अध्यायः 051

धृतराष्ट्रस्य सञ्जयाग्रे भीमसेनप्रतापानुस्मरणेन परिशोचनम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-05-051-001
सर्व एते महोत्साहा ये त्वया परिकीर्तिताः । KK05-05-051-001a
एकतस्त्वेव ते सर्वे समेता भीम एकतः ॥ KK05-05-051-001c
भीमसेनाद्धि मे भूयो भयं सञ्जायते महत् । KK05-05-051-002a
क्रुद्धादमर्षणात्तात व्याघ्रादिव महारुरोः ॥ KK05-05-051-002c
जागर्मि रात्रयः सर्वा दीर्घमुष्णं च निःश्वसन् । KK05-05-051-003a
भीतो वृकोदरात्तात सिंहात्पशुरिवापरः ॥ KK05-05-051-003c
न हि तस्य महाबाहोः शक्रप्रतिमतेजसः । KK05-05-051-004a
सैन्येऽस्मिन्प्रतिपश्यामि य एनं विषहेद्युधि ॥ KK05-05-051-004c
अमर्षणश्च कौन्तेयो दृढवैरश्च पाण्डवः । KK05-05-051-005a
अनर्महासी सोन्मादस्तिर्यक्प्रेक्षी महास्वनः ॥ KK05-05-051-005c
महावेगो महोत्साहो महाबाहुर्महाबलः । KK05-05-051-006a
मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ KK05-05-051-006c
उरुग्राहगृहीतानां गदां बिभ्रद्वृकोदरः । KK05-05-051-007a
कुरूणामृषभो युद्धे दण्डपाणिरिवान्तकः ॥ KK05-05-051-007c
अष्टाश्रिमायसीं घोरां गदां काञ्चनभूषणाम् । KK05-05-051-008a
मनसाहं प्रपश्यामि ब्रह्मदण्डमिवोद्यतम् ॥ KK05-05-051-008c
यथा मृगाणां यूथेषु सिंहो जातबलश्चरेत् । KK05-05-051-009a
मामकेषु तथा भीमो बलेषु विचरिष्यति ॥ KK05-05-051-009c
सर्वेषां मम पुत्राणां स एकः क्रूरविक्रमः । KK05-05-051-010a
बह्वाशी विप्रतीपश्च बाल्येपि रभसः सदा ॥ KK05-05-051-010c
उद्वेपते मे हृदयं ये मे दुर्योधनादयः । KK05-05-051-011a
बाल्येऽपि तेन युद्ध्यन्तो वारणेनेव मर्दिताः ॥ KK05-05-051-011c
तस्य वीर्येण सङ्क्लिष्टा नित्यमेव सुता मम । KK05-05-051-012a
स एव हेतुर्भेदस्य भीमो भीमपराक्रमः ॥ KK05-05-051-012c
ग्रसमानमनीकानि नरवारणवाजिनाम् । KK05-05-051-013a
पश्यामीवाग्रतो भीमं क्रोधमूर्छितमाहवे ॥ KK05-05-051-013c
अस्त्रे द्रोणार्जुनसमं वायुवेगसमं जवे । KK05-05-051-014a
महेश्वरसमं क्रोधे को हन्याद्भीममाहवे ॥ KK05-05-051-014c
सञ्जयाचक्ष्व मे शूरं भीमसेनममर्षणम् । KK05-05-051-015a
अतिलाभं तु मन्येऽहं यत्तेन रिपुघातिना । KK05-05-051-015c
तदैव न हताः सर्वे पुत्रा मम मनस्विना ॥ KK05-05-051-015e
येन भीमबला यक्षा राक्षसाश्च पुरा हताः । KK05-05-051-016a
कथं तस्य रणे वेगं मानुषः प्रसहिष्यति ॥ KK05-05-051-016c
न स जातु वशे तस्थौ मम बाल्येऽपि सञ्जय । KK05-05-051-017a
किं पुनर्मम दुष्पुत्रैः क्लिष्टः सम्प्रति पाण्डवः ॥ KK05-05-051-017c
निष्ठुरो रोषणोऽत्यर्थं भज्येतापि न सन्नमेत् । KK05-05-051-018a
तिर्यक्प्रेक्षीं संहतभ्रूः कथं शाम्येद्वृकोदरः ॥ KK05-05-051-018c
शूरस्तथाऽप्रतिबलो गौरस्ताल इवोन्नतः । KK05-05-051-019a
प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्जुनात् ॥ KK05-05-051-019c
जवेन वाजिनोऽत्येति बलेनात्येति कुञ्जरान् । KK05-05-051-020a
अव्यक्तजल्पी मध्वक्षो मध्यमः पाण्डवो बली ॥ KK05-05-051-020c
इति बाल्ये श्रुतः पूर्वं मया व्यासमुखात्पुरा । KK05-05-051-021a
रूपतो वीर्यतश्चैव याथातथ्येन पाण्डवः ॥ KK05-05-051-021c
आयसेन स दण्डेन रथान्नागान्नरान्हयान् । KK05-05-051-022a
हनिष्यति रणे क्रुद्धो रौद्रः क्रूरपराक्रमः ॥ KK05-05-051-022c
अमर्षी नित्यसंरब्धो भीमः प्रहरतां वरः । KK05-05-051-023a
मया तात प्रतीपानि कुर्वन्पूर्वं विमानितः ॥ KK05-05-051-023c
निष्कर्णामायसीं स्थूलां सुपार्श्वां काञ्चनीं गदाम् । KK05-05-051-024a
शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥ KK05-05-051-024c
अपारमप्लवागाधं समुद्रं शरवेधनम् । KK05-05-051-025a
भीमसेनमयं दुर्गं तात मन्दास्तितीर्षवः ॥ KK05-05-051-025c
क्रोशतो मे न शृण्वन्ति बालाः पण्डितमानिनः । KK05-05-051-026a
विषमं न हि मन्यन्ते प्रपातं मधुदर्शिनः ॥ KK05-05-051-026c
संयुगे ये गमिष्यन्ति नररूपेण मृत्युना । KK05-05-051-027a
नियतं चोदिता धात्रा सिंहेनेव महामृगाः ॥ KK05-05-051-027c
शैक्यां तात चतुष्किष्कुं षडश्रिममितौजसम् । KK05-05-051-028a
प्रहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥ KK05-05-051-028c
गदां भ्रामयतस्तस्य भिन्दतो हस्तिमस्तकान् । KK05-05-051-029a
सृक्किणी लेलिहानस्य बाष्पमुत्सृजतो मुहुः ॥ KK05-05-051-029c
उद्दिश्य नागान्पततः कुर्वतो भैरवान्रवान् । KK05-05-051-030a
प्रतीपं पततो मत्तान्कुञ्जरान्प्रति गर्जतः ॥ KK05-05-051-030c
विगाह्य रथमार्गेषु वरानुद्दिश्य निघ्नतः । KK05-05-051-031a
अग्नेः प्रज्वलितस्येव अपि मुच्येत मे प्रजा ॥ KK05-05-051-031c
वीथीं कुर्वन्महाबाहुर्द्रावयन्मम वाहिनीम् । KK05-05-051-032a
नृत्यन्निव गदापाणिर्युगान्तं दर्शयिष्यति ॥ KK05-05-051-032c
प्रभिन्न इव मातङ्गः प्रभञ्जन्पुष्पितान्द्रुमान् । KK05-05-051-033a
प्रवेक्ष्यति रणे सेनां पुत्राणां मे वृकोदरः ॥ KK05-05-051-033c
कुर्वन्रथान्विपुरुषान्विसारथिहयध्वजान् । KK05-05-051-034a
आरुजन्पुरुषव्याघ्रो रथिनः सादिनस्तथा ॥ KK05-05-051-034c
गङ्गावेग इवानूपांस्तीरजान्विविधान्द्रुमान् । KK05-05-051-035a
प्रभङ्क्ष्यति रणे सेनां पुत्राणां मम सञ्जय ॥ KK05-05-051-035c
वधं नूनं गमिष्यन्ति भीमसेनभयार्दिताः । KK05-05-051-036a
मम पुत्राश्च भृत्याश्च राजानश्चैव सञ्जय ॥ KK05-05-051-036c
येन राजा महावीर्यः प्रविश्यान्तःपुरं पुरा । KK05-05-051-037a
वासुदेवसहायेन जरासन्धो निपातितः ॥ KK05-05-051-037c
कृत्स्नेयं पृथिवी देवी जरासन्धेन धीमता । KK05-05-051-038a
मागधेन्द्रेण बलिना वशे कृत्वा प्रतापिता ॥ KK05-05-051-038c
भीष्मप्रतापात्कुरवो नयेनान्धकवृष्णयः । KK05-05-051-039a
यन्न तस्य वशे जग्मुः केवलं दैवमेव तत् ॥ KK05-05-051-039c
स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना । KK05-05-051-040a
अनायुधेन वीरेण निहतः किं ततोऽधिकम् ॥ KK05-05-051-040c
दीर्घकालसमासक्तं विषमाशीविषो यथा । KK05-05-051-041a
स मोक्ष्यति रणे तेजः पुत्रेषु मम सञ्जय ॥ KK05-05-051-041c
महेन्द्र इव वज्रेण दानवान्देवसत्तमः । KK05-05-051-042a
भीमसेनो गदापाणिः सूदयिष्यति मे सुतान् ॥ KK05-05-051-042c
अविषह्यमनावार्यं तीव्रवेगपराक्रमम् । KK05-05-051-043a
पश्यामीवातिताम्राक्षमापतन्तं वृकोदरम् ॥ KK05-05-051-043c
अगदस्याप्यधनुषो विरथस्य विवर्मणः । KK05-05-051-044a
बाहुभ्यां युध्यमानस्य कस्तिष्ठेदग्रतः पुमान् ॥ KK05-05-051-044c
भीष्मो द्रोणश्च विप्रोऽयं कृपः शारद्वतस्तथा । KK05-05-051-045a
जानन्त्येते यथैवाहं वीर्यज्ञस्तस्य धीमतः ॥ KK05-05-051-045c
आर्यव्रतं तु जानन्तः सङ्गरान्तं विधित्सवः । KK05-05-051-046a
सेनामुखेषु स्थास्यन्ति मामकानां नरर्षभाः ॥ KK05-05-051-046c
बलीयः सर्वतो दिष्टं पुरुषस्य विशेषतः । KK05-05-051-047a
पश्यन्नपि जयं तेषां न नियच्छामि यत्सुतान् ॥ KK05-05-051-047c
ते पुराणं महेष्वासा मार्गमैन्द्रं समास्थिताः । KK05-05-051-048a
त्यक्ष्यन्ति तुमुले प्राणान्रक्षन्तः पार्थिवं यशः ॥ KK05-05-051-048c
यथैषां मामकास्तात तथैषां पाण्डवा अपि । KK05-05-051-049a
पौत्रा भीष्मस्य शिष्याश्च द्रोणस्य च कृपस्य च ॥ KK05-05-051-049c
ये त्वस्मदाश्रयं किञ्चिद्दत्तमिष्टं च सञ्जय । KK05-05-051-050a
तस्यापचितिमार्यत्वात्कर्तारः स्थविरास्त्रयः ॥ KK05-05-051-050c
आददानस्य शस्त्रं हि क्षत्रधर्मं परीप्सतः । KK05-05-051-051a
निधनं क्षत्रियस्याजौ वरमेवाहुरुत्तमम् ॥ KK05-05-051-051c
स वै शोचामि सर्वान्वै ये युयुत्सन्ति पाण्डवैः । KK05-05-051-052a
विक्रुष्टं विदुरेणादौ तदेतद्भयमागतम् ॥ KK05-05-051-052c
न तु मन्ये विघाताय ज्ञानं दुःखस्य सञ्जय । KK05-05-051-053a
भवत्यतिबलं ह्येतज्ज्ञानस्याप्युपघातकम् ॥ KK05-05-051-053c
ऋषयो ह्यपि निर्मुक्ताः पश्यन्तो लोकसङ्ग्रहान् । KK05-05-051-054a
सुखैर्भवन्ति सुखिनस्तथा दुःखेन दुःखिताः ॥ KK05-05-051-054c
किं पुनर्मोहमासक्तस्तत्र तत्र सहस्रधा । KK05-05-051-055a
पुत्रेषु राज्यदारेषु पौत्रेष्वपि च बन्धुषु ॥ KK05-05-051-055c
संशये तु महत्यस्मिन्किं नु मे क्षममुत्तरम् । KK05-05-051-056a
विनाशं ह्येव पश्यामि कुरूणामनुचिन्तयन् ॥ KK05-05-051-056c
द्यूतप्रमुखमाभाति कुरूणां व्यसनं महत् । KK05-05-051-057a
मन्देनैश्वर्यकामेन लोभात्पापमिदं कृतम् ॥ KK05-05-051-057c
मन्ये पर्यायधर्मोऽयं कालस्यात्यन्तगामिनः । KK05-05-051-058a
चक्रे प्रधिरिवासक्तो नास्य शक्यं पलायितुम् ॥ KK05-05-051-058c
किं नु कुर्यां कथं कुर्यां क्व नु गच्छामि सञ्जय । KK05-05-051-059a
एते नश्यन्ति कुरवो मन्दाः कालवशं गताः ॥ KK05-05-051-059c
अवशोऽहं तदा तात पुत्राणां निहते शते । KK05-05-051-060a
श्रोष्यामि निनदं स्त्रीणां कथं मां मरणं स्पृशेत् ॥ KK05-05-051-060c
यथा निदाघे ज्वलनः समिद्धो दहेत्कक्षं वायुना चोद्यमानः । KK05-05-051-061a
गदाहस्तः पाण्डवो वै तथैव हन्ता मदीयान्सहितोऽर्जुनेन ॥ ॥ KK05-05-051-061c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकपञ्चाशोऽध्यायः ॥

5-51-7 उरुग्राहः महानिर्बन्धस्तेन गृहीतानां वशीकृतानाम् ॥ 5-51-10 रभसः वेगवान् ॥ 5-51-21 पुरा पुराणम् ॥ 5-51-24 निष्कर्णाम् अवक्राम् । शतनिर्ह्रादां महाशब्दवतीम् ॥ 5-51-28 शैक्यां शिक्यस्थाम् ॥ 5-51-35 अनूपान् सजलदेशे स्थितान् ॥ 5-51-44 अगदस्य गदाहीनस्य ॥ 5-51-58 पर्यायधर्मः विपरीतधर्मः । प्रधिर्नेमिः । अस्य कालवशस्य । तृतीयार्थे षष्ठी ॥