अध्यायः 062

कर्णेन धृतराष्ट्रमनादृत्य पाण्डवहननप्रतिज्ञानम् ॥ 1 ॥ तथा भीष्माधिक्षिप्तेन तेन युद्धे भीष्मशमनावधि शस्त्रन्यासम् प्रतिज्ञाय स्वभवनगमनम् ॥ 2 ॥ भीष्मेण प्रत्यहम् अयुतयोधवधप्रतिज्ञा ॥ 3 ॥ वैशम्पायन उवाच KK05-05-062-001
तथा तु पृच्छन्तमतीव पार्थं वैचित्रवीर्यं तमचिन्तयित्वा । KK05-05-062-001a
उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम् ॥ KK05-05-062-001c
मिथ्या प्रतिज्ञाय मया यदस्त्रं रामात्कृतं ब्रह्ममयं पुरस्तात् । KK05-05-062-002a
विज्ञाय तेनास्मि तदैवमुक्तस्ते नान्तकाले प्रतिभास्यतीति ॥ KK05-05-062-002c
महापराधे ह्यपि यन्न तेन महर्षिणाऽहं गुरुणा च शप्तः । KK05-05-062-003a
शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः ॥ KK05-05-062-003c
प्रसादितं ह्यस्य मया मनोऽभूच्छुश्रूषया स्वेन च पौरुषेण । KK05-05-062-004a
तदस्ति चास्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः ॥ KK05-05-062-004c
निमेषमात्रात्तमृषेः प्रसादमवाप्य पाञ्चालकरूशमत्स्यान् । KK05-05-062-005a
निहत्य पार्थान्सह पुत्रपौत्रैर्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥ KK05-05-062-005c
पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः । KK05-05-062-006a
ऋषिप्रसादेन बलेन गत्वा पार्थान्हनिष्यामि ममैष भारः ॥ KK05-05-062-006c
एवं ब्रुवन्तं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे । KK05-05-062-007a
न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः ॥ KK05-05-062-007c
यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनञ्जयेन । KK05-05-062-008a
श्रुत्वैव तत्कर्म नियन्तुमात्मा युक्तस्त्वया वै सहबान्धवेन ॥ KK05-05-062-008c
यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः । KK05-05-062-009a
भस्मीकृतां तां समरे विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन ॥ KK05-05-062-009c
यस्ते शरः सर्पमुखो विभाति सदाऽग्र्यमाल्यैर्महितः प्रयत्नात् । KK05-05-062-010a
स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम् ॥ KK05-05-062-010c
बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः । KK05-05-062-011a
यस्त्वादृशानां च वरीयसां च हन्ता रिपूणां तुमुले प्रगाढे ॥ KK05-05-062-011c
कर्ण उवाच KK05-05-062-012
असंशयं वृष्णिपतिर्यथोक्तस्तथा च भूयांश्च ततो महात्मा । KK05-05-062-012a
अहं यदुक्तः परुषं तु किञ्चित्पितामहस्तस्य फलं शृणोतु ॥ KK05-05-062-012c
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये पितामहो द्रक्ष्यति मां सभायाम् । KK05-05-062-013a
त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥ KK05-05-062-013c
वैशम्पायन उवाच KK05-05-062-014
इत्येवमुक्त्वा स महाधनुष्मान्हित्वा सभां स्वं भवनं जगाम । KK05-05-062-014a
भीष्मस्तु दुर्योधनमेव राजन्मध्ये कुरूणां प्रहसन्नुवाच ॥ KK05-05-062-014c
सत्यप्रतिज्ञः किल सूतपुत्रस्तथा स भारं विषहेत कस्मात् । KK05-05-062-015a
व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा लोकक्षयं पश्यत भीमसेनात् ॥ KK05-05-062-015c
आवन्त्यकालिङ्गजयद्रथेषु चेदिध्वजे तिष्ठति बाह्लिके च । KK05-05-062-016a
अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतशश्च योधान् ॥ KK05-05-062-016c
यदैव रामे भगवत्यनिन्द्ये ब्रह्मब्रुवाणः कृतवांस्तदस्त्रम् । KK05-05-062-017a
तदैव धर्मश्च तपश्च नष्टं वैकर्तनस्याधमपूरुषस्य ॥ KK05-05-062-017c
वैशम्पायन उवाच KK05-05-062-018
तथोक्तवाक्ये नृपतीन्द्र भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे । KK05-05-062-018a
वैचित्रवीर्यस्य सुतोऽल्पबुद्धिर्दुर्योधनः शान्तनवं बभाषे ॥ ॥ KK05-05-062-018c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि द्विषष्टितमोऽध्यायः ॥

5-62-1 तथेति पार्थं पृच्छन्तं वैचित्रवीर्यम् अचिन्तयित्वेति सम्बन्धः ॥ 5-62-4 सावशेषं मम आयुरस्ति । अतोऽन्तकालस्यानुपस्थितत्वात्तदस्त्रं ममास्तीति अहं समर्थोऽस्मि अर्जुनं जेतुमित्यर्थः ॥ 5-62-5 प्रपत्स्ये प्रापयिष्ये ॥ 5-62-7 प्रधाने त्वयि हते सति सर्वे हताः स्युरत आत्मानं गोपायेत्युपहासः ॥ 5-62-17 ब्रह्मब्रुवाणः ब्राह्मणोऽहमिति वदन् ॥