अध्यायः 056
सञ्जयेन पाण्डवभावं बुभुत्सुं दुर्योधनम् प्रति तेषां युद्धोत्कण्ठाकथनपूर्वकं तद्रथाश्ववर्णनम् ॥ 1 ॥
दुर्योधन उवाच KK05-05-056-001
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय । KK05-05-056-001a
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥ KK05-05-056-001c
सञ्जय उवाच KK05-05-056-002
अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः । KK05-05-056-002a
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ॥ KK05-05-056-002c
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः । KK05-05-056-003a
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ॥ KK05-05-056-003c
तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा । KK05-05-056-004a
समन्तात्समभिध्याय हृष्यमाणोऽभ्यभाषत । KK05-05-056-004c
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय ॥ KK05-05-056-005a
बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत ॥ KK05-05-056-005c
दुर्योधन उवाच KK05-05-056-006
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् । KK05-05-056-006a
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः ॥ KK05-05-056-006c
सञ्जय उवाच KK05-05-056-007
भौमनः सह शक्रेण बहुचित्रं विशाम्पते । KK05-05-056-007a
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो ॥ KK05-05-056-007c
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया । KK05-05-056-008a
महाधनानि दिव्यानि महान्ति च लघूनि च ॥ KK05-05-056-008c
भीमसेनानुरोधाय हनूमान्मारुतात्मजः । KK05-05-056-009a
आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति ॥ KK05-05-056-009c
सर्वा दिशो योजनमात्रमन्तरं सतिर्यगूर्ध्वं च रुरोध वै ध्वजः । KK05-05-056-010a
न संसज्जेत्तरुभिः संवृतोऽपि तथा हि माया विहिता भौमनेन ॥ KK05-05-056-010c
यथाऽऽकाशे शक्रधनुः प्रकाशते न चैकवर्णं न च वेद्मि किं नु तत् । KK05-05-056-011a
तथा ध्वजो विहितो भौमनेन बह्वाकारं दृश्यते रूपमस्य ॥ KK05-05-056-011c
यथाऽग्निधूमो दिवमेति रुद्ध्वा वर्णान्बिभ्रत्तैजसांश्चित्ररूपान् । KK05-05-056-012a
तथा ध्वजो विहितो भौमनेन न चेद्भारो भविता नोत रोधः ॥ KK05-05-056-012c
श्वेतास्तस्मिन्वातवेगाः सदश्वा दिव्या युक्ताश्चित्ररथेन दत्ताः । KK05-05-056-013a
भुव्यन्तरिक्षे दिवि वा नरेन्द्र येषां गतिर्हीयते नात्र सर्वा । KK05-05-056-013c
शतं यत्तत्पूर्यते नित्यकालं हतंहतं दत्तवरं पुरस्तात् ॥ KK05-05-056-013e
तथा राज्ञो दन्तवर्णा बृहन्तो रथे युक्ता भान्ति तद्वीर्यतुल्याः । KK05-05-056-014a
ऋक्षप्रख्या भीमसेनस्य वाहा रथे वायोस्तुल्यवेगा बभूवुः ॥ KK05-05-056-014c
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा भ्रात्रा दत्ताः प्रीयता फाल्गुनेन । KK05-05-056-015a
भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा मुदा युक्ताः सहदेवं वहन्ति ॥ KK05-05-056-015c
माद्रीपुत्रं नकुलं त्वाजमीढं महेन्द्रदत्ता हरयो वाजिमुख्याः । KK05-05-056-016a
समा वायोर्बलवन्तस्तरस्विनो वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ॥ KK05-05-056-016c
तुल्याश्चैभिर्वयसा विक्रमेण महाजवाश्चित्ररूपाः सदश्वाः । KK05-05-056-017a
सौभद्रादीन्द्रौपदेयान्कुमारान्वहन्त्यश्वा देवदत्ता बृहन्तः ॥ ॥ KK05-05-056-017c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षट्पञ्चाशोऽध्यायः ॥
5-56-3 मन्त्रम् अस्त्रप्रयोजकं जिज्ञासमानः परीक्षितुमिच्छन् ॥ 5-56-7 भौमनो विश्वकर्मा । धाता प्रजापतिः ॥ 5-56-8 ते त्वष्टृशक्रधातारः रूपाणि चक्रुः ॥ 5-56-10 रुरोध स्वतेजसेति शेषः ॥ 5-56-12 भारो रथे रोधः द्वारादौ द्वयमपि न भवेत् ॥ 5-56-13 यत्तत् अश्वानां शतं हतंहतं पुनःपुनः कतिपयाश्वहननेपि भावात् शतं पूर्यते । यतः पुरस्ताद्दत्तवरम् ॥ 5-56-17 देवदत्ताः चित्ररथेन दत्ताः ॥