अध्यायः 058
धृतराष्ट्रेण युद्धस्य भीष्माद्यनभिमतत्वाभिधाने दुर्योधनेन भीष्माद्यनपेक्षणेन कर्णदुश्शासनसहायेन स्वेनैव पाण्डवहननप्रतिज्ञा ॥ 1 ॥ पुनर्धृतराष्ट्रेण दुर्योधनगर्हणम् ॥ 2 ॥
धृतराष्ट्र उवाच KK05-05-058-001
क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः । KK05-05-058-001a
तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥ KK05-05-058-001c
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम । KK05-05-058-002a
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिन्दम ॥ KK05-05-058-002c
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् । KK05-05-058-003a
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिन्दम ॥ KK05-05-058-003c
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् । KK05-05-058-004a
यत्त्वं प्रशान्तिं मन्येथाः पाण्डुपुत्रैर्महात्मभिः ॥ KK05-05-058-004c
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् । KK05-05-058-005a
जात एष तवाभावस्त्वं तु मोहान्न बुद्ध्यसे ॥ KK05-05-058-005c
न त्वहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः । KK05-05-058-006a
न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ॥ KK05-05-058-006c
न सोमदत्तो न शलो न कृपो युद्धमिच्छति । KK05-05-058-007a
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥ KK05-05-058-007c
येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः । KK05-05-058-008a
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ॥ KK05-05-058-008c
न त्वं करोषि कामेन कर्णः कारयिता तव । KK05-05-058-009a
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥ KK05-05-058-009c
दुर्योधन उवाच KK05-05-058-010
नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये । KK05-05-058-010a
न भीष्मे न काम्भोजे न कृपे न च बाह्लिके ॥ KK05-05-058-010c
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः । KK05-05-058-011a
अन्येषु वा तावकेषु भारं कृत्वा समाह्वयम् ॥ KK05-05-058-011c
अहं च तात कर्णश्च रणयज्ञं वितत्य वै । KK05-05-058-012a
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥ KK05-05-058-012c
रथो वेदी स्रुवः खड्गो गदा स्रुक् कवचोऽजिनम् । KK05-05-058-013a
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ॥ KK05-05-058-013c
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे । KK05-05-058-014a
विजित्य च समेष्यावो हतामित्रौ श्रिया वृतौ ॥ KK05-05-058-014c
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे । KK05-05-058-015a
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ॥ KK05-05-058-015c
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् । KK05-05-058-016a
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् ॥ KK05-05-058-016c
त्यक्तं मे जीवितं राज्यं धनं सर्वं च पार्थिव । KK05-05-058-017a
न जातु पाण्डवैः सार्धं वसेयमहमच्युत ॥ KK05-05-058-017c
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष । KK05-05-058-018a
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ KK05-05-058-018c
धृतराष्ट्र उवाच KK05-05-058-019
सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया । KK05-05-058-019a
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥ KK05-05-058-019c
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः । KK05-05-058-020a
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ॥ KK05-05-058-020c
प्रतीपमिव मे भाति युयुधानेन भारती । KK05-05-058-021a
व्यस्ता सीमन्तिनी ग्रस्ता प्रमृष्टा दीर्घबाहुना ॥ KK05-05-058-021c
सम्पूर्णं पूरयन्भूयो धनं पार्थस्य माधवः । KK05-05-058-022a
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ KK05-05-058-022c
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति । KK05-05-058-023a
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ॥ KK05-05-058-023c
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् । KK05-05-058-024a
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ॥ KK05-05-058-024c
तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान् । KK05-05-058-025a
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ॥ KK05-05-058-025c
निर्दग्धं भीमसेनेन सैन्यं रथहयद्विपम् । KK05-05-058-026a
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ॥ KK05-05-058-026c
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः । KK05-05-058-027a
गदया भीमसेनेन हताः शममुपैष्यथ ॥ KK05-05-058-027c
महावनमिव च्छिन्नं यदा द्रक्ष्यसि पातितम् । KK05-05-058-028a
बलं कुरूणां भीमेन तदा स्मर्तासि मे वचः ॥ KK05-05-058-028c
वैशम्पायन उवाच KK05-05-058-029
एतावदुक्त्वा राजा तु सर्वांस्तान्पृथिवीपतीन् । KK05-05-058-029a
अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ॥ ॥ KK05-05-058-029c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टपञ्चाशत्तमोऽध्यायः ॥
5-58-13 चातुर्होत्रं चतुर्णां होतॄणाम् ऋत्विजां समाहारः ॥ 5-58-21 भारती सेना प्रतीपं व्यस्ता सीमन्तिनीव भाति ॥