अध्यायः 061
दुर्योधनेन सहेतुकम् पाण्डवानां देवैः साहाय्यकरणपक्षप्रतिक्षेपः ॥ 1 ॥ तथा जलस्तम्भनादिस्वसामर्थ्याभिधानपूर्वकं स्वेन पाण्डवपराजयकरणाभिधानम् ॥ 2 ॥
वैशम्पायन उवाच KK05-05-061-001
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः । KK05-05-061-001a
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥ KK05-05-061-001c
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् । KK05-05-061-002a
मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥ KK05-05-061-002c
अकामद्वेषसंयोगाल्लोभद्रोहाच्च भारत । KK05-05-061-003a
उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥ KK05-05-061-003c
इति द्वैपायनो व्यासो नारदश्च महातपाः । KK05-05-061-004a
जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥ KK05-05-061-004c
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन । KK05-05-061-005a
कामात्क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ ॥ KK05-05-061-005c
यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि । KK05-05-061-006a
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥ KK05-05-061-006c
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कथञ्चन । KK05-05-061-007a
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥ KK05-05-061-007c
अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते । KK05-05-061-008a
देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति ॥ KK05-05-061-008c
मयाऽभिमन्त्रतः शश्वज्जातवेदाः प्रशाम्यति । KK05-05-061-009a
दिधक्षुः सकलाल्ँलोकान्परिक्षिप्य समन्ततः ॥ KK05-05-061-009c
यद्वा परमकं तेजो येन युक्ता दिवौकसः । KK05-05-061-010a
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥ KK05-05-061-010c
विदीर्यमाणां वसुधां गिरीणां शिखराणि च । KK05-05-061-011a
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥ KK05-05-061-011c
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च । KK05-05-061-012a
विनाशाय समुत्पन्नमहं घोरं महास्वनम् ॥ KK05-05-061-012c
अश्मवर्षं च वायुं च शमयामीह नित्यशः । KK05-05-061-013a
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥ KK05-05-061-013c
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः । KK05-05-061-014a
देवासुराणां भावानामहमेकः प्रवर्तिता ॥ KK05-05-061-014c
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् । KK05-05-061-015a
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥ KK05-05-061-015c
भयानकानि विषये व्यालादीनि न सन्ति मे । KK05-05-061-016a
मन्त्रगुप्तानि भूतानि न हिंसन्ति भयङ्कराः ॥ KK05-05-061-016c
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् । KK05-05-061-017a
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥ KK05-05-061-017c
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा । KK05-05-061-018a
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥ KK05-05-061-018c
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमञ्जसा । KK05-05-061-019a
न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ॥ KK05-05-061-019c
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः । KK05-05-061-020a
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥ KK05-05-061-020c
यदभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् । KK05-05-061-021a
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥ KK05-05-061-021c
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप । KK05-05-061-022a
नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः ॥ KK05-05-061-022c
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् । KK05-05-061-023a
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥ KK05-05-061-023c
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन । KK05-05-061-024a
असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥ KK05-05-061-024c
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह । KK05-05-061-025a
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥ KK05-05-061-025c
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः । KK05-05-061-026a
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥ KK05-05-061-026c
परा बुद्धिः परं तेजो वीर्यं च परमं मम । KK05-05-061-027a
परा विद्या परो योगो मम तेभ्यो विशिष्यते ॥ KK05-05-061-027c
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा । KK05-05-061-028a
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥ KK05-05-061-028c
इत्युक्ते सञ्जयं भूयः पर्यपृच्छत भारत । KK05-05-061-029a
ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः ॥ ॥ KK05-05-061-029c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकषष्टितमोऽध्यायः ॥
5-61-3 अकामेति कामद्वेषयोरसंयोगात् । लोभद्रोहात् लोभे द्रोहकरणात्, लोभत्यागादित्यर्थः ॥ 5-61-7 एते देवाः दैवेषु भावेषु शमदमादिषु शश्वदपेक्षका अपेक्षमाणः नत्वासुरेषु कामक्रोधादिषु ॥ 5-61-8 कामादिमता कृतमपि निष्फलं भविष्यतीत्यर्थः ॥ 5-61-29 अभिध्यामि चिन्तयामि ॥