अध्यायः 075
भीमेन कृष्णं प्रति स्वसामर्थ्यकथनपूर्वकं स्वस्य शमकामनायाः कृपामूलकत्वकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK05-06-075-001
तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः । KK05-06-075-001a
सदश्ववत्समाधावद्बभाषे तदनन्तरम् ॥ KK05-06-075-001c
भीमसेन उवाच KK05-06-075-002
अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत । KK05-06-075-002a
प्रणीतभावमत्यर्थं युधि सत्यपराक्रमम् ॥ KK05-06-075-002c
वेत्सि दाशार्ह सत्यं मे दीर्घकालं सहोषितः । KK05-06-075-003a
उत वा मां न जानासि प्लवन्हृद इवाप्लवे ॥ KK05-06-075-003c
तस्मादनभिरूपाभिर्वाग्भिर्मां त्वं समर्च्छसि । KK05-06-075-004a
कथं हि भीमसेनं मां जानन्कश्चन माधव ॥ KK05-06-075-004c
ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि । KK05-06-075-005a
तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन ॥ KK05-06-075-005c
आत्मनः पौरुषं चैव बलं च न समं परैः । KK05-06-075-006a
सर्वथाऽनार्यकर्मैतत्प्रशंसा स्वयमात्मनः ॥ KK05-06-075-006c
अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः । KK05-06-075-007a
पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः ॥ KK05-06-075-007c
अचले चाप्रतिष्ठे चाप्यनन्ते सर्वमातरौ । KK05-06-075-008a
यदीमे सहसा क्रुद्धे समेयातां शिले इव ॥ KK05-06-075-008c
अहमेते निगृह्णीयां बाहुभ्यां सचसाचरे । KK05-06-075-009a
पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव ॥ KK05-06-075-009c
य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् । KK05-06-075-010a
हिमवांश्च समुद्रश्च वज्री वा बलभित्स्वयम् ॥ KK05-06-075-010c
मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः । KK05-06-075-011a
युद्धार्हान्क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः ॥ KK05-06-075-011c
अधः पादतलेनैतानधिष्ठास्यामि भूतले । KK05-06-075-012a
न हि त्वं नाभिजानासि मम विक्रममच्युत ॥ KK05-06-075-012c
यथा मया विनिर्जित्य राजानो वशगाः कृताः । KK05-06-075-013a
अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् ॥ KK05-06-075-013c
विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन । KK05-06-075-014a
परुषैराक्षिपसि किं व्रणं सूच्येव चानघ ॥ KK05-06-075-014c
यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः । KK05-06-075-015a
द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि ॥ KK05-06-075-015c
मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा । KK05-06-075-016a
तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् ॥ KK05-06-075-016c
द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् । KK05-06-075-017a
न मे सीदन्ति गात्राणि न ममोद्वेपते मनः ॥ KK05-06-075-017c
सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम । KK05-06-075-018a
किं तु सौहृदमेवैतत्कृपया मधुसूदन । KK05-06-075-018c
सर्वांस्तितिक्षे सङ्क्लेशान्मा स्म नो भरता नशन् ॥ ॥ KK05-06-075-018e
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चसप्ततितमोऽध्यायः ॥
5-75-1 समाधावत् तीव्रवेगं यथा स्यात्तथा ॥ 5-75-3 ह्रदे प्लवन् पारमिवेति शेषः ॥ 5-75-14 सम्बाधे सङ्कीर्णे ॥ 5-75-15 वैशसे विशसनवति ॥