अध्यायः 064
विदुरेण शकुनिदृष्टान्तेन ज्ञातिभिर्विरोधस्यानर्थहेतुत्वकथनम् ॥ 1 ॥ तथा किरातदृष्टान्तप्रदर्शनेन अत्याशाया अनर्थहेतुताकथनम् ॥ 2 ॥ तथा युद्धे जयपराजययोरव्यवस्थितत्वाभिधानम् ॥ 3 ॥
विदुर उवाच KK05-05-064-001
शकुनीनामिहार्थाय पाशं भूमावयोजयत् । KK05-05-064-001a
कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ॥ KK05-05-064-001c
तस्मिंस्तौ शकुनौ बद्धौ युगपत्सहचारिणौ । KK05-05-064-002a
तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥ KK05-05-064-002c
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा । KK05-05-064-003a
अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥ KK05-05-064-003c
तथा तमनुधावन्तमृगयुं शकुनार्थिनम् । KK05-05-064-004a
आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥ KK05-05-064-004c
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् । KK05-05-064-005a
श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ॥ KK05-05-064-005c
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे । KK05-05-064-006a
प्लवमानौ हि खचरौ पदातिरनुधावसि ॥ KK05-05-064-006c
शाकुनिक उवाच KK05-05-064-007
पाशमेकमुभावेतौ सहितौ हरतो मम । KK05-05-064-007a
यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥ KK05-05-064-007c
विदुर उवाच KK05-05-064-008
तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ । KK05-05-064-008a
विगृह्य च सुदुर्बुद्धी पृथिव्यां सन्निपेततुः ॥ KK05-05-064-008c
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ । KK05-05-064-009a
उपसृत्य प्रमत्तौ तौ जग्राह मृगहा तदा ॥ KK05-05-064-009c
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् । KK05-05-064-010a
ते मृत्युवशमायान्ति शकुनाविव विग्रहात् ॥ KK05-05-064-010c
सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः । KK05-05-064-011a
एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥ KK05-05-064-011c
ये स्म काले सुमनसः सर्वे वृद्धानुपासते । KK05-05-064-012a
सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥ KK05-05-064-012c
येऽर्थं सन्ततमासाद्य दीना इव समासते । KK05-05-064-013a
श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥ KK05-05-064-013c
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । KK05-05-064-014a
धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ KK05-05-064-014c
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया । KK05-05-064-015a
श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥ KK05-05-064-015c
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् । KK05-05-064-016a
ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवार्तिकैः ॥ KK05-05-064-016c
कुञ्चभूतं गिरिं सर्वमभितो गन्धमादनम् । KK05-05-064-017a
दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥ KK05-05-064-017c
तत्रापश्याम वै सर्वे मधु पीतकमाक्षिकम् । KK05-05-064-018a
मरुप्रपाते विषमे निविष्टं कुम्भसम्मितम् ॥ KK05-05-064-018c
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् । KK05-05-064-019a
यत्प्राप्य पुरुषो मर्त्योऽप्यमरत्वं नियच्छति ॥ KK05-05-064-019c
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा । KK05-05-064-020a
इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥ KK05-05-064-020c
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते । KK05-05-064-021a
विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥ KK05-05-064-021c
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति । KK05-05-064-022a
मधु पश्यति सम्मोहात्प्रपातं नानुपश्यति ॥ KK05-05-064-022c
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना । KK05-05-064-023a
न च पश्यामि तेजोस्य विक्रमं वा तथाविधम् ॥ KK05-05-064-023c
एकेन रथमास्थाय पृथिवी येन निर्जिता । KK05-05-064-024a
भीष्मद्रोणप्रभृतयः सन्त्रस्ताः साधुयायिनः ॥ KK05-05-064-024c
विराटनगरे भग्नाः किं तत्र तव दृश्यताम् । KK05-05-064-025a
प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥ KK05-05-064-025c
द्रुपदो मत्स्यराजश्च सङ्कुद्धश्च धनञ्जयः । KK05-05-064-026a
न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥ KK05-05-064-026c
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् । KK05-05-064-027a
युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ॥ ॥ KK05-05-064-027c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि चतुःषष्टितमोऽध्यायः ॥
5-64-16 विद्याजम्भकवार्तिकाः । विद्या मन्त्रयन्त्रादिरूपा । जम्भक औषधसाधनानि तद्वार्ताप्रियाः ॥ 5-64-17 कुञ्जभूतं सर्वतो लताभिः परिवृतम् ॥