अध्यायः 082

युधिष्ठिरादिभिरनुगम्यमानेन श्रीकृष्णेन रथमधिरुह्य सात्यकिना सह हास्तिनपुरं प्रति प्रस्थानम् ॥ 1 ॥ अर्जुन उवाच KK05-06-082-001
कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः । KK05-06-082-001a
सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि ॥ KK05-06-082-001c
पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् । KK05-06-082-002a
समर्थः प्रशमं चैव कर्तुमर्हसि केशव ॥ KK05-06-082-002c
त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् । KK05-06-082-003a
शान्त्यर्थं भ्रातरं ब्रूया यत्तद्वाच्यममित्रहन् ॥ KK05-06-082-003c
त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् । KK05-06-082-004a
हितं नादास्यते बालो दिष्टस्य वशमेष्यति ॥ KK05-06-082-004c
श्रीभगवानुवाच KK05-06-082-005
धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् । KK05-06-082-005a
एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ॥ KK05-06-082-005c
वैशम्पायन उवाच KK05-06-082-006
ततो व्यपेते तमसि सूर्ये विमल उद्गते । KK05-06-082-006a
मैत्रे मुहूर्ते सम्प्राप्ते मृद्वर्चिषि दिवाकरे ॥ KK05-06-082-006c
कौमुदे मासि रेवत्यां शरदन्ते हिमागमे । KK05-06-082-007a
स्फीतसस्यसुखे काले कल्यः सत्ववतां वरः ॥ KK05-06-082-007c
मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः । KK05-06-082-008a
ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ॥ KK05-06-082-008c
कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः । KK05-06-082-009a
उपतस्थे विवस्वन्तं पावकं च जनार्दनः ॥ KK05-06-082-009c
ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च । KK05-06-082-010a
अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ॥ KK05-06-082-010c
तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः । KK05-06-082-011a
शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ॥ KK05-06-082-011c
रथ आरोप्यतां शङ्खश्चक्रं च गदया सह । KK05-06-082-012a
उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ॥ KK05-06-082-012c
दुर्योधनश्च दुष्टात्मा कर्णश्च सहसौबलः । KK05-06-082-013a
न च शत्रुरवज्ञेयो दुर्बलोऽपि बलीयसा ॥ KK05-06-082-013c
ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः । KK05-06-082-014a
प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ॥ KK05-06-082-014c
तं दीप्तमिव कालाग्निमाकाशगमिवाशुगम् । KK05-06-082-015a
सूर्यचन्द्रप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ॥ KK05-06-082-015c
अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः । KK05-06-082-016a
पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ॥ KK05-06-082-016c
तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् । KK05-06-082-017a
मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ॥ KK05-06-082-017c
सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् । KK05-06-082-018a
यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ॥ KK05-06-082-018c
वाजिभिः शैब्यसुग्रीवमेधपुष्पबलाहकैः । KK05-06-082-019a
स्नातैः सम्पादयामासुः सम्पन्नैः सर्वसम्पदा ॥ KK05-06-082-019c
महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् । KK05-06-082-020a
सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ॥ KK05-06-082-020c
तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् । KK05-06-082-021a
आरुरोह रथं सौरिर्विमानमिव कामगम् ॥ KK05-06-082-021c
ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः । KK05-06-082-022a
पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ॥ KK05-06-082-022c
व्यपोढाभ्रस्ततः कालः क्षणेन समपद्यत । KK05-06-082-023a
शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ॥ KK05-06-082-023c
प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः । KK05-06-082-024a
प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ॥ KK05-06-082-024c
मङ्गल्यार्थप्रदैः शब्दैरन्ववर्तन्त सर्वशः । KK05-06-082-025a
सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ॥ KK05-06-082-025c
मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः । KK05-06-082-026a
प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ॥ KK05-06-082-026c
वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः । KK05-06-082-027a
शुकनारदवाल्मीका मरुत्तः कुशिको भृगुः ॥ KK05-06-082-027c
देवब्रह्मर्षयश्चैव कृष्णं यदुसुखावहम् । KK05-06-082-028a
प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ॥ KK05-06-082-028c
एवमेतैर्महाभागैर्महर्षिगणसाधुभिः । KK05-06-082-029a
पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ॥ KK05-06-082-029c
'देवताभ्यो नमस्कृत्य ब्राह्मणान्स्वस्ति वाच्य च । KK05-06-082-030a
प्रययौ पुण्डरीकाक्षः सात्यकेन सहाच्युतः ॥' KK05-06-082-030c
तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः । KK05-06-082-031a
भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ॥ KK05-06-082-031c
चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः । KK05-06-082-032a
द्रुपदः काशिराजश्च शिखण्डी च महारथः ॥ KK05-06-082-032c
धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह । KK05-06-082-033a
संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ॥ KK05-06-082-033c
ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः । KK05-06-082-034a
राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ॥ KK05-06-082-034c
यो वै न कामान्न भयान्न लोभान्नार्थकारणात् । KK05-06-082-035a
अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ॥ KK05-06-082-035c
धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः । KK05-06-082-036a
ईश्वरः सर्वभूतानां देवदेवः सनातनः ॥ KK05-06-082-036c
तं सर्वगुणसम्पन्नं श्रीवत्सकृतलक्षणम् । KK05-06-082-037a
सम्परिष्वज्य कौन्तेयः सन्देष्टुमुपचक्रमे ॥ ॥ KK05-06-082-037c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्व्यशीतितमोऽध्यायः ॥

5-82-2 प्रतिपाद्यं सम्पाद्यात् । अनामयं कुशलम् ॥ 5-82-5 अभीप्सया प्राप्तुमिच्छया ॥ 5-82-7 कौमुदे कार्तिके ॥ 5-82-11 प्रतिज्ञाय अनुस्मृत्य ॥ 5-82-15 आकाशगः सूर्यः ॥ 5-82-18 सूपस्करं शोभनैरुपकरणैरुपेताम् । नन्दिवर्धनम् आनन्दवर्धनम् ॥ 5-82-19 सम्पादयामासुः सज्जीकृतवन्तः ॥ 5-82-33 संसाधनार्थं कार्यनिष्पत्त्यर्थम् ॥