अध्यायः 059

पुनः पृष्टेन सञ्जयेन धृतराष्ट्रम् प्रति अर्जुनवाक्यकथनम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-05-059-001
ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् । KK05-05-059-001a
यदर्जुन उवाच त्वां परं कौतूहलं हि मे ॥ KK05-05-059-001c
सञ्जय उवाच KK05-05-059-002
वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः । KK05-05-059-002a
उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ॥ KK05-05-059-002c
पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय । KK05-05-059-003a
द्रोणं कृपं च शल्यं च महाराजं च बाह्लिकम् ॥ KK05-05-059-003c
द्रौणिं च सौमदत्तिं च शकुनिं चापि सौबलम् । KK05-05-059-004a
दुश्शासनं शलं चैव पुरुमित्रं विविंशतिम् ॥ KK05-05-059-004c
विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् । KK05-05-059-005a
विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि पौरवम् ॥ KK05-05-059-005c
सैन्धवं दुस्सहं चैव भूरिश्रवसमेव च । KK05-05-059-006a
भगदत्तं च राजानं जलसन्धं च पौरवम् ॥ KK05-05-059-006c
ये चाप्यन्ये पार्थिवास्तत्र योद्धुं समागताः कौरवाणां प्रियार्थम् । KK05-05-059-007a
मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते समानीता धार्तराष्ट्रेण सूत ॥ KK05-05-059-007c
यथान्यायं कुशलं वन्दनं च समागता मद्वचनेन वाच्याः ॥ KK05-05-059-008ac
इदं ब्रूयाः सञ्जय राजमध्ये दुर्योधनं पापकृतां प्रधानम् । KK05-05-059-009a
अमर्षणं दुर्मतिं राजपुत्रं पापात्मानं धार्तराष्ट्रं सुलुब्धम् । KK05-05-059-009c
सर्वं ममैतद्वचनं समग्रं सहामात्यं सञ्जय श्रावयेथाः ॥ KK05-05-059-009e
एवं परिष्वज्य धनञ्जयो मां ततोऽर्थवद्धर्मवच्चापि वाक्यम् । KK05-05-059-010a
प्रोवाचेदं वासुदेवं समीक्ष्य पार्थो धीमाँल्लोहितान्तायताक्षः ॥ KK05-05-059-010c
यथाश्रुतं ते वदतो महात्मनो यदुप्रवीरस्य वचः समाहितम् । KK05-05-059-011a
तथैव वाच्यं भवतापि मद्वचः समागतेषु क्षितिपेषु सर्वशः ॥ KK05-05-059-011c
शराग्निधूमे रथनेमिनादिते धनुस्स्रुवेणास्त्रबलापहारिणा । KK05-05-059-012a
यथा न होमः क्रियते महामृधे तथा समेत्य प्रयतध्वमादृताः ॥ KK05-05-059-012c
न चेत्प्रयच्छध्वममित्रघातिनो युधिष्ठिरस्यार्धमभीप्सितं स्वकम् । KK05-05-059-013a
नयामि वः साश्वपदातिकुञ्जरान्दिशं पितॄणामशिवां शितैः शरैः ॥ KK05-05-059-013c
ततोऽहमामन्त्र्य चतुर्भुजं हरिं धनञ्जयं चैव नमस्य सत्वरम् । KK05-05-059-014a
जवेन सम्प्राप्त इहामरद्युते तवान्तिकं प्रापयितुं वचो महत् ॥ ॥ KK05-05-059-014c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकोनषष्टितमोऽध्यायः ॥