अध्यायः 047
पाण्डववचनशुश्रूषया धृतराष्ट्रादीनां सभाप्रवेशः ॥ 1 ॥ सञ्जयेन धृतराष्ट्राय पाण्डवान्प्रति तत्सन्देशकथनम् ॥ 2 ॥ श्रीकृष्णवाक्यकथनं चोदितेन सञ्जयेन स्वस्य कृष्णार्जुनान्तःपुरप्रवेशकथनपूर्वकं तत्कथनम् ॥ 3 ॥
वैशम्पायन उवाच KK05-05-047-001
एवं सनत्सुजातेन विदुरेण च धीमता । KK05-05-047-001a
सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ॥ KK05-05-047-001c
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते । KK05-05-047-002a
सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥ KK05-05-047-002c
शुश्रूषमाणाः पार्थानां वाचो धर्मार्थसंहिताः । KK05-05-047-003a
धृतराष्ट्रमुखाः सर्वे ययू राजन्सभां शुभाम् ॥ KK05-05-047-003c
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम् । KK05-05-047-004a
चन्द्रप्रभां सुरुचिरां सिक्तां चन्दनवारिणा ॥ KK05-05-047-004c
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि । KK05-05-047-005a
अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ॥ KK05-05-047-005c
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः । KK05-05-047-006a
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः । KK05-05-047-006c
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः । KK05-05-047-007a
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ । KK05-05-047-007c
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥ KK05-05-047-007e
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः । KK05-05-047-008a
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥ KK05-05-047-008c
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम् । KK05-05-047-009a
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥ KK05-05-047-009c
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः । KK05-05-047-010a
शुशुभे सा सभा रजन्सिंहैरिव गिरेर्गुहा ॥ KK05-05-047-010c
ते प्रविश्य महेष्वासाः सभां सर्वे महौजसः । KK05-05-047-011a
आसनानि विचित्राणि भेजिरे सूर्यवर्चसः ॥ KK05-05-047-011c
आसनस्थेषु सर्वेषु तेषु राजसु भारत । KK05-05-047-012a
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥ KK05-05-047-012c
अयं सरथ आयाति योऽयासीत्पाण्डवान्प्रति । KK05-05-047-013a
दूतो नस्तूर्णमायाति सैन्धवैः साधुवाहिभिः ॥ KK05-05-047-013c
उपेयाय स तु क्षिप्रं रथात्प्रस्कन्द्य कुण्डली । KK05-05-047-014a
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥ KK05-05-047-014c
सञ्जय उवाच KK05-05-047-015
प्राप्तोऽस्मि पाण्डवान्गत्वा तं विजानीत कौरवाः । KK05-05-047-015a
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥ KK05-05-047-015c
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत् । KK05-05-047-016a
पुनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ॥ KK05-05-047-016c
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः । KK05-05-047-017a
अब्रवं पाण्डवान्गत्वा नात्र किञ्चन हापितम् ॥ KK05-05-047-017c
'धृतराष्ट्र उवाच KK05-05-047-018
पृच्छामि त्वां सञ्जय राजमध्ये यदब्रवीद्वाक्यमदीनसत्वः । KK05-05-047-018a
जनार्दनस्तात युधां प्रणेता दुरात्मनां जीवितच्छिन्महात्मा ॥ KK05-05-047-018c
सञ्जय उवाच KK05-05-047-019
आगुल्फेभ्योऽभिसंवीतः प्रयतोऽहं कृताञ्जलिः । KK05-05-047-019a
शुद्धान्तं प्राविशं राजन्नाख्यातो नरसिंहयोः ॥ KK05-05-047-019c
न चाभिमन्युर्न यमौ तं देशमभिजग्मतुः । KK05-05-047-020a
यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥ KK05-05-047-020c
उभौ मध्वासवक्षीबौ वरचन्दनरूषितौ । KK05-05-047-021a
स्त्रग्विणौ वरवस्त्राङ्गौ वराभरणभूषितौ ॥ KK05-05-047-021c
नैकरत्नविचित्रं च काञ्चनं च वरासनम् । KK05-05-047-022a
नानास्तरणसंस्तीर्णं यत्रासाते नरर्षभौ ॥ KK05-05-047-022c
सत्याङ्कमुपधानं तु कृत्वा शेते जनार्दनः । KK05-05-047-023a
अर्जुनाङ्कगतौ पादौ केशवस्योपलक्षये । KK05-05-047-023c
अर्जुनस्य च कृष्णायाः शुभायाश्चाङ्कगावुभौ ॥ KK05-05-047-023e
काञ्चनं पादपीठं तु पार्थो वै प्रादिशन्मुदा । KK05-05-047-024a
दासीभ्यामाहृतं मह्यं स्पृष्ट्वा भूमावुपाविशम् ॥ KK05-05-047-024c
ऊर्ध्वरेखाङ्कितौ पादौ पार्थस्य शुभलक्षणौ । KK05-05-047-025a
पादपीठादपहृतौ धारयेतां वरस्त्रियौ ॥ KK05-05-047-025c
न नूनं कल्मषं किञ्चिन्मम कर्मसु विद्यते । KK05-05-047-026a
स्त्रीरत्नाभ्यां समेतौ यन्मिथो मामभ्यभाषताम् ॥ KK05-05-047-026c
विस्मयो मे महानासीदास्रं मे बहुसङ्गतम् । KK05-05-047-027a
हृष्टानि चैव रोमाणि दृष्ट्वा तौ सहितावुभौ ॥ KK05-05-047-027c
श्यामौ बृहन्तौ तरुणौ नागाविव समुच्छ्रितौ । KK05-05-047-028a
एकशय्यागतौ दृष्ट्वा भयं मे महदाविशत् ॥ KK05-05-047-028c
ततोऽभ्यचिन्तयं तत्र दृष्ट्वा तौ पुरुषर्षभौ । KK05-05-047-029a
सङ्कल्पो धर्मराजस्य नानवाप्योऽस्ति कश्चन । KK05-05-047-029c
निदेशगाविमौ यस्य नरनारायणावुभौ ॥ KK05-05-047-029e
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः । KK05-05-047-030a
अञ्जलिं मूर्ध्नि सन्धाय सन्देशं चाभ्यचोदयम् ॥ KK05-05-047-030c
धनुर्धरोचितेनाथ पाणिनैकं सलक्षणम् । KK05-05-047-031a
पादमानाययत्पार्थः केशवस्य यशस्विनः ॥ KK05-05-047-031c
इन्द्रकेतुरिवोत्थाय दिव्याभरणभूषितः । KK05-05-047-032a
इन्द्रवीर्योपमः कृष्णः संविष्टो माऽभ्यभाषत ॥ KK05-05-047-032c
स वाचं वदतां श्रेष्ठ आददे वचनक्षमाम् । KK05-05-047-033a
दीपनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ॥ KK05-05-047-033c
बहिश्चरस्य प्राणस्य प्रियस्य प्रियकारिणः । KK05-05-047-034a
मतिमान्मतिमास्थाय केशवः सन्दधे वचः ॥ KK05-05-047-034c
वचनं वचनज्ञस्य शिक्षाक्षरसमन्वितम् । KK05-05-047-035a
मनःप्रह्लादनं श्रेष्ठं पश्चाद्धृदयतापनम् ॥ KK05-05-047-035c
श्रीभगवानुवाच KK05-05-047-036
सञ्जयैतद्वचो ब्रूयाः प्राप्य क्षत्रियसंसदम् । KK05-05-047-036a
शृण्वतः कुरुवृद्धस्य आचार्यस्य च धीमतः ॥ KK05-05-047-036c
अर्थांस्त्यजत पार्थेषु सुखमाप्नुत कामजम् । KK05-05-047-037a
प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥ KK05-05-047-037c
यजध्वं विविधैर्यज्ञैर्दक्षिणाश्च प्रयच्छत । KK05-05-047-038a
पुत्रैर्दारैश्च मोदध्वमागतं वो महद्भयम् ॥ KK05-05-047-038c
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति । KK05-05-047-039a
गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् ॥ KK05-05-047-039c
तेजोमयं दुराधर्षं बिभ्रता गाण्डिवं धनुः । KK05-05-047-040a
मद्द्वितीयेन पार्थेन वैरं वः प्रत्युपस्थितम् ॥ KK05-05-047-040c
कृष्णस्यैतद्वचः श्रुत्वा महन्मे भयमाविशत् । KK05-05-047-041a
तव पुत्रस्य लोभं च वर्धमानं प्रपश्यतः ॥ KK05-05-047-041c
सोमेन्द्रसदृशौ वीरौ तौ मन्दो नावबुध्यते । KK05-05-047-042a
भीष्मद्रोणाश्रयाच्चैव कर्णस्य च विकत्थनात् ' ॥ ॥ KK05-05-047-042c
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि सप्तचत्वारिंशोऽध्यायः ॥