अध्यायः 046

सनत्सुजातेन धृतराष्ट्रम् प्रति तत्वोपदेशः ॥ 1 ॥ सनत्सुजात उवाच KK05-04-046-001
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः । KK05-04-046-001a
तद्वै देवा उपासते तस्मात्सूर्यो विराजते । KK05-04-046-001c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-001e
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते । KK05-04-046-002a
तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् । KK05-04-046-002c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-002e
आपोऽथाद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे । KK05-04-046-003a
अतन्द्रितः सवितुर्विवस्वानुभौ बिभर्ति पृथिवीं दिवं च ॥ KK05-04-046-003c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-004ac
उभौ च देवौ पृथिवीं दिवं च दिशः शुक्रो भुवनं बिभर्ति । KK05-04-046-005a
तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्ताः ॥ KK05-04-046-005c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-005e
चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः । KK05-04-046-006a
केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि । KK05-04-046-006c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-006e
न सादृश्ये तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् । KK05-04-046-006a
मनीषयाथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति ॥ KK05-04-046-006c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-006e
द्वादशपूगां सरितं पिबन्तो देवरक्षिताम् । KK05-04-046-007a
मध्वीक्षन्तश्च ते तस्याः सञ्चरन्तीह घोराम् । KK05-04-046-007c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-007e
तदर्धमासं पिबति सञ्चितं भ्रमरो मधु । KK05-04-046-008a
ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् । KK05-04-046-008c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-008e
हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः । KK05-04-046-009a
ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् । KK05-04-046-009c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-009e
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे । KK05-04-046-010a
हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते । KK05-04-046-010c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-010e
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा । KK05-04-046-011a
तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ KK05-04-046-011c
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः । KK05-04-046-012a
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-012c
अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः । KK05-04-046-013a
आदित्यो गिरते चन्द्रमादित्यं गिरते परः । KK05-04-046-013c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-013e
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् । KK05-04-046-014a
तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत् । KK05-04-046-014c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-014e
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम् । KK05-04-046-015a
तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ॥ KK05-04-046-015c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-015e
असाधना वापि ससाधना वा समानमेतद्दृश्यते मानुषेषु । KK05-04-046-016a
समानमेतदमृतस्येतरस्य मुक्तास्तत्र मध्व उत्सं समापुः ॥ KK05-04-046-016c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-016e
उभौ लोकौ विद्यया व्याप्य याति तदा हुतं चाहुतमग्निहोत्रम् । KK05-04-046-017a
मा ते ब्राह्मी लघुतामादधीत प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥ KK05-04-046-017c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-017e
एवंरूपो महात्मा स पावकं पुरुषो गिरन् । KK05-04-046-018a
यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते । KK05-04-046-018c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-018e
यः सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत् । KK05-04-046-019a
मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः । KK05-04-046-019c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-019e
न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्वाः । KK05-04-046-020a
हितो मनीषी मनसा न तप्यते ये प्रव्रजेयुरमृतास्ते भवन्ति ॥ KK05-04-046-020c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-020e
गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः । KK05-04-046-021a
तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय ॥ KK05-04-046-021c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-021e
नाहं सदाऽसत्कृतः स्यां न मृत्युर्न चामृत्युरमृतं मे कुतः स्यात् । KK05-04-046-022a
सत्यानृते सत्यसमानबन्धे सतश्च योनिरसतश्चैक एव ॥ KK05-04-046-022c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-022e
न साधुना नोत असाधुना वाऽसमानमेतद्दृश्यते मानुषेषु । KK05-04-046-023a
समानमेतदमृतस्य विद्यादेवं युक्तो मधु तद्वै परीप्सेत् ॥ KK05-04-046-023c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-023e
नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम् । KK05-04-046-024a
मनो ब्राह्मी लघुतामादधीत प्रज्ञां चास्मै नाम धीरा लभन्ते ॥ KK05-04-046-024c
योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ KK05-04-046-024e
एवं यः सर्वभूतेषु आत्मानमनुपश्यति । KK05-04-046-025a
अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् । KK05-04-046-025c
यथोदपाने महति सर्वतः सम्प्लुतोदके । KK05-04-046-026a
एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥ KK05-04-046-026c
अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदि सन्निविष्टः । KK05-04-046-027a
अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः ॥ KK05-04-046-027c
अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः । KK05-04-046-028a
आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ KK05-04-046-028c
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत । KK05-04-046-029a
ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥ KK05-04-046-029c
आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः । KK05-04-046-030a
अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः ॥ KK05-04-046-030c
अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति । KK05-04-046-031a
पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ ॥ KK05-04-046-031c

इति श्रीमन्महाभारते उद्यगपर्वणि सनत्सुजातपर्वणि षट्चत्वारिंशोऽध्यायः ॥ ॥ समाप्तमिदं सनत्सुजातपर्व ॥