अध्यायः 067

सञ्जयेन धृतराष्ट्रम् प्रति सारभूतात्सर्वस्मादपि श्रीकृष्णस्य सारतरत्वकथनम् ॥ 1 ॥ सञ्जय उवाच KK05-05-067-001
अर्जुनो वासुदेवश्च धन्विनौ परमार्थितौ । KK05-05-067-001a
कामादन्यत्र सम्भूतौ सर्वभावाय सम्मितौ ॥ KK05-05-067-001c
व्यामान्तरं समास्थय यथामुक्तं मनस्विनः । KK05-05-067-002a
चक्रं तद्वासुदेवस्य मायया वर्तते विभो ॥ KK05-05-067-002c
सापह्नवं कौरवेषु पाण्डवानां सुसम्मतम् । KK05-05-067-003a
सारासारबलं ज्ञातुं तेजःपुञ्जावभासितम् ॥ KK05-05-067-003c
नरकं शम्बरं चैव कंसं चैद्यं च माधवः । KK05-05-067-004a
जितवान्घोरसङ्काशान्क्रीडन्निव महाबलः ॥ KK05-05-067-004c
पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः । KK05-05-067-005a
मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ॥ KK05-05-067-005c
भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति । KK05-05-067-006a
सारासारबलं ज्ञातुं तत्समासेन मे शृणु ॥ KK05-05-067-006c
एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः । KK05-05-067-007a
सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ॥ KK05-05-067-007c
भस्म कुर्याज्जगदिदं मनसैव जनार्दनः । KK05-05-067-008a
न तु कृत्स्नं जगच्छक्तं किञ्चित्कर्तुं जनार्दने ॥ KK05-05-067-008c
यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः । KK05-05-067-009a
ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ॥ KK05-05-067-009c
पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः । KK05-05-067-010a
विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥ KK05-05-067-010c
स कृत्वा पाण्डवान्सत्रं लोकं सम्मोहयन्निव । KK05-05-067-011a
अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ॥ KK05-05-067-011c
कालचक्रं जगच्चक्रं युगचक्रं च केशवः । KK05-05-067-012a
आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ॥ KK05-05-067-012c
कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च । KK05-05-067-013a
ईष्टे हि भगवानेकः सत्यमेतद्ब्रवीमि ते ॥ KK05-05-067-013c
ईशन्नपि महायोगी सर्वस्य जगतो हरिः । KK05-05-067-014a
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥ KK05-05-067-014c
तेन वञ्चयते लोकान्मायायोगेन केशवः । KK05-05-067-015a
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥ ॥ KK05-05-067-015c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्तषष्टितमोऽध्यायः ॥

5-67-2 व्यामान्तरं प्रसारितयोर्हस्तयोर्यावान्विस्तारः पञ्चहस्तमितः तावत् अन्तरं मध्यप्रमाणं यस्य तद्व्यामान्तरम् । यथामुक्तं यथा यथारूपं यावत्प्रमाणं चिन्तितं तावत्प्रमाणं भूत्वा यत् मुक्तं भवति । मायया दुर्लक्ष्यरूपेणेत्यर्थः ॥ 5-67-3 सापह्नवं ससंहारम् । अत एव पाण्डवानां सुसम्मतम् ॥ 5-67-11 सत्रं व्याजम् । सत्रमाच्छादने यज्ञे सदादाने च कैतवे इति विश्वः ॥ 5-67-14 ईशन्नपि ईशानोपि । कीनाश कर्षकः ॥