अध्यायः 053

धृतराष्ट्रेण कुरून्प्रति पाण्डवानां बलवत्सहायसम्पन्नत्वादिगुणसमृद्धिकथनपूर्वकं शान्त्यर्थं स्वेन प्रयतनाभिधानम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-05-053-001
यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः । KK05-05-053-001a
तथौभिसरास्तेषां त्यक्तात्मानो जये धृताः ॥ KK05-05-053-001c
त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम । KK05-05-053-002a
पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ॥ KK05-05-053-002c
यश्च सेन्द्रानिमाल्ँलोकानिच्छन्कुर्याद्वशे बली । KK05-05-053-003a
स स्रष्टा जगतः कृष्णः पाण्डवानां जये धृतः ॥ KK05-05-053-003c
समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् । KK05-05-053-004a
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ KK05-05-053-004c
धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः । KK05-05-053-005a
मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ॥ KK05-05-053-005c
युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् । KK05-05-053-006a
यमाभ्यां भीमसेनाच्च भयं मे तात जायते ॥ KK05-05-053-006c
अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा । KK05-05-053-007a
न मे सैन्यास्तरिष्यन्ति ततः क्रोशामि सञ्जय ॥ KK05-05-053-007c
दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी । KK05-05-053-008a
मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ॥ KK05-05-053-008c
मित्रामात्यैः सुसम्पन्नः सम्पन्नो युद्धयोजकैः । KK05-05-053-009a
भ्रातृभिः श्वशुरैर्वीरैरुपपन्नो महारथैः ॥ KK05-05-053-009c
धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः । KK05-05-053-010a
अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः ॥ KK05-05-053-010c
बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः । KK05-05-053-011a
तं सर्वगुणसम्पन्नं समिद्धमिव पावकम् ॥ KK05-05-053-011c
तपन्तमभि को मन्दः पतिष्यति पतङ्गवत् । KK05-05-053-012a
पाण्डवाग्निमनावार्यं मुमूर्षुर्नष्टचेतनः ॥ KK05-05-053-012c
तनुरुच्चः शिखी राजा मिथ्योपचरितो मया । KK05-05-053-013a
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ KK05-05-053-013c
तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत । KK05-05-053-014a
युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ॥ KK05-05-053-014c
एषा मे परमा बुद्धिर्यया शाम्यति मे मनः । KK05-05-053-015a
यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ॥ KK05-05-053-015c
न तु नः क्लिश्यमानानामुपेक्षेत युधिष्ठिरः । KK05-05-053-016a
जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ॥ ॥ KK05-05-053-016c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि त्रिपञ्चाशोऽध्यायः ॥

5-53-1 अभिसराः पुरोगाः ॥ 5-53-10 नैभृत्येन मन्त्रगुप्त्या ॥