अध्यायः 048

सञ्जयेन धृतराष्ट्रम् प्रति श्रीकृष्णमहिमादिप्रतिपादकानामर्जुनवचसां विस्तरेण कथनम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-05-048-001
पृच्छामि त्वां सञ्जय राजमध्ये किमब्रवीद्वाक्यमदीनसत्वः । KK05-05-048-001a
धनञ्जयस्तात युधां प्रेणता दुरात्मनां जीवितच्छिन्महात्मा ॥ KK05-05-048-001c
सञ्जय उवाच KK05-05-048-002
दुर्योधनो वाचमिमां शृणोतु यदब्रवीदर्जुनो योत्स्यमानः । KK05-05-048-002a
युधिष्ठिरस्यानुमते महात्मा धनञ्जयः शृण्वतः केशवस्य ॥ KK05-05-048-002c
अवित्रस्तो बाहुवीर्यं विजानन्नुपह्वरे वासुदेवस्य धीरः । KK05-05-048-003a
अवोचन्मां योत्स्यमानः किरीटी मध्ये ब्रूया धार्तराष्ट्रं कुरूणाम् ॥ KK05-05-048-003c
संशृण्वतस्तस्य दुर्भाषिणो वै दुरात्मनः सूतपुत्रस्य सूत । KK05-05-048-004a
यो योद्धुमाशंसति मां सदैव मन्दप्रज्ञः कालपक्वोऽतिमूढः ॥ KK05-05-048-004c
ये वै राजानः पाण्डवायोधनाय समानीताः शृण्वतां चापि तेषाम् । KK05-05-048-005a
यथा समग्रं वचनं मयोक्तं सहामात्यं श्रावयेथा नृपं तत् ॥ KK05-05-048-005c
यथा नूनं देवराजस्य देवाः शुश्रूषन्ते वज्रहस्तस्य सर्वे । KK05-05-048-006a
तथाऽशृण्वन्पाण्डवाः सृञ्जयाश्च किरीटिना वाचमुक्तां समर्थाम् ॥ KK05-05-048-006c
इत्यब्रवीदर्जुनो योत्स्यमानो गाण्डीवधन्वा लोहितपद्मनेत्रः । KK05-05-048-007a
न चेद्राज्यं मुञ्चति धार्तराष्ट्रो युधिष्ठिरस्याजमीढस्य राज्ञः ॥ KK05-05-048-007c
अस्ति नूनं कर्म कृतं पुरस्तादनिर्विष्टं पापकं धार्तराष्ट्रैः । KK05-05-048-008a
येषां युद्धं भीमसेनार्जुनाभ्यां तथाश्विभ्यां वासुदेवेन चैव ॥ KK05-05-048-008c
शैनेयेन ध्रुवमात्तायुधेन धृष्टद्युम्नेनाथ शिखण्डिना च । KK05-05-048-009a
युधिष्ठिरेणेन्द्रकल्पेन चैव योऽपध्यानान्निर्दहेद्गां दिवं च ॥ KK05-05-048-009c
तैश्चेद्योद्धुं मन्यते धार्तराष्ट्रो निर्वृत्तोऽर्थः सकलः पाण्डवानाम् । KK05-05-048-010a
मा तत्कार्षीः पाण्डवस्यार्थहेतोरुपैहि युद्धं यदि मन्यसे त्वम् ॥ KK05-05-048-010c
यां तां वने दुःखशय्यामवात्सीत्प्रव्राजितः पाण्डवो धर्मचारी । KK05-05-048-011a
आप्नोतु तां दुःखतरामनर्थामन्त्यां शय्यां धार्तराष्ट्रः परासुः ॥ KK05-05-048-011c
ह्रिया ज्ञानेन तपसा दमेन शौर्येणाथो धर्मगुप्त्या धनेन । KK05-05-048-012a
अन्यायवृत्तिः कुरु पाण्डवे यानध्यातिष्ठद्धार्तराष्ट्रो दुरात्मा ॥ KK05-05-048-012c
मायोपधं प्रतिधानार्जवाभ्यां तपोदमाभ्यां धर्मगुप्त्या बलेन । KK05-05-048-013a
सत्यं ब्रुवन्प्रतिपन्नो नृपो नस्तितिक्षमाणः क्लिश्यमानोऽतिवेलम् ॥ KK05-05-048-013c
यदा ज्येष्ठः पाण्डवः संशितात्मा क्रोधं यत्तं वर्षपूगान्सुघोरम् । KK05-05-048-014a
अवस्रष्टा कुरुषूद्वृत्तचेतास्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-014c
कृष्णवर्त्मेव ज्वलितः समिद्धो यथा दहेत्कक्षमग्निर्निदाघे । KK05-05-048-015a
एवं दग्धा धार्तराष्ट्रस्य सेनां युधिष्ठिरः क्रोधदीप्तोन्ववेक्ष्य ॥ KK05-05-048-015c
यदा द्रष्टा भीमसेनं रथस्यं गदाहस्तं क्रोधविषं वमन्तम् । KK05-05-048-016a
अमर्षणं पाण्डवं भीमवेगं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-016c
सेनाग्रगं दंशितं भीमसेनं सुलक्षणं वीरहणं परेषाम् । KK05-05-048-017a
घ्नन्तं चमूमन्तकसन्निकाशं तदा स्मर्ता वचनस्यातिमानी ॥ KK05-05-048-017c
यदा द्रष्टा भीमसेनेन नागान्निपातितान्गिरिकूटप्रकाशान् । KK05-05-048-018a
कुम्भैरिवासृग्वमतो भिन्नकुम्भांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-018c
महासिंहो गा इव सम्प्रविश्य गदापाणिर्धार्तराष्ट्रानुपेत्य । KK05-05-048-019a
यदा भीमो भीमरूपो निहन्ता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-019c
महाभये वीतभयः कृतास्त्रः समागमे शत्रुबलावमर्दी । KK05-05-048-020a
सकृद्रथेनाप्रतिमान्रथौघान्पदातिसङ्घान्गदयाभिनिघ्नन् ॥ KK05-05-048-020c
सैन्याननेकांस्तरसा विगृह्णन्यदा छेत्ता धार्तराष्ट्रस्य सैन्यम् । KK05-05-048-021a
छिन्दन्वनं परशुनेव शूरस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-021c
तृणप्रायं ज्वलनेनेव दग्धं ग्रामं यथा धार्तराष्ट्रान्समीक्ष्य । KK05-05-048-022a
पक्वं सस्यं वैद्युतेनेव दग्धं परासिक्तं विपुलं स्वं बलौघम् ॥ KK05-05-048-022c
हतप्रवीरं विमुखं भयार्तं पराङ्मुखं प्रायशोऽनष्टयोधम् । KK05-05-048-023a
शस्त्रार्चिषा भिमसेनेन दग्धं तदा युद्धं धार्तराष्ट्रोऽन्वतप्त्सत् ॥ KK05-05-048-023c
उपासङ्गानाचरेद्दक्षिणेन वराङ्गानां नकुलश्चित्रयोधी । KK05-05-048-024a
यदा रथाग्र्यो रथिनः प्रचेता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-024c
सुखोचितो दुःखशय्यां वनेषु दीर्घं कालं नकुलो यामशेत । KK05-05-048-025a
आशीविषः क्रुद्ध इवोद्वमन्विषं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-025c
त्यक्तात्मानः पार्थिवायोधनाय समादिष्टा धर्मराजेन सूत । KK05-05-048-026a
रथैः शुभ्रैः सैन्यमभिद्रवन्तो दृष्ट्वा पश्चात्तप्स्यते धार्तराष्ट्रः ॥ KK05-05-048-026c
शिशून्कृतास्त्रानशिशुप्रकाशान्यदा द्रष्टा कौरवः पञ्च शूरान् । KK05-05-048-027a
त्यक्त्वा प्राणान्कौरवानाद्रवन्तस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-027c
यथा शक्रो दानवनाशनार्थं सुवर्णतारं रथमुत्तमाश्वैः । KK05-05-048-028a
दान्तैर्युक्तं सहदेवोऽधिरूढः शिरांसि राज्ञां क्षेप्स्यते मार्गणौघैः ॥ KK05-05-048-028c
महाभये सम्प्रवृत्ते रथस्थं विवर्तमानं समरे कृतास्त्रम् । KK05-05-048-029a
सर्वा दिशः सम्पतन्तं समीक्ष्य तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-029c
ह्रीनिषेवो निपुणः सत्यवादी महाबलः सर्वधर्मोपपन्नः । KK05-05-048-030a
गान्धारिमार्छंस्तुमुले क्षिप्रकारी क्षेप्ता जनान्सहदेवस्तरस्वी ॥ KK05-05-048-030c
यदा द्रष्टा द्रौपदेयान्महेषून्शूरान्कृतास्त्रान्रथयुद्धकोविदान् । KK05-05-048-031a
आशीविषान्घोरविषानिवायतस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-031c
यदाभिमन्युः परवीरघाती शरैः परान्मेघ इवाभिवर्षन् । KK05-05-048-032a
विगाहिता कृष्णसमः कृतास्त्रस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-032c
यदा द्रष्टा बालमबालवीर्यं द्विषच्चमूं मृत्युमिवोत्पतन्तम् । KK05-05-048-033a
सौभद्रमिन्द्रप्रतिमं कृतास्त्रं तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-033c
प्रभद्रकाः शीघ्रतरा युवानो विशारदाः सिंहसमानवीर्याः । KK05-05-048-034a
यदा क्षेप्तारो धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-034c
वृद्धौ विराटद्रुपदौ महारथौ पृथक्चमूभ्यामभिवर्तमानौ । KK05-05-048-035a
यदा द्रष्टारौ धार्तराष्ट्रान्ससैन्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-035c
यदा कृतास्त्रो द्रुपदः प्रचिन्वन्शिरांसि यूनां समरे रथस्थः । KK05-05-048-036a
क्रुद्धः शरैश्छेत्स्यति चापमुक्तैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-036c
यदा विराटः परवीरघाती रथान्तरे शत्रुचमूं प्रवेष्टा । KK05-05-048-037a
मात्स्यैः सार्धमनृशंसरूपैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-037c
ज्येष्ठं मात्स्यमनृसंसार्यरूपं विराटपुत्रं रथिनं पुरस्तात् । KK05-05-048-03a8
यदा द्रष्टा दंशितं पाण्डवार्थे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-038c
रणे हते कौरवाणां प्रवीरे शिखण्डिना शन्तनोर्वै तनूजे । KK05-05-048-039a
न जातु नः शत्रवो धारयेयुरसंशयं सत्यमेतद्ब्रवीमि ॥ KK05-05-048-039c
यदा शिखण्डी रथिनः प्रचिन्वन्भीष्मं रथेनाभियाता वरूथी । KK05-05-048-040a
दिव्यैर्हयैरवमृद्नन् रथौघांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-040c
यदा द्रष्टा सृञ्जयानामनीके धृष्टद्नुम्नं प्रमुखे रोचमानम् । KK05-05-048-041a
अस्त्रं यस्मै गुह्यमुवाच धीमान्द्रोणस्तदा तप्स्यति धार्तराष्ट्रः ॥ KK05-05-048-041c
यदा स सेनापतिरप्रमेयः परामृद्नन्निषुभिर्धार्तराष्ट्रान् । KK05-05-048-042a
द्रोणं रणे शत्रुसहोभियाता तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-042c
ह्रीमान्मनीषी बलवान्मनस्वी स लक्ष्मीवान्सोमकानां प्रबर्हः । KK05-05-048-043a
न जातु तं शत्रवोऽन्ये सहेरन्येषां स स्यादग्रणीर्वृष्णिसिंहः ॥ KK05-05-048-043c
इदं च ब्रूया मा वृणीष्वेति लोके युद्धेऽद्वितीयं सचिवं रथस्थम् । KK05-05-048-044a
शिनेर्नप्तारं प्रवृणीम सात्यकिं महाबलं वीतभयं कृतास्त्रम् ॥ KK05-05-048-044c
महोरस्को दीर्घबाहुः प्रमाथी युद्धेऽद्वितीयः परमास्त्रवेदी । KK05-05-048-045a
शिनेर्नप्ता तालमात्रायुधोऽयं महारथो वीतभयः कृतास्त्रः ॥ KK05-05-048-045c
यदा शिनीनामधिपो मयोक्तः शरैः परान्मेघ इव प्रवर्षन् । KK05-05-048-046a
प्रच्छादयिष्यत्यरिहा योधमुख्यांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-046c
यदा धृतिं कुरुते योत्स्यमानः स दीर्घबाहुर्दृढधन्वा महात्मा । KK05-05-048-047a
सिंहस्येव गन्धमाघ्राय गावः सञ्चेष्टन्ते शत्रवोऽस्माद्रणाग्रे ॥ KK05-05-048-047c
स दीर्घबाहुर्दृढधन्वा महात्मा भिन्द्याद्गिरीन्संहरेत्सर्वलोकान् । KK05-05-048-048a
अस्त्रे कृती निपुणः क्षिप्रहस्तो दिवि स्थितः सूर्य इवाभिभाति ॥ KK05-05-048-048c
चित्रः सूक्ष्मः सुकृतो यादवस्य अस्त्रे योगो वृष्णिसिंहस्य भूयान् । KK05-05-048-049a
यथाविधं योगमाहुः प्रशस्तं सर्वैर्गुणैः सात्यकिस्तैरुपेतः ॥ KK05-05-048-049c
हिरण्मयं श्वेतहयैश्चतुर्भिर्यदा युक्तं स्यन्दनं माधवस्य । KK05-05-048-050a
द्रष्टा युद्धे सात्यकेर्धार्तराष्ट्रस्तदा तप्स्यत्यकृतात्मा स मन्दः ॥ KK05-05-048-050c
यदा रथं हेममणिप्रकाशं श्वेताश्वयुक्तं वानरकेतुमुग्रम् । KK05-05-048-051a
दृष्ट्वा ममाप्यास्थितं केशवेन तदा तप्स्यत्यकृतात्मा स मन्दः ॥ KK05-05-048-051c
यदा मौर्व्यास्तलनिष्पेषमुग्रं महाशब्दं वज्रनिष्पेषतुल्यम् । KK05-05-048-052a
विधूयमानस्य महारणे मया स गाण्डिवस्य श्रोष्यति मन्दबुद्धिः ॥ KK05-05-048-052c
तदा मूढो धृतराष्ट्रस्य पुत्रस्तप्ता युद्धे दुर्मतिर्दुःसहायः । KK05-05-048-053a
दृष्ट्वा सैन्यं बाणवर्षान्धकारे प्रभज्यन्तं गोकुलवद्रणाग्रे ॥ KK05-05-048-053c
बलाहकादुच्चरतः सुभीमान्विद्युत्स्फुलिङ्गानिव घोररूपान् । KK05-05-048-054a
सहस्रघ्नान्द्विषतां सङ्गरेषु अस्थिच्छिदो मर्मभिदः सुपुङ्खान् ॥ KK05-05-048-054c
यदा द्रष्टा ज्यामुखाद्बाणसङ्घान्गाण्डीवमुक्तानापततः शिताग्रान् । KK05-05-048-055a
हयान्गजान्वर्मिणश्चाददानांस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-055c
यदा मन्दः परबाणान्विमुक्तान्ममेषुभिर्ह्रियमाणान्प्रतीपम् । KK05-05-048-056a
तिर्यग्विध्य च्छिद्यमानान्पृषत्कैस्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-056c
यदा विपाठा मद्भुजविप्रमुक्ता द्विजाः फलानीव महीरुहाग्रात् । KK05-05-048-057a
प्रचेतार उत्तमाङ्गानि यूनां तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-057c
यदा द्रष्टा पततः स्यन्दनेभ्यो महागजेभ्योऽश्वगतान्सुयोधनान् । KK05-05-048-058a
शरैर्हतान्पातितांश्चैव रङ्गे तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-058c
असम्प्राप्तानस्त्रपथं परस्य यदा द्रष्टा नश्यतो धार्तराष्ट्रान् । KK05-05-048-059a
अकुर्वतः कर्म युद्धे समन्तात्तदा युद्धं धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-059c
पदातिसङ्घान्रथसङ्घान्समन्ताद्व्यात्ताननः काल इवाततेषुः । KK05-05-048-060a
प्रणोत्स्यामि ज्वलितैर्बाणवर्षैः शत्रूंस्तदा तप्स्यति मन्दबुद्धिः ॥ KK05-05-048-060c
सर्वा दिशः सम्पतता रथेन रजोध्वस्तं गाण्डिवेन प्रकृत्तम् । KK05-05-048-061a
यदा द्रष्टा स्वबलं सम्प्रमूढं तदा पश्चात्तप्स्यति मन्दबुद्धिः ॥ KK05-05-048-061c
कान्दिग्भूतं छिन्नगात्रं विसञ्ज्ञं दुर्योधनो द्रक्ष्यति सर्वसैन्यम् । KK05-05-048-062a
हताश्ववीराग्र्यनरेन्द्रनागं पिपासितं श्रान्तपत्रं भयार्तम् ॥ KK05-05-048-062c
आर्तस्वरं हन्यमानं हतं च विकीर्णकेशास्थिकपालसङ्घम् । KK05-05-048-063a
प्रजापतेः कर्म यथार्थनिष्ठितं तदा दृष्ट्वा तप्स्यति मन्दबुद्धिः ॥ KK05-05-048-063c
यदा रथे गाण्डिवं वासुदेवं दिव्यं शङ्खं पाञ्चजन्यं हयांश्च । KK05-05-048-064a
तूणावक्षय्यौ देवदत्तं च मां च दृष्ट्वा युद्धे धार्तराष्ट्रोऽन्वतप्स्यत् ॥ KK05-05-048-064c
उद्वर्तयन्दस्युसङ्घान्समेतान्प्रवर्तयन्युगमन्यद्युगान्ते । KK05-05-048-065a
यदा धक्ष्याम्यग्निवत्कौरवेयांस्तदा तप्ता धृतराष्ट्रः सपुत्रः ॥ KK05-05-048-065c
सभ्राता वै सहसैन्यः सभृत्यो भ्रष्टैश्वर्यः क्रोधवशोऽल्पचेताः । KK05-05-048-066a
दर्पस्यान्ते निहतो वेपमानः पश्चान्मन्दस्तप्स्यति धार्तराष्ट्रः ॥ KK05-05-048-066c
पूर्वाह्णे मां कृतजप्यं कदाचिद्विप्रः प्रोवाचोदकान्ते मनोज्ञम् । KK05-05-048-067a
कर्तव्यं ते दुष्करं कर्म पार्थ योद्धव्यं ते शत्रुभिः सव्यसाचिन् ॥ KK05-05-048-067c
इन्द्रो वा ते हरिवान्वज्रहस्तः पुरस्ताद्यातु समरेऽरीन्विनिघ्नन् । KK05-05-048-068a
सुग्रीवयुक्तेन रथेन वा ते पश्चात्कृष्णो रक्षतु वासुदेवः ॥ KK05-05-048-068c
वज्रे चाहं वज्रहस्तान्महेन्द्रादस्मिन्युद्धे वासुदेवं सहायम् । KK05-05-048-069a
स मे लब्धो दस्युवधाय कृष्णो मन्ये चैतद्विहितं दैवतेर्मे ॥ KK05-05-048-069c
अयुद्ध्यमानो मनसापि यस्य जयं कृष्णः पुरुषस्याभिनन्देत् । KK05-05-048-070a
एवं सर्वान्स व्यतीयादमित्रान्सेन्द्रान्देवान्मानुषे नास्ति चिन्ता ॥ KK05-05-048-070c
स बाहुभ्यां सागरमुत्तितीर्षेन्महोदधिं सलिलस्याप्रमेयम् । KK05-05-048-071a
तेजस्विनं कृष्णमत्यन्तशूरं युद्धेन यो वासुदेवं जिगीषेत् ॥ KK05-05-048-071c
गिरिं य इच्छेत्तु तलेन भेत्तुं शिलोच्चयं श्वेतमतिप्रमाणम् । KK05-05-048-072a
तस्यैव पाणिः सनखो विशीर्येन्न चापि किञ्चित्स गिरेस्तु कुर्यात् ॥ KK05-05-048-072c
अग्निं समिद्धं शमयेद्भुजाभ्यां चन्द्रं च सूर्यं च निवारयेत । KK05-05-048-073a
हरेद्देवानाममृतं प्रसह्य युद्धेन यो वासुदेवं जिगीषेत् ॥ KK05-05-048-073c
यो रुक्मिणीमेकरथेन भोजानुत्साद्य राज्ञः समरे प्रसह्य । KK05-05-048-074a
उवाह भार्यां यशसा ज्वलन्तीं यस्यां जज्ञे रौक्मिणेयो महात्मा ॥ KK05-05-048-074c
अयं गान्धारांस्तरसा सम्प्रमथ्य जित्वा पुत्रान्नग्नजितः समग्रान् । KK05-05-048-075a
बद्धं मुमोच विनदन्तं प्रसह्य सुदर्शनं वै देवतानां ललामम् ॥ KK05-05-048-075c
अयं कवाटे निजघान पाण्ड्यं तथा कलिङ्गान्दन्तवक्त्रं ममर्द । KK05-05-048-076a
अनेन दग्धा वर्षपूगान्विनाथा वाराणसी नगरी सम्बभूव ॥ KK05-05-048-076c
अयं स्म युद्धे मन्यतेऽन्यैरजेयं तमेकलव्यं नाम निषादराजम् । KK05-05-048-077a
वेगेनैव शैलमभिहत्य जम्भः शेते स कृष्णेन हतः परासुः ॥ KK05-05-048-077c
तथोग्रसेनस्य सुतं सुदुष्टं वृष्ण्यन्धकानां मध्यगतं सभास्थम् । KK05-05-048-078a
अपातयद्बलदेवद्वितीयो हत्वा ददौ चोग्रसेनाय राज्यम् ॥ KK05-05-048-078c
अयं सौभं योधयामास खस्थं विभीषणं मायया साल्वराजम् । KK05-05-048-079a
सौभद्वारि प्रत्यगृह्णाच्छतघ्नीं दोर्भ्यां क एनं विषहेत मर्त्यः ॥ KK05-05-048-079c
प्राग्ज्योतिषं नाम बभूव दुर्गं पुरं घोरमसुराणामसह्यम् । KK05-05-048-080a
महाबलो नरकस्तत्र भौमो जहारादित्या मणिकुण्डले शुभे ॥ KK05-05-048-080c
न तं देवाः सह शक्रेण शेकुः समागता युधि मृत्योरभीताः । KK05-05-048-081a
दृष्ट्वा च तं विक्रमं केशवस्य बलं तथैवास्त्रमवारणीयम् ॥ KK05-05-048-081c
जानन्तोऽस्य प्रकृतिं केशवस्य न्ययोजयन्दस्युवधाय कृष्णम् । KK05-05-048-082a
स तत्कर्म प्रतिशुश्राव दुष्करमैश्वर्यवान्सिद्धिषु वासुदेवः ॥ KK05-05-048-082c
निर्मोचने षट्सहस्राणि हत्वा सञ्च्छिद्य पाशान्सहसा क्षुरान्तान् । KK05-05-048-083a
मुरं हत्वा विनिहत्यौघरक्षो निर्मोचनं चापि जगाम वीरः ॥ KK05-05-048-083c
तत्रैव तेनास्य बभूव युद्धं महाबलेनातिबलस्य विष्णोः । KK05-05-048-084a
शेते स कृष्णेन हतः परासुर्वातेनेव मथितः कर्णिकारः ॥ KK05-05-048-084c
आहृत्य कृष्णो मणिकुण्डले ते हत्वा च भौमं नरकं मुरं च । KK05-05-048-085a
श्रिया वृतो यशसा चैव विद्वान्प्रत्याजगामाप्रतिमप्रभावः ॥ KK05-05-048-085c
अस्मै वराण्यददंस्तत्र देवा दृष्ट्वा भीमं कर्म कृतं रणे तत् । KK05-05-048-086a
श्रमश्च ते युध्यमानस्य न स्यादाकाशे चाप्सु च ते क्रमः स्यात् ॥ KK05-05-048-086c
शस्त्राणि गात्रे न च ते क्रमेरन्नित्येव कृष्णश्च ततः कृतार्थः । KK05-05-048-087a
एवंरूपे वासुदेवेऽप्रमेये महाबले गुणसम्पत्सदैव ॥ KK05-05-048-087c
तमसह्यं विष्णुमनन्तवीर्यमाशंसते धार्तराष्ट्रो विजेतुम् । KK05-05-048-088a
सदा ह्येनं तर्कयते दुरात्मा तच्चाप्ययं सहतेऽस्मान्समीक्ष्य ॥ KK05-05-048-088c
पर्यागतं मम कृष्णस्य चैव यो मन्यते कलहं सम्प्रसह्य । KK05-05-048-089a
शक्यं हर्तुं पाण्डवानां ममत्वं तद्वेदिता संयुगं तत्र गत्वा ॥ KK05-05-048-089c
नमस्कृत्वा शान्तनवाय राज्ञे द्रोणायाथो सहपुत्राय चैव । KK05-05-048-090a
शारद्वतायाप्रतिद्वन्द्विने च योत्स्याम्यहं राज्यमभीप्समानः ॥ KK05-05-048-090c
धर्मेणाप्तं निधनं तस्य मन्ये यो योत्स्यते पाण्डवैर्धर्मचारी । KK05-05-048-091a
मिथ्या ग्लहे निर्जिता वै नृशंसैः संवत्सरान्वै द्वादश राजपुत्राः ॥ KK05-05-048-091c
वासः कृच्छ्रो विहितश्चाप्यरण्ये दीर्घं कालं चैकमज्ञातवर्षम् । KK05-05-048-092a
ते हि कस्माज्जीवतां पाण्डवानां नन्दिष्यन्ते धार्तराष्ट्राः पदस्थाः ॥ KK05-05-048-092c
ते चेदस्मान्युध्यमानाञ्जयेयुर्देवैर्महेन्द्रप्रमुखैः सहायैः । KK05-05-048-093a
धर्मादधर्मश्चरितो गरीयांस्ततो ध्रुवं नास्ति कृतं च साधु ॥ KK05-05-048-093c
न चेदिदं पौरुषं कर्मबद्धं न चेदस्मान्मन्यतेऽसौ विशिष्टान् । KK05-05-048-094a
आशंसेऽहं वासुदेवद्वितीयो दुर्योधनं सानुबन्धं निहन्तुम् ॥ KK05-05-048-094c
न चेदिदं कर्म नरेन्द्र वन्ध्यं न चेद्भवेत्सुकृतं निष्फलं वा । KK05-05-048-095a
इदं च तच्चाभिसमीक्ष्य नूनं पराजयो धार्तराष्ट्रस्य साधुः ॥ KK05-05-048-095c
प्रत्यक्षं वः कुरवो यद्ब्रवीमि युद्ध्यमाना धार्तराष्ट्रा न सन्ति । KK05-05-048-096a
अन्यत्र युद्धात्कुरवो यदि स्युर्न युद्धे वै शेष इहास्ति कश्चित् ॥ KK05-05-048-096c
हत्वा त्वहं धार्तराष्ट्रान्सकर्णान्राज्यं कुरूणामवजेता समग्रम् । KK05-05-048-097a
यद्वः कार्यं तत्कुरुध्वं यथास्वमिष्टान्दारानात्मभोगान्भजध्वम् ॥ KK05-05-048-097c
अप्येवं नो ब्राह्मणाः सन्ति वृद्धा बहुश्रुताः शीलवन्तः कुलीनाः । KK05-05-048-098a
सांवत्सरा ज्योतिषि चाभियुक्ता नक्षत्रयोगेषु च निश्चयज्ञाः ॥ KK05-05-048-098c
उच्चावचं दैवयुक्तं रहस्यं दिव्याः प्रश्ना मृगचक्रा मुहूर्ताः । KK05-05-048-099a
क्षयं महान्तं कुरुसृञ्जयानां निवेदयन्ते पाण्डवानां जयं च ॥ KK05-05-048-099c
यथा हि नो मन्यतेऽजातशत्रुः संसिद्धार्थो द्विषतां निग्रहाय । KK05-05-048-100a
जनार्दनश्चाप्यपरोक्षविद्यो न संशयं पश्यति वृष्णिसिंहः ॥ KK05-05-048-100c
अहं तथैनं खलु भाविरूपं पश्यामि बुद्ध्या स्वयमप्रमत्तः । KK05-05-048-101a
दृष्टिश्च मे न व्यथते पुराणी संयुध्यमाना धार्तराष्ट्रा न सन्ति ॥ KK05-05-048-101c
अनालब्धं जृम्भति गाण्डिवं धनुरनाहता कम्पति मे धनुर्ज्या । KK05-05-048-102a
बाणाश्च मे तूणमुखाद्विसृत्य मुहुर्मुहुर्गन्तुमुशन्ति चैव ॥ KK05-05-048-102c
खड्गः कोशान्निःसरति प्रसन्नो हित्वेव जीर्णामुरगस्त्वचं स्वाम् । KK05-05-048-103a
ध्वजे वाचो रौद्ररूपा भवन्ति कदा रथो योक्ष्यते ते किरीटिन् ॥ KK05-05-048-103c
गोमायुसङ्घाश्च नदन्ति रात्रौ रक्षांस्यथो निष्पतन्त्यन्तरिक्षात् । KK05-05-048-104a
मृगाः शृगालाः शितिकण्ठाश्च काका गृध्रा बकाश्चैव तरक्षवश्च ॥ KK05-05-048-104c
सुवर्णपत्राश्च पतन्ति पञ्चाद्दृष्ट्वा रथं श्वेतहयप्रयुक्तम् । KK05-05-048-105a
अहं ह्येकः पार्थिवान्सर्वयोधान्शरान्वर्षन्मृत्युलोकं नयेयम् ॥ KK05-05-048-105c
समाददानः पृथगस्त्रमार्गान्यथाग्निरिद्धो गहनं निदाघे । KK05-05-048-106a
स्थूणाकर्णं पाशुपतं महास्त्रं ब्राह्मं चास्त्रं यच्च शक्रोऽप्यदान्मे ॥ KK05-05-048-106c
वधे धृतो वेगवतः प्रमुञ्चन्नाहं प्रजाः किञ्चिदिहावशिष्ये । KK05-05-048-107a
शान्तिं लप्स्ये परमो ह्येष भावः स्थिरो मम ब्रूहि गावल्गणे तान् ॥ KK05-05-048-107c
ये वैजय्याः समरे सूत लब्ध्वा देवानपीन्द्रप्रमुखान्समेतान् । KK05-05-048-108a
तैर्मन्यते कलहं सम्प्रसह्य स धार्तराष्ट्रः पश्यत मोहमस्य ॥ KK05-05-048-108c
वृद्धो भीष्मः शान्तनवः कृपश्च द्रोणः सपुत्रो विदुरश्च धीमान् । KK05-05-048-109a
एते सर्वे यद्वदन्ते तदस्तु आयुष्मन्तः कुरवः सन्तु सर्वे ॥ ॥ KK05-05-048-109c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि अष्टचत्वारिंशोऽध्यायः ॥

5-48-8 कर्म पापम् । अनिर्विष्टम् अनुपभुक्तम् । अश्विभ्याम् अश्विपुत्राभ्याम् ॥ 5-48-9 अपध्यानात् अपकारचिन्तनमात्रात् । गां पृथ्वीम् ॥ 5-48-12 त्वम् एतावत्कुर्वित्याह ह्रियेति । यान् लोकान् अन्यायवृत्तिर्धार्तराष्ट्रोऽध्यतिष्ठत् तान् ह्रीप्रभृतिर्गुणैरुपलक्षिते पाण्डवे अनुरक्तान् कुरु ॥ 5-48-13 मायया कपटेन उपधीयन्ते उपस्थाप्यन्ते इति मायोपधश्छलवादः तम् । प्रतिपन्नः प्राप्तः प्रणिधानादिभिरुपेतः सत्यं ब्रुवंश्च नः नृपः अतिवेलं क्लिश्यमानोपि तितिक्षमाण एवास्ते इति शेषः ॥ 5-48-14 क्रोध अवस्रष्टा उत्स्रक्ष्यति । अन्वतप्स्यत् शोचिष्यति । आर्षो लकारव्यत्ययः ॥ 5-48-15 कृष्णवर्त्मा दाहेन कृष्णीकृतभूभाग इति प्राञ्चः । दग्धा धक्ष्यति ॥ 5-48-22 तृणप्रायं तृणगृहमयं ग्रामम् । परासिक्तं दूरे निरस्तम् ॥ 5-48-24 वराङ्गानां शिरसाम् । उपासङ्गान् उच्चयान् । दक्षिणेन कुशलेन अनायासेनेति यावत् । आचरेत् कुर्यात् । रथिनः योधान् । प्रचेता कूटीकरिष्यति ॥ 5-48-25 दुःखशय्यां अशेतेत्युत्तरं तां यदा स्मरिष्यतीति शेषः ॥ 5-48-28 सुवर्णस्य तारो दीर्घतन्तुः तम् । अतिवेगादलातचक्रवत्सुवर्णरेखातुल्यमित्यर्थः ॥ 5-48-31 आयतः आगच्छतः ॥ 5-48-34 क्षेप्तारः क्षेप्स्यन्ति ॥ 5-48-39 धारयेयुः जीवेयुः ॥ 5-48-40 वरूथी रथगुप्तिमान् ॥ 5-48-43 स वृष्णिसिंहः कृष्णाः येषामग्रणीः स्यात् तेभ्योऽन्ये तं न सहेरन् ॥ 5-48-44 राज्यं च मा वृणीष्व मा प्रार्थयस्व इति ब्रूयाः । दुर्योधनं प्रतीत्यर्थात् । यतः वयं युद्धेऽद्वितीयं सहायं सात्यकिं प्रवृणीम वृतवन्तः ॥ 5-48-49 वृष्णिसिंहस्य कृष्णस्य यथाविधं यादृक्प्रकारं योगमाहुः तैः सर्वैर्गुणैः सात्यकिरुपेतः ॥ 5-48-55 आददानान् ग्रसमानान् ॥ 5-48-57 प्रचेतारः राशीकरिष्यन्ति ॥ 5-48-59 अस्त्रपथम् असम्प्राप्तान् । अस्त्रं दृष्ट्वैव नश्यत इत्यर्थः 5-48-60 प्रणोत्स्यामि दूरीकरिष्यामि ॥ 5-48-62 कान्दिग्भूतं भयेन पलायितम् । श्रान्तपत्रं श्रान्तवाहनम् ॥ 5-48-63 यथा वाजपेये प्रजापतिदैवत्याः सप्तदश पशवो विशस्यन्ते तद्वद्बहूनामिहापि विशसनं कृतम् ॥ 5-48-64 देवदत्तम् अर्जुनस्य शङ्खम् ॥ 5-48-67 उदकान्ते सन्ध्यावन्दनाचमनान्ते ॥ 5-48-71 सागरं सगरैर्वर्धितम् । सलिलस्य महोदधिं जलसमुद्रम् ॥ 5-48-75 सुदर्शनं नाम राजानम् । ललामं ललामभूतः कृष्णः ॥ 5-48-76 कवाटे नगरभेदे ॥ 5-48-77 अयं सुयोधनः । यथा जम्भो दैत्यः शैलं वेगेन अभिहत्य हतः शेते तद्वत् ॥ 5-48-80 भौमो भूमिपुत्रः ॥ 5-48-83 निर्मोचने नगरे । क्षुरान्तान् तीक्ष्णधारान् लोहमयानित्यर्थः ॥ 5-48-93 साधु कृतं सत्कर्म नास्ति । निष्पलत्वात् वृथैव धर्म इत्यर्थः ॥ 5-48-94 कर्मबद्धं न मन्यते चेदित्याकृष्य योज्यम् ॥ 5-48-95 इदं राज्यस्याप्रदानम् इदानीन्तनम् । तच्च राज्यात् निःसारणं तदानीन्तनम् अभिसमीक्ष्य आलोच्य । पापवशात्पराजय एव तस्येत्यर्थः ॥ 5-48-99 मृगचक्रा मृगसमूहाः ॥ 5-48-108 विजयः कर्म येषां ते वैजय्याः । देवानपि लब्ध्वा विजयवन्त एवेत्यर्थः ॥