अध्यायः 068
भगवद्वेदनसाधनम् पृष्टेन सञ्जयेन धृतराष्ट्रम् प्रति तत्कथनम् ॥ 1 ॥ श्रीव्यासेन धृतराष्ट्रम् प्रति सञ्जयाद्भगवद्वेदनाभ्यनुज्ञा ॥ 2 ॥
धृतराष्ट्र उवाच KK05-05-068-001
कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् । KK05-05-068-001a
कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ॥ KK05-05-068-001c
सञ्जय उवाच KK05-05-068-002
शृणु राजन्न ते विद्या मम विद्या न हीयते । KK05-05-068-002a
विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ॥ KK05-05-068-002c
विद्यया तात जानामि त्रियुगं मधुसूदनम् । KK05-05-068-003a
कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ॥ KK05-05-068-003c
धृतराष्ट्र उवाच KK05-05-068-004
गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने । KK05-05-068-004a
यया त्वमभिजानासि त्रियुगं मधुसूदनम् ॥ KK05-05-068-004c
सञ्जय उवाच KK05-05-068-005
मायां न सेवे भद्रं ते न वृथाधर्ममाचरे । KK05-05-068-005a
शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ॥ KK05-05-068-005c
धृतराष्ट्र उवाच KK05-05-068-006
दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् । KK05-05-068-006a
आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ॥ KK05-05-068-006c
दुर्योधन उवाच KK05-05-068-007
भगवान्देवकीपुत्रो लोकांश्चेन्निहनिष्यति । KK05-05-068-007a
प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ॥ KK05-05-068-007c
धृतराष्ट्र उवाच KK05-05-068-008
अवाग्गान्धारि पुत्रस्ते गच्छत्येष सुदुर्मतिः । KK05-05-068-008a
ईर्षुर्दुरात्मा मानी च श्रेयसां वचनातिगः ॥ KK05-05-068-008c
गान्धार्युवाच KK05-05-068-009
ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग । KK05-05-068-009a
ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ॥ KK05-05-068-009c
वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् । KK05-05-068-010a
निहतो भीमसेनेन स्मर्तासि वचनं पितुः ॥ KK05-05-068-010c
व्यास उवाच KK05-05-068-011
प्रियोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे । KK05-05-068-011a
यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ॥ KK05-05-068-011c
जानात्येष हृषीकेशं पुराणं यच्च वै परम् । KK05-05-068-012a
शुश्रूषमाणमैकाग्र्यं मोक्ष्यते महतो भयात् ॥ KK05-05-068-012c
वैचित्रवीर्य पुरुषाः क्रोधहर्षसमावृताः । KK05-05-068-013a
सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ॥ KK05-05-068-013c
यमस्य वशमायान्ति काममूढाः पुनः पुनः । KK05-05-068-014a
अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ॥ KK05-05-068-014c
एष एकायनः पन्था येन यान्ति मनीषिणः । KK05-05-068-015a
तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जति ॥ KK05-05-068-015c
धृतराष्ट्र उवाच KK05-05-068-016
अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् । KK05-05-068-016a
येन गत्वा हृषीकेशं प्राप्नुयां सिद्धिमुत्तमाम् ॥ KK05-05-068-016c
सञ्जय उवाच KK05-05-068-017
नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् । KK05-05-068-017a
आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ॥ KK05-05-068-017c
इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः । KK05-05-068-018a
अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ॥ KK05-05-068-018c
इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः । KK05-05-068-019a
बुद्धिश्च ते मा च्युवतु नियच्छैनां यतस्ततः ॥ KK05-05-068-019c
एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् । KK05-05-068-020a
एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ॥ KK05-05-068-020c
अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः । KK05-05-068-021a
आगमाधिगमाद्योगाद्वशी तत्त्वे प्रसीदति ॥ ॥ KK05-05-068-021c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टषष्टितमोऽध्यायः ॥
5-68-4 भक्तिः आराध्यत्वेन ज्ञानं तच्च कीदृशम् ॥ 5-68-5 वृथाधर्मं भगवदर्पणं विना न चरामि । शुद्धभावं मनसः कामक्रोधादिराहित्येन नैर्मल्यम् ॥ 5-68-12 ऐकाग्र्यं शुश्रूषमाणं सेवमानं त्वां मोक्ष्यते मोचयिष्यति ॥ 5-68-13 सिताः बद्धाः । पाशैः कामादिभिः ॥ 5-68-14 अन्धनेत्रा अन्धश्चासौ नेता च तेन ॥ 5-68-17 आत्मनः स्वस्य इन्द्रियनिग्रहादन्यत्र इन्द्रियनिग्रहंविना क्रियायागादिरूपा उपायः प्राप्त्युपायो नास्ति ॥ 5-68-21 योगात् चित्तवृत्तिनिरोधात् । वशी ईश्वरः । तत्त्वे स्वयाथात्म्ये विषये । प्रसीदति ज्ञानदानेन अनुगृह्णाति ॥