अध्यायः 052

धृतराष्ट्रेण अर्जुनप्रतापानुवर्णनपूर्वकम् परिशोचनम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-05-052-001
यस्य वै नानृता वाचः कदाचिदनुशुश्रुम । KK05-05-052-001a
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥ KK05-05-052-001c
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः । KK05-05-052-002a
अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ॥ KK05-05-052-002c
अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः । KK05-05-052-003a
प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ॥ KK05-05-052-003c
द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ । KK05-05-052-004a
कृतास्त्रौ बलिनां श्रेष्ठौ समरेष्वपराजितौ ॥ KK05-05-052-004c
महान्स्यात्संशयो लोके न त्वस्ति विजयो मम । KK05-05-052-005a
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः ॥ KK05-05-052-005c
समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः । KK05-05-052-006a
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ॥ KK05-05-052-006c
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः । KK05-05-052-007a
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥ KK05-05-052-007c
वधे नूनं भवेच्छान्तिस्तयोर्वा फाल्गुनस्य च । KK05-05-052-008a
न तु हन्तार्जुनस्यास्ति जेता चास्य न विद्यते ॥ KK05-05-052-008c
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः । KK05-05-052-009a
अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च । KK05-05-052-009c
एकान्तविजयस्त्वेव श्रूयते फाल्गुनस्य ह ॥ KK05-05-052-009e
त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् । KK05-05-052-010a
जिगाय च सुरान्सर्वान्नास्य विद्मः पराजयम् ॥ KK05-05-052-010c
यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि । KK05-05-052-011a
ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ॥ KK05-05-052-011c
कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः । KK05-05-052-012a
युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुम ॥ KK05-05-052-012c
नैवास्ति नो धनुस्तादृङ्न योद्धा न च सारथिः । KK05-05-052-013a
तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः । KK05-05-052-013c
शेषयेदशनिर्दीप्तो विपतन्मूर्ध्नि सञ्जय । KK05-05-052-014a
न तु शेषं शरास्तात कुर्युरस्ताः किरीटिना ॥ KK05-05-052-014c
अपि चास्यन्निवाभाति निघ्नन्निव धनञ्जयः । KK05-05-052-015a
उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ॥ KK05-05-052-015c
अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः । KK05-05-052-016a
गाण्डीवोत्थं दहेताजौ पुत्राणां मम वाहिनी ॥ KK05-05-052-016c
अपि सा रथघोषेण भयार्ता सव्यसाचिनः । KK05-05-052-017a
वित्रस्ता बहुधा सेना भारती प्रतिभाति मे ॥ KK05-05-052-017c
यथा कक्षं महानग्निः प्रदहेत्सर्वतश्चरन् । KK05-05-052-018a
महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ॥ KK05-05-052-018c
यदोद्वमन्निशितान्बाणसङ्घांस्तानाततायी समरे किरीटी । KK05-05-052-019a
सृष्टोऽन्तकः सर्वहरो विधात्रा यथा भवेत्तद्वदपारणीयः ॥ KK05-05-052-019c
यदा ह्यभीक्ष्णं सुबुहून्प्रकारान्श्रोतास्मि तानावसथे कुरूणाम् । KK05-05-052-020a
तेषां समन्ताच्च तथा रणाग्रे क्षयः किलायं भरतानुपैति ॥ ॥ KK05-05-052-020c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि द्विपञ्चाशोऽध्यायः ॥

5-52-5 प्रमादी अन्ते विद्यां न स्मरिष्यतीति भावः ॥ 5-52-14 अस्ताः क्षिप्ताः ॥