अध्यायः 070
श्रीकृष्णागमनश्रवणहृष्टेन धृतराष्ट्रेण चक्षुष्मत्प्रशंसनपूर्वकं श्रीकृष्णगुणानुवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच KK05-05-070-001
चक्षुष्मतां वै स्पृहयामि सञ्जय द्रक्ष्यन्ति ये वासुदेवं समीपे । KK05-05-070-001a
विभ्राजमानं वपुषा परेण प्रकाशयन्तं प्रदिशो दिशश्च ॥ KK05-05-070-001c
ईरयन्तं भारतीं भारतानामभ्यर्चनीयां शङ्करीं सृञ्जयानाम् । KK05-05-070-002a
बुभूषद्भिर्गर्हणीयामनिन्द्यां परासूनामग्रहणीयरूपाम् ॥ KK05-05-070-002c
समुद्यन्तं सात्वतमेकवीरं प्रणेतारमृषभं यादवानाम् । KK05-05-070-003a
निहन्तारं क्षोभणं शात्रवाणां मुञ्चन्तं च द्विषतां वै यशांसि ॥ KK05-05-070-003c
द्रष्टारो हि कुरवस्तं समेता महात्मानं शत्रुहणं वरेण्यम् । KK05-05-070-004a
ब्रुवन्तं वाचमनृशंसरूपां वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥ KK05-05-070-004c
ऋषिं सनातनतमं विपश्चितं वाचःसमुद्रं कलशं यतीनाम् । KK05-05-070-005a
अरिष्टनेमिं गरुडं सुपर्णं हरिं प्रजानां भुवनस्य धाम ॥ KK05-05-070-005c
सहस्रशीर्षं पुरुषं पुराणमनादिमध्यान्तमनन्तकीर्तिम् । KK05-05-070-006a
शुक्रस्य धातारमजं च नित्यं परं परेषां शरणं प्रपद्ये ॥ KK05-05-070-006c
त्रैलोक्यनिर्माणकरं जनित्रं देवासुराणामथ नागरक्षसाम् । KK05-05-070-007a
नराधिपानां विदुषां प्रधानमिन्द्रानुजं तं शरणं प्रपद्ये ॥ ॥ KK05-05-070-007c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्ततितमोऽध्यायः ॥
5-70-1 चक्षुष्मतां भाग्याय स्पृहयामि ॥ 5-70-5 अरिष्टः अहिंसितः नेमिः पादो यस्य सः अरिष्टनेमिः ॥ 5-70-7 निर्माणं रचना । जनित्रं जनयितारम् ॥