अध्यायः 049
भीष्मेण दुर्योधनम् प्रति कृष्णार्जुनयोः नरनारायणतादात्म्यकथनपूर्वकं तद्विरोधे कुरूणां विनाशकथनम् ॥ 1 ॥ तथा मर्मोद्घाटनपूर्वकं कर्णगर्हणम् ॥ 2 ॥ धृतराष्ट्रेण भीष्मद्रोणवचनानादरणे सर्वकुरूणां स्वजीवितनैराश्याधिगमः ॥ 3 ॥
वैशम्पायन उवाच KK05-05-049-001
समवेतेषु सर्वेषु तेषु राजसु भारत । KK05-05-049-001a
दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ KK05-05-049-001c
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ । KK05-05-049-002a
मरुतश्च सहेन्द्रेण वसवश्चाग्रिना सह ॥ KK05-05-049-002c
आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि । KK05-05-049-003a
विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥ KK05-05-049-003c
नमस्कृत्योपजग्मुस्ते लोकवृद्धं पितामहम् । KK05-05-049-004a
परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥ KK05-05-049-004c
तेषां मनश्च तेजश्चाप्याददानाविवौजसा । KK05-05-049-005a
पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥ KK05-05-049-005c
बृहस्पतिस्तु पप्रच्छ ब्रह्माणं काविमाविति । KK05-05-049-006a
भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥ KK05-05-049-006c
ब्रह्मोवाच KK05-05-049-007
यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ । KK05-05-049-007a
ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥ KK05-05-049-007c
नरनारायणावेतौ लोकाल्लोकं समास्थितौ । KK05-05-049-008a
ऊर्जितौ स्वेन तपसा महासत्वपराक्रमौ ॥ KK05-05-049-008c
एतौ हि कर्मणा लोकं नन्दयामासतुर्ध्रुवम् । KK05-05-049-009a
द्विधाभूतौ महाप्राज्ञौ विद्धि ब्रह्मन्परन्तपौ । KK05-05-049-009c
असुराणां विनाशाय देवगन्धर्वपूजितौ ॥ KK05-05-049-009e
वैशम्पायन उवाच KK05-05-049-010
जगाम शक्रस्तच्छ्रत्वा यत्र तौ तेपतुस्तपः । KK05-05-049-010a
सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥ KK05-05-049-010c
तदा देवासुरे युद्धे भये जाते दिवौकसाम् । KK05-05-049-011a
अयाचत महात्मानौ नरनारायणौ वरम् ॥ KK05-05-049-011c
तावब्रूतां वृणीष्वेति तदा भरतसत्तम । KK05-05-049-012a
अथैतावब्रवीच्छकः साह्यं नः क्रियतामिति ॥ KK05-05-049-012c
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि । KK05-05-049-013a
ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥ KK05-05-049-013c
नर इन्द्रस्य सङ्ग्रामे हत्वा शत्रून्परन्तपः । KK05-05-049-014a
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ KK05-05-049-014c
एष भ्रान्ते रथे तिष्ठन्भल्लेनापाहरच्छिरः । KK05-05-049-015a
जम्भस्य ग्रसमानस्य तदा ह्यर्जुन आहवे ॥ KK05-05-049-015c
एष पारे समुद्रस्य हिरण्यपुरमारुजत् । KK05-05-049-016a
हत्वा षष्टिं सहस्राणि निवातकवचान्रणे ॥ KK05-05-049-016c
एष देवान्सहेन्द्रेण जित्वा परपुरञ्जयः । KK05-05-049-017a
अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ॥ KK05-05-049-017c
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह । KK05-05-049-018a
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ॥ KK05-05-049-018c
वासुदेवार्जुनौ वीरौ समवेतौ महारथौ । KK05-05-049-019a
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ॥ KK05-05-049-019c
अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः । KK05-05-049-020a
एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः । KK05-05-049-020c
नारायणो नरश्चैव सत्त्वमेकं द्विधा कृतम् ॥ KK05-05-049-020e
एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् । KK05-05-049-021a
तत्रतत्रैव जायेते युद्धकाले पुनःपुनः ॥ KK05-05-049-021c
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः । KK05-05-049-022a
एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥ KK05-05-049-022c
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् । KK05-05-049-023a
पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥ KK05-05-049-023c
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ । KK05-05-049-024a
दुर्योधन तदा तात स्मर्तासि वचनं मम ॥ KK05-05-049-024c
नोचेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः । KK05-05-049-025a
अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥ KK05-05-049-025c
न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् । KK05-05-049-026a
तवैव हि मतं सर्वे कुरवः पर्युपासते ॥ KK05-05-049-026c
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे । KK05-05-049-027a
रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥ KK05-05-049-027c
दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च । KK05-05-049-028a
तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥ KK05-05-049-028c
कर्ण उवाच KK05-05-049-029
नैवमायुष्मता वाच्यं यन्मामात्थ पितामह । KK05-05-049-029a
क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥ KK05-05-049-029c
किञ्चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे । KK05-05-049-030a
न हि मे वृजिनं किञ्चिद्धार्तराष्ट्रा विदुः क्वचित् ॥ KK05-05-049-030c
नाचरं वृजिनं किञ्चिद्धार्तराष्ट्रस्य नित्यशः । KK05-05-049-031a
अहं हि पाण्डवान्सर्वान्हनिष्यामि रणे स्थितान् ॥ KK05-05-049-031c
प्राग्विरुद्धैः शमं सद्भिः कथं वा क्रियते पुनः । KK05-05-049-032a
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया । KK05-05-049-032c
तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥ KK05-05-049-032e
वैशम्पायन उवाच KK05-05-049-033
कर्णस्य तु वचः श्रुत्वा भीष्मः शान्तनवः पुनः । KK05-05-049-033a
धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥ KK05-05-049-033c
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति । KK05-05-049-034a
नायं कलापि सम्पूर्णा पाण्डवानां महात्मनाम् ॥ KK05-05-049-034c
अनयो योयमागन्ता पुत्राणां ते दुरात्मनाम् । KK05-05-049-035a
तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥ KK05-05-049-035c
एतमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः । KK05-05-049-036a
अवामन्यत तान्वीरान्देवपुत्रानरिन्दमान् ॥ KK05-05-049-036c
किञ्चाप्येतेन तत्कर्म कृतपूर्वं सुदुष्करम् । KK05-05-049-037a
तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ॥ KK05-05-049-037c
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् । KK05-05-049-038a
धनञ्जयेन विक्रम्य किमनेन तदा कृतम् ॥ KK05-05-049-038c
'सर्वे ह्यस्त्रिविदः शूराः सर्वे प्राप्ता महद्यशः । KK05-05-049-039a
अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ॥' KK05-05-049-039c
सहितान्हि कुरून्सर्वानभियातो धनञ्जयः । KK05-05-049-040a
प्रमथ्य चाच्छिनद्वासः किमयं प्रोषितस्तदा ॥ KK05-05-049-040c
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव । KK05-05-049-041a
क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥ KK05-05-049-041c
ननु तत्रापि भीमेन पार्थेन च महात्मना । KK05-05-049-042a
यमाभ्यामेव सङ्गम्य गन्धर्वास्ते पराजिताः ॥ KK05-05-049-042c
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ । KK05-05-049-043a
विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥ KK05-05-049-043c
वैशम्पायन उवाच KK05-05-049-044
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामताः । KK05-05-049-044a
धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ॥ KK05-05-049-044c
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप । KK05-05-049-045a
न काममवलिप्तानां वचनं कर्तुमर्हसि ॥ KK05-05-049-045c
पुरा युद्धात्साधु मन्ये पाण्डवैः सह सङ्गतम् । KK05-05-049-046a
यद्वाक्यमर्जुनेनोक्तं सञ्जयेन निवेदितम् ॥ KK05-05-049-046c
सर्वं तदभिजानामि करिष्यति च पाण्डवः । KK05-05-049-047a
न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥ KK05-05-049-047c
वैशम्पायन उवाच KK05-05-049-048
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः । KK05-05-049-048a
ततः स सञ्जयं राजा पर्यपृच्छत पाण्डवान् ॥ KK05-05-049-048c
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् । KK05-05-049-049a
भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥ ॥ KK05-05-049-049c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकोनपञ्चाशोऽध्यायः ॥
5-49-16 आरुजत् पीडितवान् ॥ 5-49-41 वृषायते कर्णो भवति ॥