अध्यायः 054

सञ्जयेन पाण्डवेषु जयसाधनसामग्रीमभिधाय तेषु धार्तराष्ट्रकृतापकारानुस्मारणपूर्वकं धृतराष्ट्रगर्हणम् ॥ 1 ॥ सञ्जय उवाच KK05-05-054-001
एवमेतन्महाराज यथावदसि भारत । KK05-05-054-001a
युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ॥ KK05-05-054-001c
इदं तु नाभिजानामि तव धीरस्य नित्यशः । KK05-05-054-002a
यत्पुत्रवशमागच्छेस्तत्त्वज्ञः सव्यसाचिनः ॥ KK05-05-054-002c
नैष कालो महाराज तव शश्वत्कृतागसः । KK05-05-054-003a
त्वया ह्येवादितः पार्था निकृता भरतर्षभ ॥ KK05-05-054-003c
पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् । KK05-05-054-004a
आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ॥ KK05-05-054-004c
इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् । KK05-05-054-005a
द्यूतकाले महाराज स्मयसे स्म कुमारवत् ॥ KK05-05-054-005c
परुषाण्युच्यमानांश्च पुरा पार्थानुपेक्षसे । KK05-05-054-006a
कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ॥ KK05-05-054-006c
पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः । KK05-05-054-007a
अथ वीरैर्जितामुर्वीमखिलां प्रत्यपद्यथाः ॥ KK05-05-054-007c
बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता । KK05-05-054-008a
मयेदं कृतमित्येव मन्यसे राजसत्तम ॥ KK05-05-054-008c
ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि । KK05-05-054-009a
आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ॥ KK05-05-054-009c
कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् । KK05-05-054-010a
पाण्डवेषु वने राजन्प्रव्रजत्सु पुनःपुनः ॥ KK05-05-054-010c
प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् । KK05-05-054-011a
अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ॥ KK05-05-054-011c
अस्यतां फाल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् । KK05-05-054-012a
केशवः सर्वभूतानामायुधानां सुदर्शनम् । KK05-05-054-012c
वानरो रोचमानश्च केतुः केतुमतां वरः ॥ KK05-05-054-012e
एवमेतानि स रथो वहते सह यो रणे । KK05-05-054-013a
क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ॥ KK05-05-054-013c
तस्याद्य वसुधा राजन्निखिला भरतर्षभ । KK05-05-054-014a
यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ॥ KK05-05-054-014c
तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् । KK05-05-054-015a
दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ॥ KK05-05-054-015c
न भीमार्जुनयोर्भीता लप्स्यन्ते विजयं विभो । KK05-05-054-016a
तव पुत्रा महाराज राजानश्चानुसारिणः ॥ KK05-05-054-016c
मत्स्यास्त्वामद्य नार्चन्ति पञ्चालाश्च सकेकयाः । KK05-05-054-017a
साल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ॥ KK05-05-054-017c
पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः । KK05-05-054-018a
भक्त्या ह्यस्य विरुध्यन्ते तव पुत्रैः सदैव ते ॥ KK05-05-054-018c
अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा । KK05-05-054-019a
योऽक्लेशयत्पाण्डुपुत्रान्यो विद्वेष्ट्यधुनापि वै ॥ KK05-05-054-019e
सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः । KK05-05-054-020a
तव पुत्रो महाराज नानुशोचितुमर्हसि ॥ KK05-05-054-020c
अपरोक्षं महाराज साक्षाच्चैनं ब्रवीम्यहम् । KK05-05-054-021a
द्यूतकाले मया चोक्तं विदुरेण च धीमता ॥ KK05-05-054-021c
यदिदं ते विलपितं पाण्डवान्प्रति भारत । KK05-05-054-022a
अनीशेनैव राजेन्द्र सर्वमेतन्निरर्थकम् ॥ ॥ KK05-05-054-022c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि चतुःपञ्चाशोऽध्यायः ॥

5-54-3 एष कालः कलनावुद्धिस्तव नैव स्थास्यति ॥ 3 ।