अध्यायः 080

सहदेवेन श्रीकृष्णं प्रति कुरूणां शमाभिसन्धावपि युद्धपक्षस्यैव स्थापनकथनम् ॥ 1 ॥ सात्यकिना सहदेवपक्षानुमोदने योधानां हर्षात्सिंहनादः ॥ 2 ॥ सहदेव उवाच KK05-06-080-001
यदेतत्कथितं राज्ञा धर्म एष सनातनः । KK05-06-080-001a
यथा च युद्धमेव स्यात्तथा कार्यमरिन्दम ॥ KK05-06-080-001c
यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह । KK05-06-080-002a
तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ॥ KK05-06-080-002c
कथं नु दृष्ट्वा पाञ्चालीं तथा कृष्ण सभागताम् । KK05-06-080-003a
अवधेन प्रशाम्येत मम मन्युः सुयोधने ॥ KK05-06-080-003c
यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः । KK05-06-080-004a
धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ॥ KK05-06-080-004c
ब्रूहि मद्वचनं कृष्ण सुयोधनमपण्डितम् । KK05-06-080-005a
कृच्छ्रे वने वा वस्तव्यं पुरे वा नागसाह्वये ॥ KK05-06-080-005c
सात्यकिरुवाच KK05-06-080-006
सत्यमाह महाबाहो सहदेवो महामतिः । KK05-06-080-006a
दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ॥ KK05-06-080-006c
न जानासि यथा दृष्ट्वा चीराजिनधरान्वने । KK05-06-080-007a
तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् ॥ KK05-06-080-007c
तस्मान्माद्रीसुतः शूरो यदाह रणकर्कशः । KK05-06-080-008a
वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ॥ KK05-06-080-008c
वैशम्पायन उवाच KK05-06-080-009
एवं वदति वाक्यं तु युयुधाने महामतौ । KK05-06-080-009a
सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ॥ KK05-06-080-009c
सर्वे हि सर्वशो वीरास्तद्वचः प्रत्यपूजयन् । KK05-06-080-010a
साधुसाध्विति शैनेयं हर्षयन्तो युयुत्सवः ॥ ॥ KK05-06-080-010c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अशीतितमोऽध्यायः ॥

5-80-4 यदि यद्यपि भीमादयो धार्मिकाः स्युः तथापि अहं धर्ममुत्सृज्य तेन सह योद्धुमिच्छामि ॥