अध्यायः 050
धृतराष्ट्रेण पाण्डवानां किमुपजीवनेन रणोद्योग इति पृष्टस्य सञ्जयस्य पाण्डवप्रभावानुस्मरणेन मूर्छा ॥ 1 ॥ लब्धसञ्ज्ञेन सञ्जयेन पाण्डवानां कृष्णानुगृहीतस्वसामर्थ्येन राज्ञां साहाय्येन च समरोद्यम इति कथनम् ॥ 2 ॥
धृतराष्ट्र उवाच KK05-05-050-001
किमसौ पाण्डवो राजा धर्मपुत्रोऽभ्यभाषत । KK05-05-050-001a
श्रुत्वेह बहुलाः सेनाः प्रीत्यर्थं नः समागताः ॥ KK05-05-050-001c
किमसौ चेष्टते सूत योत्स्यमानो युधिष्ठिरः । KK05-05-050-002a
के वास्य भ्रातृपुत्राणां पश्यन्त्याज्ञेप्सवो मुखम् ॥ KK05-05-050-002c
के स्विदेनं वारयन्ति युद्धाच्छाम्येति वा पुनः । KK05-05-050-003a
निकृत्या कोपितं मन्दैर्धर्मज्ञं धर्मचारिणम् ॥ KK05-05-050-003c
सञ्जय उवाच KK05-05-050-004
राज्ञो मुखमुदीक्षन्ते पाञ्चालाः पाण्डवैः सह । KK05-05-050-004a
युधिष्ठिरस्य भद्रं ते स सर्वाननुशास्ति च ॥ KK05-05-050-004c
पृथग्भूताः पाण्डवानां पाञ्चालानां रथव्रजाः । KK05-05-050-005a
आयान्तमभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम् ॥ KK05-05-050-005c
नभः सूर्यमिवोद्यन्तं कौन्तेयं दीप्ततेजसम् । KK05-05-050-006a
पाञ्चालाः प्रतिनन्दन्ति तेजोराशिमिवोदितम् ॥ KK05-05-050-006c
आगोपालाविपालाश्च नन्दमाना युधिष्ठिरम् । KK05-05-050-007a
पाञ्चालाः केकया मत्स्याः प्रतिनन्दति पाण्डवम् ॥ KK05-05-050-007c
ब्राह्मण्यो राजपुत्र्यश्च विशां दुहितरश्च याः । KK05-05-050-008a
क्रीडन्त्योभिसमायान्ति पार्थं सन्नद्धमीक्षितुम् ॥ KK05-05-050-008c
धृतराष्ट्र उवाच KK05-05-050-009
सञ्जयाचक्ष्व येनास्मान्पाण्डवा अभ्ययुञ्जत । KK05-05-050-009a
धृष्टद्युम्नस्य सैन्येन सोमकानां बलेन च ॥ KK05-05-050-009c
वैशम्पायन उवाच KK05-05-050-010
गावल्गणिस्तु तत्पृष्टः सभायां कुरुसंसदि । KK05-05-050-010a
निःश्वस्य सुभृशं दीर्घं मुहुः सञ्चिन्तयन्निव ॥ KK05-05-050-010c
तत्रानिमित्ततो दैवात्सूतं कश्मलमाविशत् । KK05-05-050-011a
तदाचचक्षे विदुरः सभायां राजसंसदि ॥ KK05-05-050-011c
सञ्जयोऽयं महाराज मूर्छितः पतितो भुवि । KK05-05-050-012a
वाचं न सृजते काञ्चिद्धीनप्रज्ञोऽल्पचेतनः ॥ KK05-05-050-012c
धृतराष्ट्र उवाच KK05-05-050-013
अपश्यत्सञ्जयो नूनं कुन्तीपुत्रान्महारथान् । KK05-05-050-013a
तैरस्य पुरुषव्याघ्रैर्भृशमुद्वेजितं मनः ॥ KK05-05-050-013c
वैशम्पायन उवाच KK05-05-050-014
सञ्जयश्चेतनां लब्ध्वा प्रत्याश्वस्येदमब्रवीत् । KK05-05-050-014a
धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥ KK05-05-050-014c
सञ्जय उवाच KK05-05-050-015
दृष्टवानस्मि राजेन्द्र कुन्तीपुत्रान्महारथान् । KK05-05-050-015a
मत्स्यराजगृहावासनिरोधेनावकर्शितान् ॥ KK05-05-050-015c
शृणु र्यैर्हि महाराज पाण्डवा अभ्ययुञ्जत । KK05-05-050-016a
धृष्टद्युम्नेन वीरेण युद्धे वस्तेऽभ्ययुञ्जत ॥ KK05-05-050-016c
यो नैव रोषान्न भयान्न लोभान्नार्थकारणात् । KK05-05-050-017a
न हेतुवादाद्धर्मात्मा सत्यं जह्यात्कदाचन ॥ KK05-05-050-017c
यः प्रमाणं महाराज धर्मे धर्मभृतां वरः । KK05-05-050-018a
अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-018c
यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश्चन । KK05-05-050-019a
यो वै सर्वान्महीपालान्वशे चक्रे धनुर्धरः । KK05-05-050-019c
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् ॥ KK05-05-050-019e
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत । KK05-05-050-020a
यस्य वीर्येण सहसा चत्वारो भुवि पाण्डवाः ॥ KK05-05-050-020c
निःसृत्य जतुगेहाद्वै हिडिम्बात्पुरुषादकात् । KK05-05-050-021a
यश्चैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ KK05-05-050-021c
याज्ञसेनीमथो यत्र सिन्धुराजोपकृष्टवान् । KK05-05-050-022a
तत्रैषामभवद्द्वीपः कुन्तीपुत्रो वृकोदरः ॥ KK05-05-050-022c
यश्च तान्सङ्गतान्सर्वान्पाण्डवान्वारणावते । KK05-05-050-023a
दह्यतो मोचयामास तेन वस्तेऽभ्ययुञ्जत ॥ KK05-05-050-023c
कृष्णायां चरता प्रीतिं येन क्रोधवशा हताः । KK05-05-050-024a
प्रविश्य विषमं घोरं पर्वतं गन्धमादनम् ॥ KK05-05-050-024c
यस्य नागायुतैर्वीर्यं भुजयोः सारमर्पितम् । KK05-05-050-025a
तेन वो भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-025c
कृष्णद्वितीयो विक्रम्य तुष्ट्यर्थं जातवेदसः । KK05-05-050-026a
अजयद्यः पुरा वीरो युध्यमानं पुरन्दरम् ॥ KK05-05-050-026c
यः स साक्षान्महादेवं गिरिशं शूलपाणिनम् । KK05-05-050-027a
तोषयामास युद्धेन देवदेवमुमापतिम् ॥ KK05-05-050-027c
यश्च सर्वान्वशे चक्रे लोकपालान्धनुर्धरः । KK05-05-050-028a
तेन वो विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-028c
यः प्रतीचीं दिशं चक्रे वशे म्लेच्छगणायुताम् । KK05-05-050-029a
स तत्र नकुलो योद्धा चित्रयोधी व्यवस्थितः ॥ KK05-05-050-029c
तेन वो दर्शनीयेन वीरेणातिधनुर्भृता । KK05-05-050-030a
माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-030c
यः काशीनङ्गमगधान्कलिङ्गांश्च युधाजयत् । KK05-05-050-031a
तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-031c
यस्य वीर्येण सदृशाश्चत्वारो भुवि मानवाः । KK05-05-050-032a
अश्वत्थामा धृष्टकेतू रुक्मी प्रद्युम्न एव च ॥ KK05-05-050-032c
तेन वः सहदेवेन युद्धं राजन्महात्ययमम् । KK05-05-050-033a
यवीयसा नृवीरेण माद्रीनन्दिकरेण च ॥ KK05-05-050-033c
तपश्चचार या घोरं काशिकन्या पुरा सती । KK05-05-050-034a
भीष्मस्य वधमिच्छन्ती प्रेत्यापि भरतर्षभ ॥ KK05-05-050-034c
पाञ्चालस्य सुता जज्ञे दैवाच्च स पुनः पुमान् । KK05-05-050-035a
स्त्रीपुंसोः पुरुषव्याघ्र यः स वेद गुणागुणान् ॥ KK05-05-050-035c
यः कलिङ्गान्समापेदे पाञ्चाल्यो युद्धदुर्मदः । KK05-05-050-036a
शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥ KK05-05-050-036c
यं यक्षः पुरुषं चक्रे भीष्मस्य निधनेच्छया । KK05-05-050-037a
महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-037c
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः । KK05-05-050-038a
आमुक्तकवचाः शूरास्तैश्च वस्तेऽभ्ययुञ्जत ॥ KK05-05-050-038c
यो दीर्घबाहुः क्षिप्रास्त्रो धृतिमान्सत्यविक्रमः । KK05-05-050-039a
तेन वो वृष्णिवीरेण युयुधानेन सङ्गरः ॥ KK05-05-050-039c
य आसीच्छरणं काले पाण्डवानां महात्मनाम् । KK05-05-050-040a
रणे तेन विराटेन भविता वः समागमः ॥ KK05-05-050-040c
यः स काशिपती राजा वाराणस्यां महारथः । KK05-05-050-041a
स तेषामभवद्योद्धा तेन वस्तेऽभ्ययुञ्जत ॥ KK05-05-050-041c
शिशुभिर्दुर्जयैः सङ्ख्ये द्रौपदेयैर्महात्मभिः । KK05-05-050-042a
आशीविषसमस्पर्शैः पाण्डवा अभ्ययञ्जत ॥ KK05-05-050-042c
यः कृष्णसदृशो वीर्ये युधिष्ठिरसमो दमे । KK05-05-050-043a
तेनाभिमन्युना सङ्ख्ये पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-043c
यश्चैवाप्रतिमो वीर्ये धृष्टकेतुर्महायशाः । KK05-05-050-044a
दुःसहः समरे क्रुद्धः शैशुपालिर्महारथः ॥ KK05-05-050-044c
तेन वश्चेदिराजेन पाण्डवा अभ्ययुञ्जत । KK05-05-050-045a
अक्षौहिण्या परिवृतः पाण्डवान्योभिसंश्रितः ॥ KK05-05-050-045c
यः संश्रयः पाण्डवानां देवानामिव वासवः । KK05-05-050-046a
तेन वो वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥ KK05-05-050-046c
यथा चेदिपतेर्भ्राता शरभो भरतर्षभ । KK05-05-050-047a
करकर्षेण सहितस्ताभ्यां वस्तेऽभ्ययुञ्जत ॥ KK05-05-050-047c
जारासन्धिः सहदेवो जयत्सेनश्च तावुभौ । KK05-05-050-048a
युद्धे प्रतिरथे वीरौ पाण्डवार्थे व्यवस्थितौ ॥ KK05-05-050-048c
द्रुपदश्च महातेजा बलेन महता वृतः । KK05-05-050-049a
त्यक्तात्मा पाण्डवार्थाय योत्स्यमानो व्यवस्थितः ॥ KK05-05-050-049c
एते चान्ये च बहवः प्राच्योदीच्या महीक्षितः । KK05-05-050-050a
शतशो यानुपाश्रित्य धर्मराजो व्यवस्थितः ॥ ॥ KK05-05-050-050c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चाशोऽध्यायः ॥
5-50-47 करकर्षेण करकर्षसञ्ज्ञेन भ्रात्रा ॥