिथ्यमात्रेण ॥ 5-88-8 नालं न पर्याप्तोऽसि ॥ 5-88-10 तीर्थेन अवतरणवर्त्मना । संशाम्य शान्तो भव ॥ 5-88-12 नोपाश्नीयमित्यन्वयः । निष्केवलां कृत्स्नाम् ॥