अध्यायः 055
दुर्योधनेन धृतराष्ट्रम् प्रति कृष्णादिभिः कुरुसमुच्छेदप्रतिज्ञापूर्वकपाण्डवसमाश्वासनश्रवणचकिताय स्वस्मै भीष्मादिभिरभयप्रदानकथनम् ॥ 1 ॥ तथा स्वपरपक्षयोः बलाबलनिरूपणपूर्वकं धृतराष्ट्रम् प्रति समाश्वासनम् ॥ 2 ॥
दुर्योधन उवाच KK05-05-055-001
न भेतव्यं महाराज न शोच्या भवता वयम् । KK05-05-055-001a
समर्थाः स्म पराञ्जेतुं बलिनः समरे विभो ॥ KK05-05-055-001c
वने प्रव्राजितान्पार्थान्यदायान्मधुसूदनः । KK05-05-055-002a
महता बलचक्रेण परराष्ट्रावमर्दिना ॥ KK05-05-055-002c
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः । KK05-05-055-003a
राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥ KK05-05-055-003c
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः । KK05-05-055-004a
व्यगर्हयंश्च सङ्गम्य भवन्तं कुरुभिः सह ॥ KK05-05-055-004c
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् । KK05-05-055-005a
कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥ KK05-05-055-005c
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः । KK05-05-055-006a
भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥ KK05-05-055-006c
श्रुत्वा चैवं मयोक्तास्तु भीष्मद्रोणकृपास्तदा । KK05-05-055-007a
ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥ KK05-05-055-007c
ततः स्थास्यन्ति समये पाण्डवा इति मे मतिः । KK05-05-055-008a
समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥ KK05-05-055-008C
ऋते च विदुरात्सर्वे यूयं वध्या मता मम । KK05-05-055-009a
धृतराष्ट्रस्तु धर्मज्ञो न वध्यः कुरुसत्तमः ॥ KK05-05-055-009c
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः । KK05-05-055-010a
एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥ KK05-05-055-010c
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् । KK05-05-055-011a
प्राणान्वा सम्परित्यज्य प्रतियुध्यामाहे परान् ॥ KK05-05-055-011c
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः । KK05-05-055-012a
युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥ KK05-05-055-012c
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः । KK05-05-055-013a
धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥ KK05-05-055-013c
प्रणिपाते न दोषोस्ति सन्धिर्नः शाश्वतीः समाः । KK05-05-055-014a
पितरं त्वेव शोचामि प्रज्ञानेत्रं जनाधिपम् ॥ KK05-05-055-014c
मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् । KK05-05-055-015a
कृतं हि तव पुत्रैश्च परेषामवरोधनम् । KK05-05-055-015c
मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम ॥ KK05-05-055-015e
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः । KK05-05-055-016a
वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥ KK05-05-055-016c
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत । KK05-05-055-017a
मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियं ॥ KK05-05-055-017c
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप । KK05-05-055-018a
असमर्थाः परे जेतुमस्मान्युधि समास्थितान् ॥ KK05-05-055-018c
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् । KK05-05-055-019a
आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥ KK05-05-055-019c
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः । KK05-05-055-020a
मृते पितर्यतिक्रुद्धो रथेनैकेन भारत ॥ KK05-05-055-020c
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः । KK05-05-055-021a
ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥ KK05-05-055-021c
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे । KK05-05-055-022a
परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ॥ KK05-05-055-022c
इत्येषां निश्चयो ह्यासीत्तत्कालेऽमिततेजसाम् । KK05-05-055-023a
पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ॥ KK05-05-055-023c
अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे । KK05-05-055-024a
छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥ KK05-05-055-024c
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ । KK05-05-055-025a
एकार्थाः सुखदुःखेषु समानीताश्च पार्थिवाः ॥ KK05-05-055-025c
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप । KK05-05-055-026a
मदर्थं पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥ KK05-05-055-026c
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् । KK05-05-055-027a
विलपन्तं बहुविधं भीतं परविकत्थने ॥ KK05-05-055-027c
एषां ह्येकैकशो राज्ञां समर्थं पाण्डवान्प्रति । KK05-05-055-028a
आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥ KK05-05-055-028c
जेतुं समग्रां सेनां मे वासवोऽपि न शक्नुयात् । KK05-05-055-029a
हन्तुमक्षय्यरूपेयं ब्रह्मणोऽपि स्वयम्भुवः ॥ KK05-05-055-029c
युधिष्ठिरः पुरं हित्वा पञ्चग्रामान्स याचते । KK05-05-055-030a
भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे विभो ॥ KK05-05-055-030c
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् । KK05-05-055-031a
तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्सि भारत ॥ KK05-05-055-031c
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन । KK05-05-055-032a
नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥ KK05-05-055-032c
युक्तो दुःखोषितश्चाहं विद्यापारगतस्तथा । KK05-05-055-033a
तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥ KK05-05-055-033c
दुर्योधनसमो नास्ति गदायामिति निश्चयः । KK05-05-055-034a
सङ्कर्षणस्य भवने यत्तदैनमुपावसम् । KK05-05-055-034c
युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि । KK05-05-055-035a
गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥ KK05-05-055-035c
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप । KK05-05-055-036a
स एवैनं नयोद्घोरः क्षिप्रं वैवस्वतक्षयम् ॥ KK05-05-055-036c
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् । KK05-05-055-037a
सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥ KK05-05-055-037c
गदया निहतो ह्याजौ मया पार्थो वृकोदरः । KK05-05-055-038a
विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति ॥ KK05-05-055-038c
गदाप्रहाराभिहतो हिमवानपि पर्वतः । KK05-05-055-039a
सकृन्मया विदीर्येत गिरिः शतसहस्रधा ॥ KK05-05-055-039c
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा । KK05-05-055-040a
दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥ KK05-05-055-040c
तत्ते वृकोदरमयं भयं व्येतु महाहवे । KK05-05-055-041a
व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥ KK05-05-055-041c
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः । KK05-05-055-042a
तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥ KK05-05-055-042c
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा । KK05-05-055-043a
प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥ KK05-05-055-043c
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् । KK05-05-055-044a
समेतास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥ KK05-05-055-044c
समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् । KK05-05-055-045a
कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥ KK05-05-055-045c
शरव्रातैस्तु भीष्मेण शतशो निचितोऽवशः । KK05-05-055-046a
द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥ KK05-05-055-046c
पितामहोऽपि गाङ्गेयः शान्तनोरधि भारत । KK05-05-055-047a
ब्रह्मर्षिसदृशो जज्ञे देवैरपि सुदुःसहः ॥ KK05-05-055-047c
न हन्ता विद्यते चापि राजन्भीष्मस्य कश्चन । KK05-05-055-048a
पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥ KK05-05-055-048c
ब्रह्मर्षेश्च भरद्वाजाद्द्रोणो द्रोण्यामजायत । KK05-05-055-049a
द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ॥ KK05-05-055-049c
कृपश्चाचार्यमुख्योयं महर्षेर्गौतमादपि । KK05-05-055-050a
शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥ KK05-05-055-050c
अयोनिजास्त्रयो ह्येते पिता माता च मातुलः । KK05-05-055-051a
अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ॥ KK05-05-055-051c
सर्व एते महाराज देवकल्पा महारथाः । KK05-05-055-052a
शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥ KK05-05-055-052c
नैतेषामर्जुनः शक्त एकैकं प्रतिवीक्षितुम् । KK05-05-055-053a
सहितास्तु नरव्याघ्रा हनिष्यन्ति धनञ्जयम् ॥ KK05-05-055-053c
भीष्माद्रोणकृपाणां च तुल्यः कर्णो मतो मम । KK05-05-055-054a
अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥ KK05-05-055-054c
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे । KK05-05-055-055a
ते शच्यर्थं महेन्द्रेण याचितः स परन्तपः ॥ KK05-05-055-055c
अमोघया महाराज शक्त्या परमभीमया । KK05-05-055-056a
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः ॥ KK05-05-055-056c
विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् । KK05-05-055-057a
अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः । KK05-05-055-057c
अह्ना ह्येकेन भीष्मोयं प्रयुतं हन्ति भारत । KK05-05-055-058a
तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥ KK05-05-055-058c
संशप्तकानां वृन्दानि क्षत्रियाणां परन्तप । KK05-05-055-059a
अर्जुनं वयमस्मान्वा निहन्यात्कपिकेतनः ॥ KK05-05-055-059c
तांश्चालमिति मन्यन्ते सव्यसाचिवधे धृताः । KK05-05-055-060a
पार्थिवाः स भवांस्तेभ्यो ह्यकस्माद्व्यथते कथम् ॥ KK05-05-055-060c
भीमसेने च निहते कोऽन्यो युध्येत भारत । KK05-05-055-061a
परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ॥ KK05-05-055-061c
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः । KK05-05-055-062a
परेषां सप्त ये राजन्योधाः सारं बलं मतम् ॥ KK05-05-055-062c
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः । KK05-05-055-063a
द्रौणिर्विकर्तनः कर्णः सोमदत्तोथ बाह्लिकः ॥ KK05-05-055-063c
प्राग्ज्योतिषाधिपः शल्य आवन्त्यौ च जयद्रथः । KK05-05-055-064a
दुःशासनो दुर्मखश्च दुःसहश्च विशाम्पते ॥ KK05-05-055-064c
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः । KK05-05-055-065a
शलो भूरिश्रवाश्चैव विकर्णश्च तवात्मजः ॥ KK05-05-055-065c
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः । KK05-05-055-066a
न्यूना परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥ KK05-05-055-066c
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः । KK05-05-055-067a
परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥ KK05-05-055-067c
गुणहीनं परेषां च बहु पश्यामि भारत । KK05-05-055-068a
गुणोदयं बहुगुणमात्मनश्च विशाम्पते ॥ KK05-05-055-068c
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत । KK05-05-055-069a
न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥ KK05-05-055-069c
इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत । KK05-05-055-070a
विवित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ॥ ॥ KK05-05-055-070c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चपञ्चाशत्तशोऽध्यायः ॥
5-55-18 नः अस्माभिः परे चेत् यद्यपि अभिद्रुग्धाः द्रोहविषयं नीताः तथापि न भेतव्यम् ॥ 5-55-33 युक्तोऽभियोगवान् । दुःखोषितः गुरुकुले ॥ 5-55-34 उपावसं शिश्यत्वेन पर्यचरम् । 5-55-59 हन्यामेति वदन्तीति शेषः ॥ 5-55-60 तान् संशप्तकान् अलम् अर्जुनवधे पर्याप्ता इति मन्यन्ते ॥ 5-55-67 त्रिगुणतस्त्र्यंशेन हीनम् । त्रिगुणा त्र्यंशेनाधिका ॥ 5-55-70 विवित्सुः विज्ञातुमिच्छुः । प्राप्तकालानि कर्माणि ॥