अध्यायः 065

धृतराष्ट्रेण दुर्योधनम् प्रति अर्जुनस्य श्रीकृष्णपरमप्रेमास्पदतया दुर्जयत्वाभिधानपूर्वकम् पाण्डवैः सह सन्धिविधानम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-05-065-001
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक । KK05-05-065-001a
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ॥ KK05-05-065-001c
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि । KK05-05-065-002a
पञ्चानामिव भूतानां महतां लोकधारिणाम् ॥ KK05-05-065-002c
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् । KK05-05-065-003a
परां गतिमसम्प्रेत्य न त्वं जेतुमिहार्हसि ॥ KK05-05-065-003c
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले । KK05-05-065-004a
रणान्तकं तर्जयसे महावातमिव द्रुमः ॥ KK05-05-065-004c
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव । KK05-05-065-005a
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् ॥ KK05-05-065-005c
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् । KK05-05-065-006a
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ॥ KK05-05-065-006c
सात्यकिश्चापि दुर्धर्षः सम्मतोऽन्धकवृष्णिषु । KK05-05-065-007a
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥ KK05-05-065-007c
यः पुनः प्रतिमानेन त्रील्ँलोकानतिरिच्यते । KK05-05-065-008a
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान् ॥ KK05-05-065-008c
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः । KK05-05-065-009a
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ॥ KK05-05-065-009c
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः । KK05-05-065-010a
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ॥ KK05-05-065-010c
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् । KK05-05-065-011a
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ॥ KK05-05-065-011c
मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् । KK05-05-065-012a
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥ KK05-05-065-012c
एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा । KK05-05-065-013a
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥ KK05-05-065-013c
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः । KK05-05-065-014a
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ॥ KK05-05-065-014c
यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम् । KK05-05-065-015a
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ KK05-05-065-015c
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते । KK05-05-065-016a
स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय ॥ ॥ KK05-05-065-016c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चषष्टितमोऽध्यायः ॥

5-65-1 उत्पथम् अमार्गमेव मार्गं मन्यसे ॥ 5-65-6 न शातयेत् न छिन्द्यात् ॥ 5-65-8 प्रतिमानेन तुल्यत्वेन ॥ 5-65-11 भीष्मं तितिक्षस्व तद्वाक्यं गृहाणेत्यर्थः ॥ 5-65-16 वृत्त्या राज्यार्धदानेन प्रतिपादय सम्भावय ॥