अध्यायः 076
श्रीकृष्णेन भीमं प्रति स्वस्य तन्महिमाभिज्ञत्वमभिधाय तत्प्रशंसनपूर्वकं स्वोक्तेः तेजस्सन्दीपनार्थत्वकथनम् ॥ 1 ॥
श्रीभगवानुवाच KK05-06-076-001
भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् । KK05-06-076-001a
न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ॥ KK05-06-076-001c
वेदाहं तव माहात्म्यसुत ते वेद यद्बलम् । KK05-06-076-002a
उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ॥ KK05-06-076-002c
यथा चात्मनि कल्याणं सम्भावयसि पाण्डव । KK05-06-076-003a
सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् ॥ KK05-06-076-003c
यादृशे च कुले जन्म सर्वराजाभिपूजिते । KK05-06-076-004a
बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ॥ KK05-06-076-004c
जिज्ञासन्तो हि धर्मस्य सन्दिग्धस्य वृकोदर । KK05-06-076-005a
पर्यायं नाध्यवस्यन्ति देवमानुषयोर्जनाः ॥ KK05-06-076-005c
स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु । KK05-06-076-006a
विनाशेऽपि स एवास्य सन्दिग्धं कर्म पौरुषम् ॥ KK05-06-076-006c
अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः । KK05-06-076-007a
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ॥ KK05-06-076-007c
सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् । KK05-06-076-008a
कृतं मानुष्यकं कर्म दैवेनापि विरुद्ध्यते ॥ KK05-06-076-008c
दैवमप्यकृतं कर्म पौरुषेण विहन्यते । KK05-06-076-009a
शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ॥ KK05-06-076-009c
यदन्यद्दिष्टभावस्य पुरुषस्य स्वयं कृतम् । KK05-06-076-010a
तस्मादनुपरोधश्च विद्यते तत्र लक्षणम् ॥ KK05-06-076-010c
लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः । KK05-06-076-011a
एवम्बुद्धिः प्रवर्तेत फलं स्यादुभयान्वये ॥ KK05-06-076-011c
य एवं कृतबुद्धिः स कर्मस्वेव प्रवर्तते । KK05-06-076-012a
नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ॥ KK05-06-076-012c
तत्रेयमनुमात्रा मे भीमसेन विवक्षिता । KK05-06-076-013a
नैकान्तसिद्धिर्वक्तव्या शत्रुभिः सह संयुगे ॥ KK05-06-076-013c
नातिप्रहीणरश्मिः स्यात्तथा भावविपर्यये । KK05-06-076-014a
विषादमर्च्छेद् ग्लानिं वाप्येतमर्थं ब्रवीमि ते ॥ KK05-06-076-014c
श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव । KK05-06-076-015a
यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ॥ KK05-06-076-015c
शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम । KK05-06-076-016a
भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् ॥ KK05-06-076-016c
ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः । KK05-06-076-017a
कुरवो युद्धमेवात्र घोरं कर्म भविष्यति ॥ KK05-06-076-017c
अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः । KK05-06-076-018a
धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः ॥ KK05-06-076-018c
अहं हि यन्ता बीभत्सोर्भविता संयुगे सति । KK05-06-076-019a
धनञ्जयस्यैष कामो न हि युद्धं न कामये ॥ KK05-06-076-019c
तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव । KK05-06-076-020a
गदतः क्लीबया वाचा तेजस्ते समदीदिपम् ॥ ॥ KK05-06-076-020c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षट्सप्ततितमोऽध्यायः ॥
5-76-1 भावमिति । विवक्षया त्वया स्वरूपं वक्तव्यमितीच्छया । प्रागेव तस्य ज्ञातत्वात् ॥ 1 ॥ 5-76-5 देवमानुषयोर्धर्मस्य पर्यायमिति सम्बन्धः ॥ 5-76-7 परिदृष्टानि कर्तव्यत्वेन निश्चितानि कार्याणि ॥ 5-76-10 दिष्टः फलभोगाय आज्ञप्तः भावः सत्ता यस्य तत् दिष्टभावं प्रारब्धकर्म । पञ्चम्यर्थे षष्ठी । प्रारब्धादन्यदित्यर्थः । पुरुषस्य पुरुषेण सञ्चितं यत्स्वयङ्कृतं कर्म तस्मादनुपरोधो जन्मान्तरे निरोधो नास्ति । तत्र ज्ञानेन प्रायश्चित्तेन वा सञ्चितपापानां नाशे लक्षणं ज्ञापकं श्रुतिस्मृतिजातं विद्यते ॥ 5-76-11 कर्मणोऽन्यत्र पौरुषं विना अन्यत एकस्माद्दैवादेव वृत्तिर्जीविका नास्ति । एवम्बुद्धिः ईदृक्ज्ञानवान्सन् प्रवर्तेत पुरुषकारं कुर्यात् । तथा सति उभयान्वये दैवपौरुषयोः सम्बन्धे फलं भवति नान्यतरत इत्यर्थः ॥ 5-76-13 अनुमात्राऽवधारणं निश्चय इत्यर्थः ॥ 5-76-14 प्रहीणरश्मिः निष्प्रभः । भावः प्रारब्धं कर्म । अर्च्छेत् प्राप्नुयात् ॥ 5-76-17 ते कुरव इति सम्बन्धः ॥