अध्यायः 066
दुर्योधनेन धृतराष्ट्रवचतनानभिनन्दने राज्ञां निर्गमनम् ॥ 1 ॥ धृतराष्ट्रेण स्वपरसेनयोः सारासारकथनचोदितेन सञ्जयेन व्यासगान्धारीसन्निधौ कथनकथनम् ॥ 2 । श्रीव्यासेन सञ्जयम् प्रति धृतराष्ट्रप्रश्नस्योत्तरदानाभ्यनुज्ञानम् ॥ 3 ।
वैशम्पायन उवाच KK05-05-066-001
दुर्योधने धार्तराष्ट्रे तद्वचो नाभिनन्दति । KK05-05-066-001a
तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरर्षभाः ॥ KK05-05-066-001c
उत्थितेषु महाराज पृथिव्यां सर्वराजसु । KK05-05-066-002a
रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ॥ KK05-05-066-002c
आशंसमानो विजयं तेषां पुत्रवशानुगः । KK05-05-066-003a
आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥ KK05-05-066-003c
धृतराष्ट्र उवाच KK05-05-066-004
गावल्गणे ब्रूहि नः सारफल्गु स्वसेनायं यावदिहास्ति किञ्चित् । KK05-05-066-004a
त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः ॥ KK05-05-066-004c
त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः । KK05-05-066-005a
स मे पृष्टः सञ्जय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति ॥ KK05-05-066-005c
सञ्जय उवाच KK05-05-066-006
न त्वां ब्रूयां रहिते जातु किञ्चिदसूया हि त्वां प्रविशेत राजन् । KK05-05-066-006a
आनयस्व पितरं महाव्रतं गान्धारीं च महिषीमाजमीढ ॥ KK05-05-066-006c
तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ । KK05-05-066-007a
तयोस्तु त्वां सन्निधौ तद्वदेयं कृत्स्नं मतं केशवपार्थयोर्यत् ॥ KK05-05-066-007c
वैशम्पायन उवाच KK05-05-066-008
इत्युक्तेन च गान्धारी व्यासश्चात्राजगामह । KK05-05-066-008a
आनीतौ विदुरेणेह सभां शीघ्रं प्रवेशितौ ॥ KK05-05-066-008c
ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च । KK05-05-066-009a
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ KK05-05-066-009c
व्यास उवाच KK05-05-066-010
सम्पृच्छते धृतराष्ट्राय सञ्जय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते । KK05-05-066-010a
सर्वं यावद्वेत्थ तस्मिन्यथावद्याथातथ्यं वासुदेवेऽर्जुने च ॥ ॥ KK05-05-066-010c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षट्षष्टितमोऽध्यायः ॥
5-66-3 परेषां तटस्थानाम् ॥ 5-66-5 युध्यमाना न सन्ति उदासीना इत्यर्थः ॥ 5-66-6 पितरं व्यासम् ॥