अध्यायः 057
पृष्टेन सञ्जयेन धृतराष्ट्रम् प्रति पाण्डवसहायानां राज्ञां नामनिर्देशपूर्वकं तैः कुरुसेनागतानां स्वस्ववध्यतया विभजनकथनम् ॥ 1 ॥ दुर्योधनेन सञ्जयवचनश्रवणेन क्रोशन्तं धृतराष्ट्रमाक्षिप्य स्वपक्षीयाणाम् प्रतापप्रशंसनम् ॥ 2 ॥ पुनस्सञ्जयेन धृष्टद्युम्नवचोवचनपूर्वकं युद्धनिषेधनम् ॥ 3 ॥
धृतराष्ट्र उवाच KK05-05-057-001
कांस्तत्र सञ्जयापश्यः प्रीत्यर्थेन समागतान् । KK05-05-057-001a
ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥ KK05-05-057-001c
सञ्जय उवाच KK05-05-057-002
मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् । KK05-05-057-002a
चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥ KK05-05-057-002c
पृथगक्षौहिणीभ्यां तु पाण्डवानभिसंश्रितौ । KK05-05-057-003a
महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥ KK05-05-057-003c
अक्षौहिण्याऽथ पाञ्चाल्यो दशभिस्तनयैर्वृतः । KK05-05-057-004a
सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः । KK05-05-057-004c
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः । KK05-05-057-005a
उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥ KK05-05-057-005c
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च । KK05-05-057-006a
सूर्यदत्तादिभिर्वीरैर्मदिराक्षपुरोगमैः ॥ KK05-05-057-006c
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा । KK05-05-057-007a
अक्षौहिण्यैव सैन्यानां वृतः पार्थं समाश्रितः ॥ KK05-05-057-007c
जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट् । KK05-05-057-008a
पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥ KK05-05-057-008c
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः । KK05-05-057-009a
अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥ KK05-05-057-009c
एतानेतावतस्तत्र तानपश्यं समागतान् । KK05-05-057-010a
ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥ KK05-05-057-010c
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् । KK05-05-057-011a
स तत्र सेनाप्रमुखे धृषटद्युम्नो महारथः ॥ KK05-05-057-011c
भीष्मः शान्तनवो राजन्भागः क्लृप्तः शिखण्डिनः KK05-05-057-012a
तं विराटोऽनुसंयाता सार्धं मत्स्यैः प्रहारिभिः ॥ KK05-05-057-012c
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली । KK05-05-057-013a
तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥ KK05-05-057-013c
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च । KK05-05-057-014a
प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥ KK05-05-057-014c
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः । KK05-05-057-015a
अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥ KK05-05-057-015c
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः । KK05-05-057-016a
सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥ KK05-05-057-016c
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः । KK05-05-057-017a
केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥ KK05-05-057-017c
तेषामेव कृतो भागो मालवाः साल्वकास्तथा । KK05-05-057-018a
त्रिगर्तानां च वै मुख्यौ यौ तौ संशप्तकाविति ॥ KK05-05-057-018c
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च । KK05-05-057-019a
सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥ KK05-05-057-019c
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः । KK05-05-057-020a
धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥ KK05-05-057-020c
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति । KK05-05-057-021a
भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥ KK05-05-057-021c
सहदेवस्तु माद्रेयः शूरः सङ्क्रन्दनो युधि । KK05-05-057-022a
स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥ KK05-05-057-022c
उलूकं चैव कैतव्यं ये च सारस्वता गणाः । KK05-05-057-023a
नकुलः कल्पयामास भागं माद्रवतीसुतः ॥ KK05-05-057-023c
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति सङ्गरे । KK05-05-057-024a
समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥ KK05-05-057-024c
एवमेषामनीकानि प्रविभक्तानि भागशः । KK05-05-057-025a
यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥ KK05-05-057-025c
धृतराष्ट्र उवाच KK05-05-057-026
न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः । KK05-05-057-026a
येषां युद्धं बलवता भीमेन रणमूर्धनि ॥ KK05-05-057-026c
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा । KK05-05-057-027a
गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥ KK05-05-057-027c
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः । KK05-05-057-028a
तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥ KK05-05-057-028c
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः । KK05-05-057-029a
सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः ॥ KK05-05-057-029c
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः । KK05-05-057-030a
योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥ KK05-05-057-030c
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः । KK05-05-057-031a
सात्यकिर्द्रुपदश्चैव धृष्टकेतुश्च सानुजः ॥ KK05-05-057-031c
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः । KK05-05-057-032a
शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥ KK05-05-057-032c
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः । KK05-05-057-033a
विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः ॥ KK05-05-057-033c
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् । KK05-05-057-034a
वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥ KK05-05-057-034c
तान्सर्वगुणसम्पन्नानमनुष्यप्रतापिनः । KK05-05-057-035a
क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ॥ KK05-05-057-035c
दुर्योधन उवाच KK05-05-057-036
उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ । KK05-05-057-036a
अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ॥ KK05-05-057-036c
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् । KK05-05-057-037a
जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥ KK05-05-057-037c
सुतेजसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः । KK05-05-057-038a
अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥ KK05-05-057-038c
सर्वे च पृथिवीपाला मदर्थे तात पाण्डवान् । KK05-05-057-039a
आर्याः शस्त्रभृतः शूराः समर्थाः प्रतिबाधितुम् ॥ KK05-05-057-039c
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् । KK05-05-057-040a
पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥ KK05-05-057-040c
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत । KK05-05-057-041a
ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥ KK05-05-057-041c
महता रथवंशेन शरजालैश्च मामकैः । KK05-05-057-042a
अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥ KK05-05-057-042c
धृतराष्ट्र उवाच KK05-05-057-043
उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय । KK05-05-057-043a
न हि शक्तो रणे जेतुं धर्मराजं युधिष्ठिरम् ॥ KK05-05-057-043c
जानाति हि यथा भीष्मः पाण्डवानां यशस्विनाम् । KK05-05-057-044a
बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥ KK05-05-057-044c
यतो नारोचयदयं विग्रहं तैर्महात्मभिः । KK05-05-057-045a
किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥ KK05-05-057-045c
कस्तांस्तरस्विनो भूयः सन्दीपयति पाण्डवान् । KK05-05-057-046a
अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥ KK05-05-057-046c
सञ्जय उवाच KK05-05-057-047
धृष्टद्युम्नः सदैवैतान्सन्दीपयति भारत । KK05-05-057-047a
युद्ध्यध्वमिति माभैष्ट युद्धाद्भरतसत्तमाः ॥ KK05-05-057-047c
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः । KK05-05-057-048a
युद्धे समागमिष्यन्ति तुमुले शस्त्रसङ्कुले ॥ KK05-05-057-048c
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् । KK05-05-057-049a
अहमेकः समादास्ये तिमिर्मत्स्यानिवोदकात् ॥ KK05-05-057-049c
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् । KK05-05-057-050a
एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥ KK05-05-057-050c
तथा ब्रुवन्तं धर्मात्मा प्राह राजा युधिष्ठिरः । KK05-05-057-051a
तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ॥ KK05-05-057-051c
सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर । KK05-05-057-052a
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् ॥ KK05-05-057-052c
समर्थमेकं पर्याप्तं कौरवाणां विनिग्रहे । KK05-05-057-053a
पुरस्तादुपयातानां कौरवाणां युयुत्सताम् ॥ KK05-05-057-053c
भवत्ता यद्विधातव्यं तन्नः श्रेयः परन्तप । KK05-05-057-054a
सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् ॥ KK05-05-057-054c
पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् । KK05-05-057-055a
क्रीणीयात्तं सहस्रेण इति नीतिमतां मतम् ॥ KK05-05-057-055c
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ । KK05-05-057-056a
भयार्तानां परित्राता संयुगेषु न संशयः ॥ KK05-05-057-056c
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे । KK05-05-057-057a
धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसम् । KK05-05-057-057c
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये ॥ KK05-05-057-057e
सबाह्लिकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः । KK05-05-057-058a
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ॥ KK05-05-057-058c
दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् । KK05-05-057-059a
भीष्मं च ब्रूहि गत्वा त्वमाशु गच्छ च माचिरम् ॥ KK05-05-057-059c
युधिष्ठिरः साधुनैवाभ्युपेयो मा वोऽवधीदर्जुनो देवगुप्तः । KK05-05-057-060a
राज्यं दद्ध्वं धर्मराजस्य तूर्णं याचध्वं वै पाण्डवं लोकवीरम् ॥ KK05-05-057-060c
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन । KK05-05-057-061a
यथाविधः सव्यसाची पाण्डवः सत्यविक्रमः ॥ KK05-05-057-061c
देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः । KK05-05-057-062a
न स जेयो मनुष्येण मा स्म कृद्ध्वं मनो युधि ॥ ॥ KK05-05-057-062c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्तपञ्चाशत्तमोऽध्यायः ॥
5-57-25 अकालिकं कालविलम्बं विना ॥ 5-57-27 प्रोक्षिताः पशुवद्वधार्थं संस्कृताः ॥ 5-57-41 ऐणेयान् हरिणशावान् । तन्तुनापाशेन ॥ 5-57-58 शरद्वतः आयुष्मतः विरुद्धलक्षणया गतायुष इत्यर्थः ॥ 5-57-60 दद्ध्वं ददत ॥ 5-57-62 कृद्ध्वं कुरुध्वम् ॥