अध्यायः 069
सञ्जयेन धृतराष्ट्रम् प्रति वासुदेवादिभगवन्नामनिर्वचनम् ॥ 1 ॥ तथा सन्ध्यर्थं श्रीकृष्णागमनकथनम् ॥ 2 ॥
धृतराष्ट्र उवाच KK05-05-069-001
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः । KK05-05-069-001a
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥ KK05-05-069-001c
सञ्जय उवाच KK05-05-069-002
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम् । KK05-05-069-002a
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥ KK05-05-069-002c
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः । KK05-05-069-003a
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ॥ KK05-05-069-003c
मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम् । KK05-05-069-004a
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ॥ KK05-05-069-004c
कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः । KK05-05-069-005a
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ॥ KK05-05-069-005c
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् । KK05-05-069-006a
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः ॥ KK05-05-069-006c
यतः सत्वं न च्यवते यच्च सत्वान्न हीयते । KK05-05-069-007a
सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥ KK05-05-069-007c
न जायते जनित्राऽयमजस्तस्मादनीकजित् । KK05-05-069-008a
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ॥ KK05-05-069-008c
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते । KK05-05-069-009a
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ॥ KK05-05-069-009c
अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः । KK05-05-069-010a
नराणामयनाच्चापि ततो नारायणः स्मृतः ॥ KK05-05-069-010c
पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः । KK05-05-069-011a
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् । KK05-05-069-011c
सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते ॥ KK05-05-069-011e
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् । KK05-05-069-012a
सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः ॥ KK05-05-069-012c
विष्णुर्विक्रमणाद्देवो जयनाज्जिष्णुरुच्यते । KK05-05-069-013a
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ॥ KK05-05-069-013c
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ॥ KK05-05-069-014ac
एवंविधो धर्मनित्यो भगवान्मधुसूदनः । KK05-05-069-015a
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥ ॥ KK05-05-069-015c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि ऊनसप्ततितमोऽध्यायः ॥
5-69-2 यावदभिजाने तावत् । वदामीति शेषः । वस्तुतस्तु सः अप्रमेयः ॥ 5-69-3 वसत्यस्मिन् भुवनमिति वासुः दीर्घश्छान्दसः । स चासौ देवश्च वासुदेवः । बृहत्त्वाद्व्यापकत्वात् वेवेष्टि व्याप्नोति सर्वमिति विष्णुः । वृषत्वादिष्णुरुच्यते इति ख. पाठः । वृषत्वात् अभीष्टसेचकत्वात् इति रत्नगर्भः ॥ 5-69-4 मौनं मुनेः कर्म मननम् । मौनं च ध्यानं च ताभ्यां विषयतया युक्तो माधवः । सर्वतत्त्वानि पृथिव्यादयो विषयाः । तेच सुखसाधनतया मधुशब्देनोक्ताः । तेषां लयात् संहर्तृत्वात् मधुहा मधुसूदनश्चेति नामद्वयम् ॥ 5-69-5 कृषिरितिशब्दो भूवाचकः कृष्यते सस्यार्थमिति व्युत्पत्त्या । भूमिलोकस्थप्राणिमुखस्य यो भाव उत्पादनं तत्कर्तृत्वात्कृष्णो भवति ॥ 5-69-6 पुण्डरीकं हृदयकमलं धाम वासस्थानं तत्र सन्नपि अक्षो न क्षीयते हन्यते वेति पुण्डरीकाक्षः । तथाच श्रुतिर्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत इति हृत्पद्म । दोषैर्जरानाशादिभिः परमात्मनोऽस्पृष्टत्वमाह । दस्युत्रासात् जनं दस्युजनम् अर्दयति पीडयतीति जनार्दन इत्यर्थः ॥ 5-69-7 सत्त्वं बलम् । आर्षं वेदस्तेन भातीत्यार्षभ औपनिषदः पुरुषः । उपनिषद्वेद्यत्वाद्योगात् वृषभेक्षणः । तथाचायं योगः वृषं धर्मं भासयतीति वृषभो वेदस्तदेव ईक्षणं चक्षुरिव ज्ञापकं यस्य सः वृषभेक्षण इति ॥ 5-69-8 जनित्रा पित्रा न जायत इत्यजः । अनीकजित्सेनाजित् कृष्णः । देवानां स्वप्रकाशत्वात् । ऋगतावित्यस्मादुत्पूर्वात् अप् । उत् उत्कर्षेण ऋच्छति प्रकाशत इति उदरः । दमोस्यास्तीति दामः दामश्चासावुदरश्चेति दामोदरः ॥ 5-69-9 हर्षात् हृषिः सुखात्कं सुखैर्श्वर्यादीशः । महीति च्छान्दसं रोदस्योर्नाम । मह्यौ बाह्योर्यस्य स तथा । ईकाराकारश्छान्दसः ॥ 5-69-10 जातुशब्दार्थे जकारः ॥ 5-69-11 पुरयतीति पुरुः । सीदन्त्यस्मिन्निति सः तस्मात्पुरुषः स चासावुत्तमश्च पुरुषोत्तमः । असतः कारणस्य सतः कार्यस्य प्रभवाप्ययात् उत्पत्तिप्रलयस्थानत्वात् सर्वशब्दस्तत्प्रभवाप्ययहेतावुपचारात्प्रवर्तते ॥ 5-69-12 सत्ये धर्मे ॥ 5-69-13 विशेषेण क्रमणात् व्यापनात् । एवं जयतीति जिष्णुः शाश्वतत्वात् शश्वद्भवत्वात् । गवामिन्द्रियाणां वेदनात् प्रकाशात् गोविन्दः ॥ 5-69-15 धर्मे नित्यं सन्निधानात् धर्मनित्यः । आगन्ता आगमिष्यति । आनृशंस्यमहिंसा कुरुपाण्डवयोः तदर्थम् ॥