अध्यायः 060

धृतराष्ट्रेण दुर्योधनम् प्रति स्वपरपक्षयोः बलाबलविमर्शनेन पाण्डवेषु पुत्रप्रेम्णा धर्मादिदेवानां साहाय्यकरणाभिधानपूर्वकं स्वस्य शमाभिरोचनवचनम् ॥ 1 ॥ वैशम्पायन उवाच KK05-05-060-001
सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्जनेश्वरः । KK05-05-060-001a
ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ॥ KK05-05-060-001c
प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः । KK05-05-060-002a
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ॥ KK05-05-060-002c
बलाबलं विनिश्चित्य याथातथ्येन बुद्धिमान् । KK05-05-060-003a
'यदा तु मेने भूयिष्ठं तद्वचो गुणदोषतः ॥ KK05-05-060-003c
पुनरेव कुरूणां च पाण्डवानां च बुद्धिमान् ।' KK05-05-060-004a
शक्तिं शङ्ख्यातुमारेभे तदा वै मनुजाधिपः ॥ KK05-05-060-004c
देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् । KK05-05-060-005a
कुरूञ्शक्त्याऽल्पतरया दुर्योधनमथाब्रवीत् ॥ KK05-05-060-005c
दुर्योधनेयं चिन्ता मे शश्वन्न व्युपशाम्यति । KK05-05-060-006a
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ॥ KK05-05-060-006c
आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते । KK05-05-060-007a
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ॥ KK05-05-060-007c
एवमेवोपकर्तॄणां प्रायशो लक्षयामहे । KK05-05-060-008a
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ॥ KK05-05-060-008c
अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् । KK05-05-060-009a
अर्जुनस्यापि भीमेऽस्मिन्कुरुपाण्डुसमागमे ॥ KK05-05-060-009c
जातिगृद्ध्याऽभिपन्नाश्च पाण्डवानामनेकशः । KK05-05-060-010a
धर्मादयः समेष्यन्ति समाहूता दिवौकसः ॥ KK05-05-060-010c
भीष्मद्रोणकृपादीनां भयादशनिसन्निभम् । KK05-05-060-011a
रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ॥ KK05-05-060-011c
ते देवैः सहिताः पार्था न शक्याः प्रतिवीक्षितुम् । KK05-05-060-012a
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ॥ KK05-05-060-012c
दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् । KK05-05-060-013a
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ॥ KK05-05-060-013c
वानरश्च ध्वजे दिव्यो निःसङ्गो धूमवद्गतिः । KK05-05-060-014a
रथश्च चतुरन्तायां यस्य नास्ति समः क्षितौ ॥ KK05-05-060-014c
महामेघनिभश्चापि निर्घोषः श्रूयते जनैः । KK05-05-060-015a
महाशनिसमः शब्दः शात्रवाणां भयङ्करः ॥ KK05-05-060-015c
यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति । KK05-05-060-016a
देवानामपि जेतारं यं विदुः पार्थिवा रणे ॥ KK05-05-060-016c
शतानि पञ्च चैवेषून्यो गृह्णन्नैव दृश्यते । KK05-05-060-017a
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ॥ KK05-05-060-017c
यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च । KK05-05-060-018a
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ॥ KK05-05-060-018c
युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः । KK05-05-060-019a
अशक्यं रथशार्दूलं पराजेतुमरिन्दमम् ॥ KK05-05-060-019c
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः । KK05-05-060-020a
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ॥ KK05-05-060-020c
तमर्जुनं महेष्वासं महेन्द्रोपेन्द्रविक्रमम् । KK05-05-060-021a
निघ्नन्तमिव पश्याभि विमर्देऽस्मिन्महाहवे ॥ KK05-05-060-021c
इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत । KK05-05-060-022a
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ॥ KK05-05-060-022c
क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः । KK05-05-060-023a
अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ॥ KK05-05-060-023c
शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः । KK05-05-060-024a
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ॥ ॥ KK05-05-060-024c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षष्टितमोऽध्यायः ॥

5-60-5 शक्त्या परिच्छिद्येति शेषः ॥ 5-60-9 भीमे भयङ्करे ॥ 5-60-10 जातिगृद्ध्या जन्मग्रहणाद्धेतोः युधिष्ठिरादीनां पितरो धर्मादयोपि तेषां सहायाः सन्ति ॥