अध्यायः 044

सनत्सुजातेन धृतराष्ट्रम् प्रति सत्त्वोपदेशः ॥ 1 ॥ धृतराष्ट्र उवाच KK05-04-044-001
सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम् । KK05-04-044-001a
परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार । KK05-04-044-001c
सनत्सुजात उवाच KK05-04-044-002
नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव । KK05-04-044-002a
बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ॥ KK05-04-044-002c
धृतराष्ट्र उवाच KK05-04-044-003
अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् । KK05-04-044-003a
अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत ॥ KK05-04-044-003c
सनत्सुजात उवाच KK05-04-044-004
अव्यक्तविद्यामभिधास्ये पुराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् । KK05-04-044-004a
यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या ॥ KK05-04-044-004c
धृतराष्ट्र उवाच KK05-04-044-005
ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा । KK05-04-044-005a
तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ KK05-04-044-005c
सनत्सुजात उवाच KK05-04-044-006
आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति । KK05-04-044-006a
इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥ KK05-04-044-006c
अस्मिँल्लोके वै जयन्तीह कामान्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः । KK05-04-044-007a
त आत्मानं निर्हरन्तीह देहान्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ KK05-04-044-007c
शरीरमेतौ कुरुतः पिता माता च भारत । KK05-04-044-008a
आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमरा ॥ KK05-04-044-008c
यः प्रावृणोत्यवितथेन वर्णानृतं कुर्वन्नमृतं सम्प्रयच्छम् । KK05-04-044-009a
तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमस्य जानन् ॥ KK05-04-044-009c
गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः । KK05-04-044-010a
मानं न कुर्यान्नादधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः ॥ KK05-04-044-010c
शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः । KK05-04-044-011a
ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ KK05-04-044-011c
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि । KK05-04-044-012a
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ KK05-04-044-012c
समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत् । KK05-04-044-013a
तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ KK05-04-044-013c
आचार्येणात्मकृतं विजानन्ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन । KK05-04-044-014a
यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ KK05-04-044-014c
नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि । KK05-04-044-015a
इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ KK05-04-044-015c
कालेन पादं लभते तथार्थं ततश्च पादं गुरुयोगतश्च । KK05-04-044-016a
उत्साहयोगेन च पादमृच्छेच्छास्त्रेण पादं च ततोऽभियाति ॥ KK05-04-044-016c
धर्मादयो द्वादश यस्य रूपमन्यानि चाङ्गानि तथा बलं च । KK05-04-044-017a
आचार्ययोगे फलतीति चाहुर्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ KK05-04-044-017c
एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत् । KK05-04-044-018a
स तां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥ KK05-04-044-018c
एवं वसन्सर्वतो वर्धतीह बहून्पुत्रांल्लभते च प्रतिष्ठाम् । KK05-04-044-019a
वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ KK05-04-044-019c
एतेन ब्रह्मञ्चर्येण देवा देवत्वमाप्नुवन् । KK05-04-044-020a
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ KK05-04-044-020c
गन्धर्वाणामनेनैव रूपमप्सरसमभूत् । KK05-04-044-021a
एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ KK05-04-044-021c
आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव । KK05-04-044-022a
एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ KK05-04-044-022c
य आश्रयेत्पावयेच्चापि राजन्सर्वं शरीरं तपसा तप्यमानः । KK05-04-044-023a
एतेन वै बाल्यमभ्येति विद्वान्मृत्युं तथा स जयत्यन्तकाले ॥ KK05-04-044-023c
अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन । KK05-04-044-024a
ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाय विद्यते ॥ KK05-04-044-024c
धृतराष्ट्र उवाच KK05-04-044-025
आभाति शुक्लमिव लोहितमिवाथो कृष्णमथाञ्जनं काद्रवं वा । KK05-04-044-025a
सद्ब्रह्मणः पश्यति योऽत्र विद्वान्कथं रूपं तदमृतमक्षरं पदम् ॥ KK05-04-044-025c
सनत्सुजात उवाच KK05-04-044-026
आभाति शुक्लमिव लोहितमिवाथो कृष्णमायसमर्कवर्णम् । KK05-04-044-026a
न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥ KK05-04-044-026c
न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य । KK05-04-044-027a
न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ KK05-04-044-027c
नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु । KK05-04-044-028a
रथन्तरे बार्हद्रथे वापि राजन्महाव्रते नैव दृश्येद्ध्रुवं तत् ॥ KK05-04-044-028c
अपारणीयं तमसः परस्तात्तदन्तकोऽप्येति विनाशकाले । KK05-04-044-029a
अणीयो रूपं क्षुरधारया समं महच्च रूपं तद्वै पर्वतेभ्यः ॥ KK05-04-044-029c
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । KK05-04-044-030a
भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ KK05-04-044-030c
अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति । KK05-04-044-031a
यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ KK05-04-044-031c
'तदेतदह्ना संस्थितं भाति सर्वं तदात्मवित्पश्यति ज्ञानयोगात् । KK05-04-044-032a
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥' ॥ KK05-04-044-032c

इति श्रीमन्महाभारते उद्योगपर्वणि सनुत्सुजातपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥