अध्यायः 073

भीमसेनेन श्रीकृष्णं प्रति दुर्योधनस्य दुराराध्यत्वकथनपूर्वकं यथाकथञ्चित् शमस्यावश्यकर्तव्यत्वककथनम् ॥ 1 ॥ भीम उवाच KK05-06-073-001
यथायथैव शान्तिः स्यात्कुरूणां मधुसूदन । KK05-06-073-001a
तथातथैव भाषेथा मा स्म युद्धेन भीषयेः ॥ KK05-06-073-001c
अमर्षी जातसंरम्भः श्रेयोद्वेषी महामनाः । KK05-06-073-002a
नोग्रं दुर्योधनो वाच्यः साम्नैवेनं समाचरेः ॥ KK05-06-073-002c
प्रकृत्या पापसत्वश्च तुल्यचेतास्तु दस्युभिः । KK05-06-073-003a
ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ॥ KK05-06-073-003c
अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः । KK05-06-073-004a
दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ॥ KK05-06-073-004c
म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् । KK05-06-073-005a
तादृशेन शमः कृष्ण मन्ये परमदुष्करः ॥ KK05-06-073-005c
सुहृदामप्यवाचीनस्त्यक्तधर्मा प्रियानृतः । KK05-06-073-006a
प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च ॥ KK05-06-073-006c
स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः । KK05-06-073-007a
स्वभावात्पापमभ्येति तृणैश्छन्न इवोरगः ॥ KK05-06-073-007c
दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव । KK05-06-073-008a
यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ॥ KK05-06-073-008c
पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् । KK05-06-073-009a
इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ॥ KK05-06-073-009c
दुर्योधनस्य क्रोधेन भरता मधुसूदन । KK05-06-073-010a
धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ॥ KK05-06-073-010c
अष्टादशेमे राजानः प्रख्याता मधुसूदन । KK05-06-073-011a
ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ॥ KK05-06-073-011c
असुराणां समृद्धानां ज्वलतामिव तेजसा । KK05-06-073-012a
पर्यायकाले धर्मस्य प्राप्ते कलिरजायत ॥ KK05-06-073-012c
हैहयानामुदावर्तो नीपानां जनमेजयः । KK05-06-073-013a
बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ॥ KK05-06-073-013c
अजबिन्दुः सुवीराणां सुराष्ट्राणां रुषर्द्धिकः । KK05-06-073-014a
अर्कजश्च बलीहानां चीनानां धौतमूलकः ॥ KK05-06-073-014c
हयग्रीवो विदेहानां वरयुश्च महौजसाम् । KK05-06-073-015a
बाहुः सुन्दरवंशानां दीप्ताक्षाणां पुरूरवाः ॥ KK05-06-073-015c
सहजश्चेदिमत्स्यानां प्रवीराणां वृषध्वजः । KK05-06-073-016a
धारणश्चन्द्रवत्सानां मुकुटानां विगाहनः ॥ KK05-06-073-016c
शमश्च नन्दिवेगानामित्येते कुलपांसनाः । KK05-06-073-017a
युगान्ते कृष्ण सम्भूताः कुलेषु पुरुषाधमाः ॥ KK05-06-073-017c
अप्ययं नः कुरूणां स्याद्युगान्ते कालसम्भृतः । KK05-06-073-018a
दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ॥ KK05-06-073-018c
तस्मान्मृदु शनैर्ब्रूया धर्मार्थसहितं हितम् । KK05-06-073-019a
कामानुबद्धं बहुलं नोग्रमुग्रपराक्रमम् ॥ KK05-06-073-019c
अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः । KK05-06-073-020a
नीचैर्भूत्वाऽनुयास्यामो मा स्म नो भरता नशन् ॥ KK05-06-073-020c
अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह । KK05-06-073-021a
वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ॥ KK05-06-073-021c
वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः । KK05-06-073-022a
भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ॥ KK05-06-073-022c
अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति । KK05-06-073-023a
अर्जुनो नैव युद्धार्थी भूयसी हि दयाऽर्जुने ॥ ॥ KK05-06-073-023c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिसप्ततितमोऽध्यायः ॥

5-73-4 निष्ठूरी निष्ठुरवाक् । क्षेप्ता निन्दकः । अनेयः शिक्षयितुमयोग्यः ॥ 5-73-6 अवाचीनो विपरीतः ॥ 5-73-12 पर्यायकाले धर्मान्तकाले ॥ 5-73-19 कामानुबद्धं बहुलं बाहुल्येन तस्य चित्तानुसारि ॥