अध्यायः 086

श्रीकृष्णागमनश्रवणहृष्टेन धृतराष्ट्रेण विदुरपुरतः समेष्यते तस्मै रथगजादिवितरणप्रतिज्ञा ॥ 1 ॥ धृतराष्ट्र उवाच KK05-06-086-001
उपप्लाव्यादिह क्षत्तरुपायातो जनार्दनः । KK05-06-086-001a
वृकस्थले निवसति स च प्रातरिहैष्यति ॥ KK05-06-086-001c
आहुकानामधिपतिः पुरोगः सर्वसात्वताम् । KK05-06-086-002a
महामना महावीर्यो महासत्वो जनार्दनः ॥ KK05-06-086-002c
स्फीतस्य वृष्णिराष्ट्रस्य भर्ता गोप्ता च माधवः । KK05-06-086-003a
त्रयाणामपि लोकानां भगवान्प्रपितामहः ॥ KK05-06-086-003c
वृष्ण्यन्धकाः सुमनसो यस्य प्रज्ञामुपासते । KK05-06-086-004a
आदित्या वसवो रुद्रा यथा बुद्धिं बृहस्पतेः ॥ KK05-06-086-004c
तस्मै पूजां प्रयोक्ष्यामि दाशार्हाय महात्मने । KK05-06-086-005a
प्रत्यक्षं तव धर्मज्ञ तां मे कथयतः शृणु ॥ KK05-06-086-005c
एकवर्णैः सुक्लृप्ताङ्गैर्बाह्लिजातैर्हयोत्तमैः । KK05-06-086-006a
चतुर्यक्तान्रथांस्तस्मै रौक्मान्दास्यामि षोडश ॥ KK05-06-086-006c
नित्यप्रभिन्नान्मातङ्गानीषादन्तान्प्रहारिणः । KK05-06-086-007a
अष्टानुचरमेकैकमष्टौ दास्यामि कौरव ॥ KK05-06-086-007c
दासीनामप्रजातानां शुभानां रुक्मवर्चसाम् । KK05-06-086-008a
शतमस्मै प्रदास्यामि दासानामपि तावताम् ॥ KK05-06-086-008c
आविकं च सुखस्पर्शं पार्वतीयैरुपाहृतम् । KK05-06-086-009a
तदप्यस्मै प्रदास्यामि सहस्राणि दशाष्ट च ॥ KK05-06-086-009c
अजिनानां सहस्राणि चीनदेशोद्भवानि च । KK05-06-086-010a
तान्यप्यस्मै प्रदास्यामि यावदर्हति केशवः ॥ KK05-06-086-010c
दिवा रात्रौ च भात्येष सुतेजा विमलो मणिः । KK05-06-086-011a
तमप्यस्मै प्रदास्यामि तमर्हति हि केशवः ॥ KK05-06-086-011c
एकेनाभिपतत्यह्ना योजनानि चतुर्दश । KK05-06-086-012a
यानमश्वतरीयुक्तं दास्ये तस्मै तदप्यहम् ॥ KK05-06-086-012c
यावन्ति वाहनान्यस्य यावन्तः पुरुषाश्च ते । KK05-06-086-013a
ततोष्टगुणमप्यस्मै भोज्यं दास्याम्यहं सदा ॥ KK05-06-086-013c
मम पुत्राश्च पौत्राश्च सर्वे दुर्योधनादृते । KK05-06-086-014a
प्रत्युद्यास्यन्ति दाशार्हं रथैर्मृष्टैः स्वलङ्कृताः ॥ KK05-06-086-014c
स्वलङ्कृताश्च कल्याण्यः पादैरेव सहस्रशः । KK05-06-086-015a
वारमुख्या महाभागं प्रत्युद्यास्यन्ति केशवम् ॥ KK05-06-086-015c
नगरादपि याः काश्चिद्गमिष्यन्ति जनार्दनम् । KK05-06-086-016a
द्रष्टुं कन्याश्च कल्याण्यस्ताश्च यास्यन्त्यनावृताः ॥ KK05-06-086-016c
सस्त्रीपुरुषबालं च नगरं मधुसूदनम् । KK05-06-086-017a
उदीक्षतां महात्मानं भानुमन्तमिव प्रजाः ॥ KK05-06-086-017c
महाध्वजपताकाश्च क्रियन्तां सर्वतो दिशः । KK05-06-086-018a
जलावसिक्तो विरजाः पन्थास्तस्येति चान्वशात् ॥ KK05-06-086-018c
दुःशासनस्य च गृहं दुर्योधनगृहाद्वरम् । KK05-06-086-019a
तदद्य क्रियतां क्षिप्रं सुसम्मृष्टमलङ्कृतम् ॥ KK05-06-086-019c
एतद्धि रुचिराकारैः प्रासादैरुपशोभितम् । KK05-06-086-020a
शिवं च रमणीयं च सर्वर्तु सुमहाधनम् ॥ KK05-06-086-020c
सर्वमस्मिन्गृहे रत्नं मम दुर्योधनस्य च । KK05-06-086-021a
यद्यदर्हति वार्ष्णेयस्तत्तद्देयमसंशयम् ॥ ॥ KK05-06-086-021c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वमि षडशीतितमोऽध्यायः ॥

5-86-3 प्रपितामहः पितामहस्य ब्रह्मणोपि पिता ॥ 5-86-7 ईषा लाङ्गलदण्डस्तत्सदृशदन्तान् । अष्टौ अनुचराः यस्य गजस्य ॥ 5-86-20 सर्वर्तु सर्वे ऋतवो युगपदस्मिन्सन्तीति तथा ॥