अध्यायः 087
विदुरेण धृतराष्ट्रं प्रति कृष्णाय दानप्रतिज्ञायाः मृषात्वकथनम् ॥ 1 ॥ तथा सामाद्युपायैः कृष्णस्य दुर्वशत्वकथनपूर्वकं तदुक्तिसत्कारविधानम् ॥ 2 ॥
विदुर उवाच KK05-06-087-001
राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः । KK05-06-087-001a
सम्भावितश्च लोकस्य सम्मतश्चासि भारत ॥ KK05-06-087-001c
यत्त्वमेवङ्गते ब्रूयाः पश्चिमे वयसि स्थितः । KK05-06-087-002a
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि ॥ KK05-06-087-002c
लेखा शशिनिभाः सूर्ये महोर्मिरिव सागरे । KK05-06-087-003a
धर्मस्त्वयि तथा राजन्निति व्यवसिताः प्रजाः ॥ KK05-06-087-003c
सदैव भावितो लोको गुणौघैस्तव पार्थिव । KK05-06-087-004a
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः ॥ KK05-06-087-004c
आर्जवं प्रतिपद्यस्व मा बाल्याद्बहु नीनशः । KK05-06-087-005a
राजन्पुत्रांश्च पौत्रांश्च सुहृदश्चैव सुप्रियान् ॥ KK05-06-087-005c
यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु । KK05-06-087-006a
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति ॥ KK05-06-087-006c
न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात् । KK05-06-087-007a
एतद्दित्ससि कृष्णाय सत्येनात्मानमालभे ॥ KK05-06-087-007c
मायैषा सत्यमेवैतच्छद्मैतद्भूरिदक्षिणा । KK05-06-087-008a
जानामि त्वन्मतं राजन्गूढं बाह्येन कर्मणा ॥ KK05-06-087-008c
पञ्च पञ्चैव लिप्स्यन्ति ग्रामकान्पाण्डवा नृप । KK05-06-087-009a
न च दित्ससि तेभ्यस्तांस्तच्छमं न करिष्यसि ॥ KK05-06-087-009c
अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि । KK05-06-087-010a
अनेन चाप्युपायेन पाण्डवेभ्यो विभेत्स्यसि ॥ KK05-06-087-010c
न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया । KK05-06-087-011a
अन्यो धनञ्जयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते ॥ KK05-06-087-011c
वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम् । KK05-06-087-012a
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनञ्जयम् ॥ KK05-06-087-012c
अन्यत्कुम्भादपाम्पूर्णादन्यत्पादावसेचनात् । KK05-06-087-013a
अन्यत्कुशलसम्प्रश्नान्नैवेक्ष्यति जनार्दनः ॥ KK05-06-087-013c
यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः । KK05-06-087-014a
तदस्मै क्रियतां राजन्मानार्होऽसौ जनार्दनः ॥ KK05-06-087-014c
आशंसमानः कल्याणं कुरूनभ्येति केशवः । KK05-06-087-015a
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु ॥ KK05-06-087-015c
शममिच्छति दाशार्हस्तव दुर्योधनस्य च । KK05-06-087-016a
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु ॥ KK05-06-087-016c
पिताऽसि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे । KK05-06-087-017a
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत् ॥ ॥ KK05-06-087-017c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्ताशीतितमोऽध्यायः ॥
5-87-4 भावितः हृष्टः ॥ 5-87-5 मा नीनशः मा नाशं प्राप्नुहि ॥ 5-87-8 माया इन्द्रजालम् । छद्म वञ्चनम् ॥ 5-87-10 विभेत्स्यसि शल्यवत्पृथक्करिष्यसि ॥ 5-87-12 वेद विद्मि ॥ 5-87-13 नैवेक्ष्यति नैवाङ्गीकरिष्यति ॥ 5-87-15 उपाकुरु अर्पय ॥