अध्यायः 085

दूतैः श्रीकृष्णागमनं ज्ञातवतो धृतराष्ट्रस्याज्ञया दुर्योधनेन पथि तदाराधनाय तत्रतत्र सभानिर्मापणम् ॥ 1 ॥ श्रीकृष्णेन तदनवलोकनेनैव गमनम् ॥ 2 ॥ वैशम्पायन उवाच KK05-06-085-001
तदा दूतैः समाज्ञाय आयान्तं मधुसूदनम् । KK05-06-085-001a
धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ॥ KK05-06-085-001c
द्रोणं च सञ्जयं चैव विदुरं च महामतिम् । KK05-06-085-002a
दुर्योधनं सहामात्यं हृष्टरोमाऽब्रवीदिदम् ॥ KK05-06-085-002c
अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन । KK05-06-085-003a
स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहेगृहे ॥ KK05-06-085-003c
सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः । KK05-06-085-004a
पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ॥ KK05-06-085-004c
उपायास्यति दाशार्हः पाण्डवार्थे पराक्रमी । KK05-06-085-005a
स नो मान्यश्च पूज्यश्च सर्वथा मधुसूदनः ॥ KK05-06-085-005c
तस्मिन्हि यात्रा लोकस्य भूतानामीश्वरोऽहि सः । KK05-06-085-006a
तस्मिन्धृतिश्च वीर्यं च प्रज्ञा चौजश्च माधवे ॥ KK05-06-085-006c
स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः । KK05-06-085-007a
पूजितो हि सुखाय स्यादसुखः स्यादपूजितः ॥ KK05-06-085-007c
स चेत्तुष्यति दाशार्ह उपचरैररिन्दमः । KK05-06-085-008a
कृष्णात्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ KK05-06-085-008c
तस्य पूजार्थमद्यैव संविधस्त्व परन्तप । KK05-06-085-009a
सभाः पथि विधीयन्तां सर्वकामसमन्विताः ॥ KK05-06-085-009c
यथा प्रीतिर्महाबाहो त्वयि जायेत तस्य वै । KK05-06-085-010a
तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे ॥ KK05-06-085-010c
वैशम्पायन उवाच KK05-06-085-011
ततो भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम् । KK05-06-085-011a
ऊचुःक परममित्येवं पूजयन्तोऽस्य तद्वचः ॥ KK05-06-085-011c
तेषामनुमतं ज्ञात्वा राजा दुर्योधनस्तदा । KK05-06-085-012a
सभावास्तूनि रम्याणि प्रदेष्टुमुपचक्रमे ॥ KK05-06-085-012c
ततो देशेषु देशेषु रमणीयेषु भागशः । KK05-06-085-013a
सर्वरत्नसमाकीर्णाः सभाश्चक्रुरनेकशः ॥ KK05-06-085-013c
आसनानि विचित्राणि युतानि विविधैर्गुणैः । KK05-06-085-014a
स्त्रियो गन्धानलङ्कानारान्सूक्ष्माणि वसनानि च ॥ KK05-06-085-014c
गुणवन्त्यन्नपानानि भोज्यानि विविधानि च । KK05-06-085-015a
माल्यानि च सुगन्धीनि तानि राजा ददौ ततः ॥ KK05-06-085-015c
विशेषतश्च वासार्थं सभां ग्रामे वृकस्थले । KK05-06-085-016a
विदधे कौरवो राजा बहुरत्नां मनोरमाम् ॥ KK05-06-085-016c
एतद्विधाय वै सर्वं देवार्हमतिमानुषम् । KK05-06-085-017a
आचख्यौ धृतराष्ट्राय राजा दुर्योधनस्तदा ॥ KK05-06-085-017c
ताः सभाः केशवः सर्वा रत्नानि विविधानि च । KK05-06-085-018a
असमीक्ष्यैव दाशार्ह उपायात्कुरुसद्म तत् ॥ ॥ KK05-06-085-018c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चाशीतितमोऽध्यायः ॥

5-85-8 अभिप्रायान् मनोरथान् ॥