अध्यायः 045

सनत्सुजातेन धृतराष्ट्रम् प्रति तत्वोपदेशः ॥ 1 ॥ सनत्सुजात उवाच KK05-04-045-001
शोकः क्रोधश्च लोभश्च कामो मानः परासुता । KK05-04-045-001a
ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता ॥ KK05-04-045-001c
द्वादशैते महादोषा मनुष्यप्राणनाशनाः । KK05-04-045-002a
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते । KK05-04-045-002c
यैराविष्टो नरः पापं मूढसञ्ज्ञो व्यवस्यति ॥ KK05-04-045-002e
स्पृहयालुरुग्रः परुषो वा वदान्यः क्रोधं बिभ्रन्मनसा वै विकत्थी । KK05-04-045-003a
नृशंसधर्माः षडिमे जना वै प्राप्याप्यर्थं नोत सभाजयन्ते ॥ KK05-04-045-003c
सम्भोगसंविद्विषमोऽतिमानी दत्त्वा विकत्थी कृपणो दुर्बलश्च । KK05-04-045-004a
बहुप्रशंसी वनिताद्विट् सदैव सप्तैवोक्ताः पापशीला नृशंसाः ॥ KK05-04-045-004c
धर्मश्च सत्यं च तपो दमश्च अमात्सर्यं ह्रीस्तितिक्षानसूया । KK05-04-045-005a
दानं श्रुतं चैव धृतिः क्षमा च महाव्रता द्वादश ब्राह्मणस्य ॥ KK05-04-045-005c
यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात् । KK05-04-045-006a
त्रिभिर्द्वाभ्यामेकतो वार्थितो यो नास्य स्वमस्तीति च वेदितव्यम् ॥ KK05-04-045-006c
दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम् । KK05-04-045-007a
एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ॥ KK05-04-045-007c
सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते । KK05-04-045-008a
नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः ॥ KK05-04-045-008c
मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः । KK05-04-045-009a
लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः ॥ KK05-04-045-009c
कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम् । KK05-04-045-010a
अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ॥ KK05-04-045-010c
ईर्ष्या मोदोऽतिवादश्च सञ्ज्ञानाशोऽभ्यसूयिता । KK05-04-045-011a
तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ॥ KK05-04-045-011c
सौहृदे वै षड्गुणा वेदितव्यः प्रिये हृष्यन्त्यप्रिये च व्यथन्ते । KK05-04-045-012a
स्यादात्मनः सुचिरं याचते यो ददात्ययाच्यमपि देयं खलु स्यात् । KK05-04-045-012c
इष्टान्पुत्रान्विभवान्स्वांश्च दारानभ्यर्थितश्चार्हति शुद्धभावः ॥ KK05-04-045-012e
त्यक्तद्रव्यः संवसेन्नेह कामाद्भुङ्क्ते कर्मस्वाशिषं बाधते च ॥ KK05-04-045-013ac
द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः । KK05-04-045-014a
पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ॥ KK05-04-045-014c
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् । KK05-04-045-015a
सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम् ॥ KK05-04-045-015c
यतो यज्ञाः प्रवर्धन्ते सत्यस्यैवावरोधनात् । KK05-04-045-016a
मनसान्यस्य भवति वाचान्यस्याथ कर्मणा ॥ KK05-04-045-016c
सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति । KK05-04-045-017a
ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे शृणु ॥ KK05-04-045-017c
अध्यापयेन्महदेतद्यशस्यं वाचो विकाराः कवयो वदन्ति । KK05-04-045-018a
अस्मिन्योगे सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ KK05-04-045-018c
न कर्मणा सुकृतेनैव राजन्सत्यं जयेज्जुहुयाद्वा यजेद्वा । KK05-04-045-019a
नैतेन बालोऽमृत्युमभ्येति राजन्रतिं चासौ न लभत्यन्तकाले ॥ KK05-04-045-019c
तृष्णीमेक उपासीत चेष्टेत मनसापि न । KK05-04-045-020a
तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ॥ KK05-04-045-020c
अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति । KK05-04-045-021a
वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ ॥ KK05-04-045-021c

इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥