अध्यायः 083
युधिष्ठिरेण श्रीकृष्णे पृथां प्रति कुशलप्रश्नपूर्वकस्वाभिवादननिवेदनसमाश्वासनप्रार्थना ॥ 1 ॥ श्रीकृष्णस्य मध्येमार्गं जामदग्न्यादिमहर्षिसमागमः ॥ 2 ॥ महर्षिभिः श्रीकृष्णे धृतराष्ट्रादिभिः सह तत्संवादशुश्रूषया तत्र स्वागमननिवेदनम् ॥ 3 ॥
युधिष्ठिर उवाच KK05-06-083-001
या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला । KK05-06-083-001a
उपवासतपःशीला सदा स्वस्त्ययने रता ॥ KK05-06-083-001c
देवतातिथिपूजासु गुरुशुश्रूषणे रता । KK05-06-083-002a
वत्सला प्रियपुत्रा च माताऽस्माकं जनार्दन ॥ KK05-06-083-002c
सुयोधनभयाद्या नो त्रायतामित्रकर्शन । KK05-06-083-003a
महतो मृत्युसम्बाधाद्दुस्तरान्नौरिवार्णवात् ॥ KK05-06-083-003c
अस्मत्कृते च सततं यया दुःखानि माधव । KK05-06-083-004a
अनुभूतान्यदुःखार्हां तां स्म पृच्छेरनामयम् ॥ KK05-06-083-004c
भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् । KK05-06-083-005a
अभिवाद्य स्वजेथास्त्वं पाण्डवान्परिकीर्तयन् ॥ KK05-06-083-005c
ऊढात्प्रभृति दुःखानि श्वशुराणामरिन्दम । KK05-06-083-006a
निराकाराऽतदर्हा च पश्यन्ती दुःखमश्नुते ॥ KK05-06-083-006c
अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः । KK05-06-083-007a
यदहं मातरं क्लिष्टां सुखं दद्यामरिन्दम ॥ KK05-06-083-007c
प्रव्रजन्तोऽनुधावन्तीं कृपणां पुत्रगृद्धिनीम् । KK05-06-083-008a
रुदतीमपहायैनामगच्छाम वयं वनम् ॥ KK05-06-083-008c
सा नूनं म्रियते दुःखैः सा चेज्जीवति केशव । KK05-06-083-009a
तथा पुत्राधिभिर्गाढमार्तामर्चय सत्कृत ॥ KK05-06-083-009c
अभिवाद्याऽथ सा कृष्ण त्वया मद्वचनाद्विभो । KK05-06-083-010a
धृतराष्ट्रश्च कौरव्यो राजानश्च वयोधिकाः ॥ KK05-06-083-010c
भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् । KK05-06-083-011a
द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ॥ KK05-06-083-011c
'यथावयो यथास्थानं प्रपद्यस्व जनार्दन ।' KK05-06-083-012a
विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् । KK05-06-083-012c
अगाधबुद्धिं मर्मज्ञं स्वजेथा मधुसूदन ॥ KK05-06-083-012e
वैशम्पायन उवाच KK05-06-083-013
इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः । KK05-06-083-013a
अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ॥ KK05-06-083-013c
व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् । KK05-06-083-014a
अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् ॥ KK05-06-083-014c
यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये । KK05-06-083-015a
अर्धराज्यस्य गोविन्द विदितं सर्वराजसु ॥ KK05-06-083-015c
तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमत्य च । KK05-06-083-016a
प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ॥ KK05-06-083-016c
अतश्चेदन्यथाकर्ता धार्तराष्ट्रोऽनुपायवित् । KK05-06-083-017a
अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ॥ KK05-06-083-017c
वैशम्पायन उवाच KK05-06-083-018
एवमुक्ते पाण्डवेन समहृष्यद्वृकोदरः । KK05-06-083-018a
मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ॥ KK05-06-083-018c
वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् । KK05-06-083-019a
धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ॥ KK05-06-083-019c
तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः । KK05-06-083-020a
वाहनानि च सर्वाणि शकृन्मूत्रे प्रसुस्रुवुः ॥ KK05-06-083-020c
इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् । KK05-06-083-021a
अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ॥ KK05-06-083-021c
तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः । KK05-06-083-022a
तूर्णमभ्यगमद्धृष्टः शैब्यसुग्रीववाहनः ॥ KK05-06-083-022c
ते हया वासुदेवस्य दारुकेण प्रचोदिताः । KK05-06-083-023a
पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ॥ KK05-06-083-023c
अथापश्यन्महाबाहुर्ऋषीनध्वनि केशवः । KK05-06-083-024a
ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ॥ KK05-06-083-024c
सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः । KK05-06-083-025a
यथावृत्तानृषीन्सर्वानभ्यभाषत पूजयन् ॥ KK05-06-083-025c
कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः । KK05-06-083-026a
ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने । KK05-06-083-026c
'पितृदेवातिथिभ्यश्च कच्चित्पूजा स्वनुष्ठिता ॥' KK05-06-083-026e
तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः । KK05-06-083-027a
भगवन्तः क्व संसिद्धाः कोऽवधिर्भवतामिह ॥ KK05-06-083-027c
किं वा कार्यं भगवतामहं किं करवाणि वः । KK05-06-083-028a
केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम् ॥ KK05-06-083-028c
'एवमुक्ताः केशवेन मुनयः शंसितव्रताः । KK05-06-083-029a
नारदप्रमुखाः सर्वे प्रत्यनन्दन्त केशवम् ॥ KK05-06-083-029c
अधश्शिराः सर्पमाली महर्षिः स हि देवलः । KK05-06-083-030a
अर्वावसुः सुजानुश्च मैत्रेयः शुनको बली ॥ KK05-06-083-030c
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनस्तथा । KK05-06-083-031a
आपोदधौम्यो धौम्यश्च आणिमाण्डव्यकौशिकौ ॥ KK05-06-083-031c
दामोष्णीषस्त्रिषवणः पर्णादो घटजानुकः । KK05-06-083-032a
मौञ्जायनो वायुभक्षः पाराशर्योऽथ शालिकः ॥ KK05-06-083-032c
शीलवानशनिर्धाता शून्यपालोऽकृतव्रणः । KK05-06-083-033a
श्वेतकेतुः कहोलश्च रामश्चैव महातपाः ॥' KK05-06-083-033c
तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् । KK05-06-083-034a
परिष्वज्य च गोविन्दं सुरासुरपतेः सखा ॥ KK05-06-083-034c
देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः । KK05-06-083-035a
राजर्षयश्च दाशार्ह मानयन्ति तपस्विनः ॥ KK05-06-083-035c
दैवासुरस्य द्रष्टारः पुराणस्य महामते । KK05-06-083-036a
समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः । KK05-06-083-036c
सभासदश्च राजानस्त्वां च सत्यं जनार्दनम् ॥ KK05-06-083-037a
एतन्महत्प्रेक्षणीयं द्रष्टुमिच्छाम केशव ॥ KK05-06-083-037c
धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव । KK05-06-083-038a
त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ॥ KK05-06-083-038c
'सभायां मधुरा वाचः शुश्रूषन्तस्त्वयेरिताः । KK05-06-083-039a
कुरूणां प्रतिवाचश्च श्रोतुमिच्छाम माधव ॥' KK05-06-083-039c
भीष्मद्रोणादयश्चैव विदुरश्च महामतिः । KK05-06-083-040a
त्वं च यादवशार्दूल सभायां वै समेष्यथ ॥ KK05-06-083-040c
तव वाक्यानि दिव्यानि तथा तेषां च माधव । KK05-06-083-041a
श्रोतुमिच्छाम गोविन्द सत्यानि च हितानि च । KK05-06-083-041c
आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् ॥ KK05-06-083-041e
याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् । KK05-06-083-042a
आसीनमासने दिव्ये बलतेजःसमाहितम् ॥ KK05-06-083-042c
वैशम्पायन उवाच KK05-06-083-043
प्रयान्तं देवकीपुत्रं परवीररुजो दश । KK05-06-083-043a
महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥ KK05-06-083-043c
पदातीनां सहस्रं च सादिनां च परन्तप । KK05-06-083-044a
भोज्यं च विपुलं राजन्प्रेष्याश्च शतशो परे ॥ ॥ KK05-06-083-044c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्र्यशीतितमोऽध्यायः ॥
5-83-6 ऊढात् विवाहात् । श्वशुराणां गृहे इति शेषः ॥ 5-83-36 पुराणस्य दैवासुरस्य देवासुरसमुदायस्य ॥