अध्यायः 084
श्रीकृष्णप्रयाणे कुरुपराजयसूचकदुर्निमित्तसमुत्पत्तिः ॥ 1 ॥ श्रीकृष्णस्य शुभशकुनसमुदयः ॥ 2 ॥ मार्गे तत्रतत्र विपरगणाद्यभ्यर्चितस्य कृष्णस्य सायाह्ने वृकस्थलाभिगमनम् ॥ 3 ॥ तत्रत्यद्विजव्रजपूजितस्य कृष्णस्य तद्गृहगमनागमनपूर्वकं तान्भोजयित्वा तद्रजन्यां वृकस्थले सुखसंवासः ॥ 4 ॥
जनमेजय उवाच KK05-06-084-001
कथं प्रयातो दाशार्हो महात्मा मधुसूदनः । KK05-06-084-001a
कानि वा व्रजतस्तस्य निमित्तानि महौजसः ॥ KK05-06-084-001c
वैशम्पायन उवाच KK05-06-084-002
तस्य प्रयाणे यान्यसन्निमित्तानि महात्मनः । KK05-06-084-002a
तानि मे शृणु सर्वाणि दैवान्यौत्पातिकानि च ॥ KK05-06-084-002c
अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत । KK05-06-084-003a
अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ॥ KK05-06-084-003c
प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसप्तमाः । KK05-06-084-004a
विपरिता दिशः सर्वा न प्राज्ञायत किञ्चन ॥ KK05-06-084-004c
प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत । KK05-06-084-005a
उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ॥ KK05-06-084-005c
तमःसंवृतमप्यासीत्सर्वं जगदिदं तथा । KK05-06-084-006a
न दिशो नादिशो राजन्प्रज्ञायन्तेस्म रेणुना ॥ KK05-06-084-006c
प्रादुरासीन्महाञ्छब्दः खेशरीरमदृश्यत । KK05-06-084-007a
सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ॥ KK05-06-084-007c
प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः । KK05-06-084-008a
आरुजन्गणशो वृक्षान्परुषोऽशनिनिःस्वनः ॥ KK05-06-084-008c
यत्रयत्र च वार्ष्णेयो वर्तते पथि भारत । KK05-06-084-009a
तत्रतत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ॥ KK05-06-084-009c
ववर्ष पुष्पवर्षं च कमलानि च भूरिशः । KK05-06-084-010a
समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ॥ KK05-06-084-010c
संस्तुतो ब्राह्मणैर्गीर्भिस्तत्रतत्र सहस्रशः । KK05-06-084-011a
अर्च्यते मधुपर्कैश्च वसुभिश्च वसुप्रदः ॥ KK05-06-084-011c
तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः । KK05-06-084-012a
स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ॥ KK05-06-084-012c
स शालिभवनं रम्यं सर्वसस्यसमाचितम् । KK05-06-084-013a
सुख परमधर्मिष्ठमभ्यगाद्भरतर्षभ ॥ KK05-06-084-013c
पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान् । KK05-06-084-014a
पुराणि च व्यतिकामन्राष्ट्राणि विविधानि च ॥ KK05-06-084-014c
नित्यं हृष्टाः सुमनसो भारतैरभिरक्षिताः । KK05-06-084-015a
नोद्विग्नाः परचक्राणां व्यसनानामकोविदाः ॥ KK05-06-084-015c
उपप्लाव्यादथागम्य जनाः पुरनिवासिनः । KK05-06-084-016a
पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ॥ KK05-06-084-016c
ते तु सर्वे समायान्तमग्निमिद्धमिव प्रभुम् । KK05-06-084-017a
अर्चयामासुरर्चार्हं देशातिथिमुपस्थितम् ॥ KK05-06-084-017c
वृकस्थलं समासाद्य केशवः परवीरहा । KK05-06-084-018a
प्रकीर्णरश्मावादित्ये व्योम्नि वै लोहितायति ॥ KK05-06-084-018c
'ततो ह्यनुचरान्सर्वानुवाच मधुसूदनः । KK05-06-084-019a
युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे वयम् ॥ KK05-06-084-019c
तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः । KK05-06-084-020a
क्षणेन चान्नपानानि रसवन्ति समार्जयन् ॥' KK05-06-084-020c
अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि । KK05-06-084-021a
रथमोचनमादिश्य सन्ध्यामुपविवेश ह ॥ KK05-06-084-021c
दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः । KK05-06-084-022a
मुमोच सर्वं योक्त्रादि मुक्त्वा चैतानवासृजत् ॥ KK05-06-084-022c
तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप । KK05-06-084-023a
आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ॥ KK05-06-084-023c
तेऽभिगम्य महात्मानं हृषीकेशमरिन्दमम् । KK05-06-084-024a
पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ॥ KK05-06-084-024c
ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् । KK05-06-084-025a
न्यवेदयन्त वेश्मानि गुणवन्ति महात्मने ॥ KK05-06-084-025c
तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः । KK05-06-084-026a
अभ्येत्य चैषां वेश्मानि पुनरायात्सहैव तैः ॥ KK05-06-084-026c
सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः । KK05-06-084-027a
भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ॥ ॥ KK05-06-084-027c
इति श्रीमन्महाभारते उद्योगपर्वमि भगवद्यानपर्वणि चतुरशीतितमोऽध्यायः ॥
5-84-2 दैवानि शकुनानि । औत्पातिकानि अशकुनानि ॥ 5-84-7 खेशरीरं छायापुरुषशरीरम् ॥ 5-84-13 भवन्ति अस्मिन्निति भवनं क्षेत्रम् ॥ 5-84-16 उपप्लाव्यात् ग्रामात् ॥