अध्यायः 078

श्रीकृष्णेन अर्जुनं प्रति दण्डार्हे सुयोधने शमकरणस्य दुश्शकत्वाभिधानपूर्वकं युधिष्ठिरगौरवेण स्वस्य तदर्थं प्रयतनकथनम् ॥ 1 ॥ श्रीभगवानुवाच KK05-06-078-001
एवमेतन्महाबाहो यथा वदसि पाण्डव । KK05-06-078-001a
पाण्डवानां कुरूणां च प्रतिपत्स्ये निरामयम् । KK05-06-078-001c
सर्वं त्विदं ममायत्तं बीभत्सो कर्मणोर्द्वयोः ॥ KK05-06-078-001e
क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम् । KK05-06-078-002a
ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत्फलम् ॥ KK05-06-078-002c
तत्र वै पौरुषं ब्रूयुरासेकं यत्र कारितम् । KK05-06-078-003a
तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ॥ KK05-06-078-003c
तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः । KK05-06-078-004a
दैवे च मानुषे चैव संयुक्तं लोककारणम् ॥ KK05-06-078-004c
अहं हि तत्करिष्यामि परं पुरुषकारतः । KK05-06-078-005a
देवं तु न मया शक्यं कर्म कर्तुं कथञ्चन ॥ KK05-06-078-005c
स हि धर्मं च लोकं च त्यक्त्वा चरति दुर्मतिः । KK05-06-078-006a
न हि सन्तप्यते तेन तथारूपेण कर्मणा ॥ KK05-06-078-006c
तथापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः । KK05-06-078-007a
शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ॥ KK05-06-078-007c
स हि त्यागेन राज्यस्य न शमं समुपैष्यति । KK05-06-078-008a
अन्तरेण वधं पार्थ सानुबन्धः सुयोधनः ॥ KK05-06-078-008c
न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् । KK05-06-078-009a
याच्यमानश्च राज्यं स न प्रदास्यति दुर्मतिः ॥ KK05-06-078-009c
न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् । KK05-06-078-010a
उक्तं प्रयोजनं यत्तु धर्मराजेन भारत ॥ KK05-06-078-010c
तथा पापस्तु तत्सर्वं न करिष्यति कौरवः । KK05-06-078-011a
तस्मिंश्चाक्रियमाणेऽसौ लोके वध्यो भविष्यति ॥ KK05-06-078-011c
मम चापि स वध्यो हि जगतश्चापि भारत । KK05-06-078-012a
तेन कौमारके यूयं सर्वे विप्रकृताः सदा ॥ KK05-06-078-012c
विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना । KK05-06-078-013a
न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ॥ KK05-06-078-013c
असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः । KK05-06-078-014a
न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् ॥ KK05-06-078-014c
जानासि हि महाबाहो त्वमप्यस्य परं मतम् । KK05-06-078-015a
प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ॥ KK05-06-078-015c
सञ्जानंस्तस्य चात्मानं मम चैव परं मतम् । KK05-06-078-016a
अजानन्निव मां कस्मादर्जुनाद्याभिशङ्कसे ॥ KK05-06-078-016c
यच्चापि परमं दिव्यं तच्चाप्यनुगतं त्वया । KK05-06-078-017a
विधानं विहितं पार्थ कथं शर्म भवेत्परैः ॥ KK05-06-078-017c
यत्तु वाचा मया शक्यं कर्मणा वाऽपि पाण्डव । KK05-06-078-018a
करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ॥ KK05-06-078-018c
कथं गोहरणे ह्युक्तो नैतच्छर्म तथा हितम् । KK05-06-078-019a
याच्यमानो हि भीष्मेण संवत्सरगतेऽध्वनि ॥ KK05-06-078-019c
तदैव ते पराभूता यदा सङ्कल्पितास्त्वया । KK05-06-078-020a
लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ॥ KK05-06-078-020c
सर्वथा तु मया कार्यं धर्मराजस्य शासनम् । KK05-06-078-021a
विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ॥ ॥ KK05-06-078-021c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टसप्ततितमोऽध्यायः ॥

5-78-1 द्वयोः कर्मणोः शमयुद्धयोर्मध्ये इदम् अनामयम् ॥ 5-78-4 संयुक्तम् आहितम् । लोककारणं लोकहितसाधनम् ॥ 5-78-17 दिव्यं विधानं भूभारापहारार्थं स्वर्गाद्देवानामवतरणम् ॥ 5-78-18 आशंसे सम्भावयामि ॥ 5-78-19 भीष्मेण एतच्छर्म याच्यमानोपि सः हितं कथं नोक्तः अपितु उक्तः । संवत्सरगते गतसंवत्सरे ॥ 5-78-20 सङ्कल्पिताः वध्यत्वेन निश्चिताः ॥ 5-78-21 विभाव्यं विचारणीयम् ॥