अध्यायः 071

युधिष्ठिरेण श्रीकृष्णम् प्रति सन्ध्यर्थं हास्तिनपुरगमनप्रार्थनासूचकवचनोपन्यासः ॥ 1 ॥ श्रीकृष्णेन तत्र स्वस्य गमनकथनम् ॥ 2 ॥ 'जनमेजय उवच KK05-06-071-001
प्रयाते सञ्जये साधौ कौरवान्प्रति वै तदा । KK05-06-071-001a
किं चक्रुः पाण्डवास्तत्र मम पूर्वपितामहाः ॥ KK05-06-071-001c
एतत्सर्वं द्विजश्रेष्ठ विस्तरं मम सत्तम । KK05-06-071-002a
कथयस्व प्रयत्नेन श्रोतुमिच्छामि पण्डित ॥ KK05-06-071-002c
वैशम्पायन उवाच KK05-06-071-003
सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः । KK05-06-071-003a
अर्जुनं भीमसेनं च माद्रीपुत्रौ च भारत ॥ KK05-06-071-003c
विराटं द्रुपदं चैव केकयानां महारथान् । KK05-06-071-004a
अब्रवीदुपसङ्गम्य शङ्खचक्रगदाधरम् । KK05-06-071-004c
अभियाचामहे गत्वा प्रयातुं कुरुसंसदम् ॥ KK05-06-071-004e
यथा भीष्मेण द्रोणेन बाह्लीकेन च धीमता । KK05-06-071-005a
अन्यैश्च कुरुभिः सार्धं न युध्येमहि संयुगे ॥ KK05-06-071-005c
एष नः प्रथमः कल्प एतन्निश्रेय उत्तमम् । KK05-06-071-006a
एवमुक्ताः सुमनसस्तेऽभिजग्मुर्जनार्दनम् ॥ KK05-06-071-006c
पाण्डवैः सह राजानो मरुत्वन्त इवामराः । KK05-06-071-007a
तदा च दुःसहाः सर्वे सदस्यास्ते नरर्षभाः ॥ KK05-06-071-007c
जनार्दनं समासाद्य कुन्तीपुत्रो युधिष्ठिरः । KK05-06-071-008a
अब्रवीत्परवीरध्नं दाशार्हं पाण्डुनन्दनः ॥' KK05-06-071-008c
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल । KK05-06-071-009a
न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ॥ KK05-06-071-009c
त्वां हि माधवमाश्रित्य निर्भया मोघदर्पितम् । KK05-06-071-010a
धार्तराष्ट्रं सहामात्यं स्वयं समनुयुङ्क्ष्महे ॥ KK05-06-071-010c
यथा हि सर्वास्वापत्सु पासि वृष्णीनरिन्दम । KK05-06-071-011a
तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ॥ KK05-06-071-011c
श्रीभगवानुवाच KK05-06-071-012
अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् । KK05-06-071-012a
करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ॥ KK05-06-071-012c
युधिष्ठिर उवाच KK05-06-071-013
श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् । KK05-06-071-013a
एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ॥ KK05-06-071-013c
'मृदुपूर्वं साममिश्रं सममुग्रं च माधव । KK05-06-071-014a
न कृतं न्यायमास्थाय गर्हिताश्च ततो वयम् ॥' KK05-06-071-014c
तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः । KK05-06-071-015a
यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ॥ KK05-06-071-015c
अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति । KK05-06-071-016a
लुब्धः पापेन मनसा चरन्नसममात्मनः ॥ KK05-06-071-016c
यत्तद्द्वादशवर्षाणि वनेषु ह्युषिता वयम् । KK05-06-071-017a
छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ॥ KK05-06-071-017c
स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो । KK05-06-071-018a
नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ॥ KK05-06-071-018c
गृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति । KK05-06-071-019a
वश्यत्वात्पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ॥ KK05-06-071-019c
सुयोधनमते तिष्ठन्राजाऽस्मासु जनार्दन । KK05-06-071-020a
मिथ्याचरति लुब्धः संश्चरन्हि प्रियमात्मनः ॥ KK05-06-071-020c
इतो दुःखतरं किं नु यदहं मातरं ततः । KK05-06-071-021a
संविधातुं न शक्नोमि मित्राणां वा जनार्दन ॥ KK05-06-071-021c
काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन । KK05-06-071-022a
भवता चैव नाथेन पञ्च ग्रामा वृता मया ॥ KK05-06-071-022c
अविस्थलं वृकस्थलं माकन्दी वारणावतम् । KK05-06-071-023a
अवसानं च गोविन्द कञ्चिदेवात्र पञ्चमम् ॥ KK05-06-071-023c
पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा । KK05-06-071-024a
वसेम सहिता येषु मा च नो भरता नशन् ॥ KK05-06-071-024c
न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते । KK05-06-071-025a
स्वाम्यमात्मनि मत्वाऽसावतो दुःखतरं नु किम् ॥ KK05-06-071-025c
कुले जातस्य वृद्धस्य परवित्तेषु गृद्ध्यतः । KK05-06-071-02a6
लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ॥ KK05-06-071-026c
ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् । KK05-06-071-027a
श्रीर्हता पुरुषं हन्ति पुरुषस्याधनं वधः ॥ KK05-06-071-027c
अधनाद्धि निवर्तन्ते ज्ञातयः सुहृदो द्विजाः । KK05-06-071-028a
अपुष्पादफलाद्वृक्षाद्यथा कृष्ण पतत्रिणः ॥ KK05-06-071-028c
एतच्च मरणं तात उन्मत्तपतितादिव । KK05-06-071-029a
ज्ञातयो विनिवर्तन्ते प्रेतसत्वादिवासवः ॥ KK05-06-071-029c
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् । KK05-06-071-030a
यत्र नैवाऽद्य न प्रातर्भोजनं प्रतिदृश्यते ॥ KK05-06-071-030c
धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् । KK05-06-071-031a
जीवन्ति धनिनो लोके मृता ये त्वधना नराः ॥ KK05-06-071-031c
ये धनादपकर्षन्ति नरं स्वबलमास्थिताः । KK05-06-071-032a
ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ॥ KK05-06-071-032c
एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः । KK05-06-071-033a
ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ॥ KK05-06-071-033c
उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् । KK05-06-071-034a
दास्यमेके च गच्छन्ति परेषामर्थहेतुना ॥ KK05-06-071-034c
आपदेवास्य मरणात्पुरुषस्य गरीयसी । KK05-06-071-035a
श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ॥ KK05-06-071-035c
यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्मवत् । KK05-06-071-036a
समन्तात्सर्वभूतानां न तदत्येति कश्चन ॥ KK05-06-071-036c
न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः । KK05-06-071-037a
यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ॥ KK05-06-071-037c
स तदाऽऽत्मापराधेन सम्प्राप्तो व्यसनं महत् । KK05-06-071-038a
सेन्द्रान्गर्हयते देवान्नात्मानं च कथञ्चन ॥ KK05-06-071-038c
न चास्य सर्वशास्त्राणि प्रभवन्ति निबर्हणे । KK05-06-071-03a9
सोऽभिक्रुध्याति भृत्यानां सुहृदश्चाभ्यसूयति ॥ KK05-06-071-039c
तत्तदा मन्युरेवैति स भूयः सम्प्रमुह्यति । KK05-06-071-040a
स मोहवशमापन्नः क्रूरं कर्म निषेवते ॥ KK05-06-071-040c
पापकर्मतया चैव सङ्करं तेन पुष्यति । KK05-06-071-041a
सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ॥ KK05-06-071-041c
न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति । KK05-06-071-042a
तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुस्तरिष्यति ॥ KK05-06-071-042c
प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते । KK05-06-071-043a
शास्त्रनिष्ठः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ॥ KK05-06-071-043c
ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते । KK05-06-071-044a
श्रीमान्स यावद्भवति तावद्भवति पूरुषः ॥ KK05-06-071-044c
धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा । KK05-06-071-04a5
नाधर्मे कुरुते बुद्धिं न च पापे प्रवर्तते ॥ KK05-06-071-045c
अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् । KK05-06-071-04a6
नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ॥ KK05-06-071-046c
ह्रीमानवति देवांश्च पितॄनात्मानमेव च । KK05-06-071-047a
तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ॥ KK05-06-071-047c
तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन । KK05-06-071-048a
यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ॥ KK05-06-071-048c
ते वयं न श्रियं हातुमलं न्यायेन केनचित् । KK05-06-071-04a9
अत्र नो यतमानानां वधश्चेदपि साधु तत् ॥ KK05-06-071-049c
तत्र नः प्रथमः कल्पो यद्वयं ते च माधव । KK05-06-071-050a
प्रशान्ताः समभूताश्च श्रियं तामश्नुवीमहि ॥ KK05-06-071-050c
तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया । KK05-06-071-051a
यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यवाप्नुमः ॥ KK05-06-071-051c
ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः । KK05-06-071-052a
तेषामप्यवधः कार्यः किम्पुनर्ये स्युरीदृशाः ॥ KK05-06-071-052c
ज्ञातयश्चैव भूयिष्ठाः सहाया गुरवश्च नः । KK05-06-071-053a
तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ॥ KK05-06-071-053c
पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबन्धवः । KK05-06-071-054a
स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ॥ KK05-06-071-054c
शूद्रः करोति शुश्रूषां वैश्या वै पण्यजीविकाः । KK05-06-071-055a
वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ॥ KK05-06-071-055c
क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति । KK05-06-071-056a
श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ॥ KK05-06-071-056c
युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे । KK05-06-071-057a
बलं तु नीतिमाधाय युध्ये जयपराजयौ ॥ KK05-06-071-057c
नात्मच्छन्देन भूतानां जीवितं मरणं तथा । KK05-06-071-058a
नाप्यकाले सुखं प्राप्यं दुःखं वाऽपि यदूत्तम ॥ KK05-06-071-058c
एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत । KK05-06-071-059a
शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ॥ KK05-06-071-059c
जयो नैवोभयोर्दृष्टो नोभयोश्च पराजयः । KK05-06-071-060a
तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ॥ KK05-06-071-060c
सर्वथा वृजिनं युद्धं को ध्नन्न प्रतिहन्यते । KK05-06-071-061a
हतस्य च हृषीकेश समौ जयपराजयौ ॥ KK05-06-071-061c
पराजयश्च मरणान्मन्ये नैव विशिष्यते । KK05-06-071-062a
यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ॥ KK05-06-071-062c
अन्ततो दयितं ध्नन्ति केचिदप्यपरे जनाः । KK05-06-071-063a
तस्याङ्गबलहीनस्य पुत्रान्भ्रातॄनपश्यतः ॥ KK05-06-071-063c
निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते । KK05-06-071-064a
ये ह्येव धीरा ह्रीमन्त आर्याः करुणवेदिनः ॥ KK05-06-071-064c
त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः । KK05-06-071-065a
हत्वाऽप्यनुशयो नित्यं परानपि जनार्दन ॥ KK05-06-071-065c
अनुबद्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते । KK05-06-071-066a
शेषो हि बलमासाद्य न शेषमनुशेषयेत् ॥ KK05-06-071-066c
सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया । KK05-06-071-067a
जयो वैरं प्रसृजति दुःखमास्ते पराजितः ॥ KK05-06-071-067c
सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ । KK05-06-071-068a
जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा ॥ KK05-06-071-068c
अनिर्वृत्तेन मनसा ससर्प इव वेश्मनि । KK05-06-071-069a
उत्सादयति यः सर्वं यशसा स विमुच्यते ॥ KK05-06-071-069c
अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति । KK05-06-071-070a
न हि वैराणि शाम्यन्ति दीर्घकालधृतान्यपि ॥ KK05-06-071-070c
आख्यातारश्च विद्यन्ते पुमांश्चेद्विद्यते कुले । KK05-06-071-071a
न चापि वैरं वैरेण केशव व्युपशाम्यति ॥ KK05-06-071-071c
हविषाऽग्निर्यथा कृष्ण भूय एवाभिवर्धते । KK05-06-071-072a
अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः ॥ KK05-06-071-072c
अन्तरं लिप्समानानामयं दोषो निरन्तरः । KK05-06-071-073a
पौरुषे यो हि बलवानाधिर्हृदयबाधनः । KK05-06-071-073c
तस्य त्यागेन वा शान्तिर्मरणेनापि वा भवेत् ॥ KK05-06-071-073e
अथवा मूलघातेन द्विषतां मधुसूदन । KK05-06-071-074a
फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ॥ KK05-06-071-074c
या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः । KK05-06-071-075a
संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ॥ KK05-06-071-075c
न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् । KK05-06-071-076a
अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ॥ KK05-06-071-076c
सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् । KK05-06-071-077a
सान्त्वे प्रतिहते युद्धं प्रसिद्धं नापराक्रमः ॥ KK05-06-071-077c
प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते । KK05-06-071-078a
तच्छुनामिव सम्पाते पण्डितैरुपलक्षितम् ॥ KK05-06-071-078c
लाङ्गूलचालनं क्ष्वेडा प्रतिवाचो विवर्तनम् । KK05-06-071-079a
दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ॥ KK05-06-071-079c
तत्र यो बलवान्कृष्ण जित्वा सोत्ति तदामिषम् । KK05-06-071-080a
एवमेव मनुष्येषु विशेषो नास्ति कश्चन ॥ KK05-06-071-080c
सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् । KK05-06-071-081a
अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ॥ KK05-06-071-081c
पिता राजा च वृद्धश्च सर्वथा मानमर्हति । KK05-06-071-082a
तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ॥ KK05-06-071-082c
पुत्रस्नेहश्च बलवान्धृतराष्ट्रस्य माधव । KK05-06-071-083a
स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ॥ KK05-06-071-083c
तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् । KK05-06-071-084a
कथमर्थाच्च धर्माच्च न हीयेमहि माधव ॥ KK05-06-071-084c
ईदृशेऽत्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन । KK05-06-071-085a
उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम ॥ KK05-06-071-085c
प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् । KK05-06-071-086a
को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ॥ KK05-06-071-086c
वैशम्पायन उवाच KK05-06-071-087
एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः । KK05-06-071-087a
उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ॥ KK05-06-071-087c
शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् । KK05-06-071-088a
पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ॥ KK05-06-071-088c
मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् । KK05-06-071-089a
पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ॥ KK05-06-071-089c
युधिष्ठिर उवाच KK05-06-071-090
न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति । KK05-06-071-090a
सुयोधनः सूक्तमपि न करिष्यति ते वचः ॥ KK05-06-071-090c
समेतं पार्थिवं क्षत्रं दुर्योधनवशानुगम् । KK05-06-071-091a
तेषां मध्यावतरणं तव कृष्ण न रोचये ॥ KK05-06-071-091c
न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् । KK05-06-071-092a
न च सर्वामरैश्वर्यं तव द्रोहेण माधव ॥ KK05-06-071-092c
श्रीभगवानुवाच KK05-06-071-093
जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् । KK05-06-071-093a
अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ॥ KK05-06-071-093c
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः । KK05-06-071-094a
क्रुद्धस्य संयुगे स्थातुं सिंहस्येवेतरे मृगाः । KK05-06-071-094c
अथ चेत्ते प्रवर्तेरन्मयि किञ्चिदसाम्प्रतम् । KK05-06-071-095a
निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ॥ KK05-06-071-095c
न जातु गमनं पार्थ भवेत्तत्र निरर्थकम् । KK05-06-071-096a
अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ॥ KK05-06-071-096c
'एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् । KK05-06-071-097a
भ्रातॄणां समवेतानां सकाशे पुरुषोत्तमम् ' ॥ KK05-06-071-097c
युधिष्ठिर उवाच KK05-06-071-098
यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् । KK05-06-071-098a
कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ॥ KK05-06-071-098c
विष्वक्सेन कुरून्गत्वा भरताञ्शमयन्प्रभो । KK05-06-071-099a
यथा सर्वे सुमनसः सह स्याम सुचेतसः ॥ KK05-06-071-099c
भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः । KK05-06-071-100a
सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये ॥ KK05-06-071-100c
अस्मान्वेत्थ परान्वेत्थ वेत्थार्थान्वेत्थ भाषितुम् । KK05-06-071-101a
यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ॥ KK05-06-071-101c
यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः । KK05-06-071-102a
तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ॥ ॥ KK05-06-071-102c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकसप्ततितमोऽध्यायः ॥

5-71-10 अनुयुङ्क्ष्महे प्रार्थयामहे ॥ 5-71-15 विवृतान्तरः प्रकाशितभावः ॥ 5-71-17 छद्मना अज्ञातचर्यया ॥ 5-71-18 स्थाता स्थास्यति । नः अस्माकम् । तस्मिन् चतुर्दशे वर्षे स्वं राज्यं गृह्णीतेत्यस्मिन् । न अहास्म न त्यक्तवन्तो वयम् ॥ 5-71-21 मातरं संविधातुं सम्यक् पोषयितुम् । मित्राणां कर्मणिषष्ठी ॥ 5-71-23 अवसीयते संस्थीयतेऽस्मिन्नित्यवसानम् यावज्जीवकं वासस्थानम् ॥ 5-71-24 नः अस्माकं कृते भरताः भरतवंश्या भीष्मादयः मानशन् मानश्यन्तु ॥ 5-71-28 द्विजाः अर्थिनः ॥ 5-71-29 प्रेतसत्वात् प्रगतबुद्धेर्मृतादित्यर्थः ॥ 5-71-31 धर्मं धर्मकारणम् । सर्वं यज्ञदानादि ॥ 5-71-35 आपत्पदार्थमाह श्रियो विनाश इति । तद्धि श्रीर्हि ॥ 5-71-40 तत्तदा सर्वदेत्यर्थः ॥ 5-71-48 इदं ह्रीमत्वम् । ते त्वया ॥ 5-71-55 कपालं भिक्षापात्रम् ॥ 5-71-57 नीतिमेव बलं कृत्वा युध्ये योत्स्ये । जयपराजयौ तु आत्मच्छन्देन स्वेच्छया न भवतः । तथा तद्वत् भूतानां जीवितं मरणं च स्वेच्छया न स्तः ॥ 5-71-58 नीतिमेव बलं कृत्वा युध्ये योत्स्ये । जयपराजयौ तु आत्मच्छन्देन स्वेच्छया न भवतः । तथा तद्वत् भूतानां जीवितं मरणं च स्वेच्छया न स्तः ॥ 5-71-65 अनुशयः पश्चात्तापः ॥ 5-71-66 शेषः शत्रोः । शेषं स्वस्य ॥ 5-71-69 अनिर्वृत्तेन अस्वस्थेन ॥ 5-71-72 अत इति । यतः अन्तरं छिद्रं नित्यम् अपरिहार्थम् अतो हेतोः अन्ततोऽन्यथा स्वस्य शत्रोर्वा नाशं विना शान्तिर्नास्ति ॥ 5-71-73 अयं दोषः नाशाख्यः ॥ 5-71-74 इद्धा प्रदीप्ता ॥ 5-71-75 त्यागेन राज्यस्येति शेषः । तदृते राज्यं विना । द्विषतां संशयात् किं शत्रवश्छिद्रे प्रहरिष्यन्ति उत उपेक्षां करिष्यन्तीत्येवंरूपात् । आत्मनः भ्रष्टश्रीकस्य सद्यः समुच्छेदात् नाशसम्भवात् । अतो राज्यत्यागो न युक्त इति भावः ॥ 5-71-78 दारुणं युद्धम् तच्छुनामिव निन्द्यमित्यर्थः ॥ 5-71-79 क्ष्वेडा ध्वनिकौटिल्यम् । विवर्तनं भूमौ लुण्ठनम् । दन्तदर्शनं मुखस्य व्यादानेन ॥ 5-71-83 प्रहास्यति न स्वीकरिष्यति ॥ 5-71-99 तथा वदेति शेषः ॥