अध्यायः 081

श्रीकृष्णेन द्यूतसभायां स्वानुभूतदुःसहदुःखमभिनिवेद्य रुदन्तीं द्रौपदीं प्रति सुयोधनादिनिधनप्रतिज्ञानपूर्वकं समाश्वासनम् ॥ 1 ॥ वैशम्पायान उवाच KK05-06-081-001
राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् । KK05-06-081-001a
कृष्णा दाशार्हमासीनमब्रवीच्छोककर्शिता ॥ KK05-06-081-001c
सुता द्रुपदराजस्य स्वसितायतमूर्धजा । KK05-06-081-002a
सम्पूज्य सहदेवं च सात्यकिं च महारथम् ॥ KK05-06-081-002c
भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः । KK05-06-081-003a
अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ॥ KK05-06-081-003c
विदितं ते महाबाहो धर्मज्ञ मधुसूदन । KK05-06-081-004a
यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ॥ KK05-06-081-004c
धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन । KK05-06-081-005a
यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः ॥ KK05-06-081-005c
युधिष्ठिरस्य दाशार्ह तच्चापि विदितं तव । KK05-06-081-006a
यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया ॥ KK05-06-081-006c
पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते । KK05-06-081-007a
अविस्थलं वृकस्थलं माकन्दीं वारणावतम् ॥ KK05-06-081-007c
अवसानं महाबाहो कञ्चिदेकं च पञ्चमम् । KK05-06-081-008a
इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ॥ KK05-06-081-008c
न चापि ह्यकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः । KK05-06-081-009a
युधिष्ठिरस्य दाशार्ह श्रीमतः सन्धिमिच्छतः ॥ KK05-06-081-009c
अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः । KK05-06-081-010a
सन्धिमिच्छेन्न कर्तव्यं तत्र गत्वा कथञ्चन ॥ KK05-06-081-010c
शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह । KK05-06-081-011a
धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् ॥ KK05-06-081-011c
न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन । KK05-06-081-012a
तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ॥ KK05-06-081-012c
साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः । KK05-06-081-013a
योक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ॥ KK05-06-081-013c
तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत । KK05-06-081-014a
त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ॥ KK05-06-081-014c
एतत्समर्थं पार्थानां तव चैव यशस्करम् । KK05-06-081-015a
क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् ॥ KK05-06-081-015c
क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः । KK05-06-081-016a
अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ॥ KK05-06-081-016c
अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् । KK05-06-081-017a
गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ॥ KK05-06-081-017c
यथाऽवध्ये वध्यमाने भवेद्दोषो जनार्दन । KK05-06-081-018a
स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ॥ KK05-06-081-018c
यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु । KK05-06-081-019a
पाण्डवैः सह दाशार्हैः सृञ्जयैश्च ससैनिकैः ॥ KK05-06-081-019c
पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन । KK05-06-081-020a
का तु सीमन्तिनी मादृक् पृथिव्यामस्ति केशव ॥ KK05-06-081-020c
सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता । KK05-06-081-021a
धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ॥ KK05-06-081-021c
आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः । KK05-06-081-022a
महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ॥ KK05-06-081-022c
सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः । KK05-06-081-023a
अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ॥ KK05-06-081-023c
साऽहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता । KK05-06-081-024a
पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ॥ KK05-06-081-024c
जीवस्तु पाण्डुपुत्रेषु पञ्चालेष्वथ वृष्णिषु । KK05-06-081-025a
दासीभूताऽस्मि पापानां सभामध्ये व्यवस्थिता ॥ KK05-06-081-025c
निरमर्षेष्वचेष्टेषु प्रेक्ष्यमाणेषु पाण्डुषु । KK05-06-081-026a
पाहि मामिति गोविन्द मनसा चिन्तितोसि मे ॥ KK05-06-081-026c
यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् । KK05-06-081-027a
वरं वृणीष्व पाञ्चालि वरार्हाऽसि मता मम ॥ KK05-06-081-027c
अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति । KK05-06-081-028a
मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ॥ KK05-06-081-028c
एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन । KK05-06-081-029a
त्रायस्व पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवान् ॥ KK05-06-081-029c
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः । KK05-06-081-030a
श्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥ KK05-06-081-030c
धिक्पार्थस्य धनुष्मत्तां भीमसेनस्य धिग्बलम् । KK05-06-081-031a
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ KK05-06-081-031c
यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि । KK05-06-081-032a
धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ॥ KK05-06-081-032c
वैशम्पायन उवाच KK05-06-081-033
इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् । KK05-06-081-033a
सुनीलमसितापाङ्गी सर्वगन्धादिवासितम् ॥ KK05-06-081-033c
सर्वलक्षणसम्पन्नं महाभुजगवर्चसम् । KK05-06-081-034a
केशपक्षं वरारोहा गृह्य वामेन पाणिना ॥ KK05-06-081-034c
पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी । KK05-06-081-035a
अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ॥ KK05-06-081-035c
अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः । KK05-06-081-036a
स्मर्तव्यः सर्वकार्येषु परेषां सन्धिमिच्छताम् ॥ KK05-06-081-036c
यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ । KK05-06-081-037a
पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ॥ KK05-06-081-037c
पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन । KK05-06-081-038a
अभिमन्युं पुरस्कृत्य योत्स्यन्ते कुरुभिः सह ॥ KK05-06-081-038c
दुःशासनभुजं श्यामं सञ्छिन्नं पांसुकुण्ठितम् । KK05-06-081-039a
यद्यहं तु न पश्यामि का शान्तिर्हृदयस्य मे ॥ KK05-06-081-039c
त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे । KK05-06-081-040a
विधाय हृदये मन्युं प्रदीप्तमिव पावकम् ॥ KK05-06-081-040c
विदीर्यते मे हृदयं भीमवाक्शल्यपीडितम् । KK05-06-081-041a
योऽयमद्य महाबाहुर्धर्ममेवानुपश्यति ॥ KK05-06-081-041c
इत्युक्त्वा बाष्परुद्धेन कण्ठेनायतलोचना । KK05-06-081-042a
रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ॥ KK05-06-081-042c
स्तनौ पीनायतश्रोणी सहितावभिवर्षती । KK05-06-081-043a
द्रवीभूतमिवात्युष्णं मुञ्चन्ती वारि नेत्रजम् ॥ KK05-06-081-043c
तामुवाच महाबाहुः केशवः परिसान्त्वयन् । KK05-06-081-044a
अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ॥ KK05-06-081-044c
एवं ता भीरु रोस्त्यन्ति निहतज्ञातिबान्धवाः । KK05-06-081-045a
हतमित्रा हतबला येषां क्रुद्धाऽसि भामिनी ॥ KK05-06-081-045c
अहं च तत्करिष्यामि भीमार्जुनयमैः सह । KK05-06-081-046a
युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ॥ KK05-06-081-046c
धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः । KK05-06-081-047a
शेष्यन्ते निहता भूमौ श्वसृगालादनीकृताः ॥ KK05-06-081-047c
चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् । KK05-06-081-048a
द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ॥ KK05-06-081-048c
'शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् । KK05-06-081-049a
'सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् । KK05-06-081-049c
हतामित्राञ्श्रिया युक्तानचिदाद्द्रक्ष्यसे पतीन् ॥ ॥ KK05-06-081-049e

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकाशीतितमोऽध्यायः ॥

5-81-11 प्रतिसमासितुं प्रतिपक्षतया स्थातुम् ॥ 5-81-15 समर्थं युक्तम् ॥ 5-81-17 प्रसृतं प्रदत्तं च तदग्रं च तस्य भोक्ता प्रसृताग्रभुक् ॥ 5-81-33 मृदुसंहारं वेणीरूपेण समाहृतमपि मृदुम् । वृजिनाग्रं कुटिलाग्रं केशवत्सूक्ष्माग्रं वा । वृजिनः कुटिलेऽन्यवदिति विश्वः । सुदर्शनं रमणीयम् ॥ 5-81-45 रोत्स्यन्ति रोदिष्यन्ति ॥