अध्यायः 043
सनत्सुजातेन धृतराष्ट्रम् प्रति तत्त्वोपदेशः ॥ 1 ॥
धृतराष्ट्र उवाच KK05-04-043-001
कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम् । KK05-04-043-001a
मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ॥ KK05-04-043-001c
सनत्सुजात उवाच KK05-04-043-002
यतो न वेदा मनसा सहैनमनुप्रविशन्ति ततोऽथ मौनम् । KK05-04-043-002a
यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥ KK05-04-043-002c
धृतराष्ट्र उवाच KK05-04-043-003
ऋचो यजूंषि यो वेद सामवेदं च वेद यः । KK05-04-043-003a
पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ KK05-04-043-003c
सनत्सुजात उवाच KK05-04-043-004
नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम् । KK05-04-043-004a
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ KK05-04-043-004c
न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । KK05-04-043-005a
नीडं शकुन्ता इव जातपक्षाश्छन्दांस्येनं प्रजहत्यन्तकाले ॥ KK05-04-043-005c
धृतराष्ट्र उवाच KK05-04-043-006
न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण । KK05-04-043-006a
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ KK05-04-043-006c
सनत्सुजात उवाच KK05-04-043-007
तस्यैव नामादिविशेषरूपैरिदं जगद्भाति महानुभाव । KK05-04-043-007a
निर्दिश्य सम्यक्प्रवदन्ति वेदास्तद्विश्ववैरूप्यमुदाहरन्ति ॥ KK05-04-043-007c
तदर्थयुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान् । KK05-04-043-008a
पुण्येन पापं विनिहत्य पश्चात्सञ्जायते ज्ञानविदीपितात्मा ॥ KK05-04-043-008c
ज्ञानेन चात्मानमुपैति विद्वानथान्यथा वर्गफलानुकाङ्क्षी । KK05-04-043-009a
अस्मिन्कृतं तत्परिगृह्य सर्वममुत्र भुङ्क्ते पुनरेति मार्गम् ॥ KK05-04-043-009c
अस्मिल्ँलोके तपस्तप्तं फलमन्यत्र भुज्यते । KK05-04-043-010a
ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥ KK05-04-043-010c
'ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् । KK05-04-043-011a
एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥' KK05-04-043-011c
धृतराष्ट्र उवाच KK05-04-043-012
कथं समृद्धमप्यृद्धं तपो भवति केवलम् । KK05-04-043-012a
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ KK05-04-043-012c
सनत्सुजात उवाच KK05-04-043-013
निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते । KK05-04-043-013a
एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ KK05-04-043-013c
तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय । KK05-04-043-014a
तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ KK05-04-043-014c
धृतराष्ट्र उवाच KK05-04-043-015
कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः । KK05-04-043-015a
सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥ KK05-04-043-015c
सनत्सुजात उवाच KK05-04-043-016
क्रोधादयो द्वादश यस्य दोषास्तथा नृशंसानि दश त्रि राजन् । KK05-04-043-016a
धर्मादयो द्वादशैते पितॄणां शास्त्रे गुणा ये विदिता द्विजानाम् ॥ KK05-04-043-016c
क्रोधः कामो लोभमोहौ विधित्साऽकृपाऽसूये मानशोकौ स्पृहा च । KK05-04-043-017a
ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नराणाम् ॥ KK05-04-043-017c
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते । KK05-04-043-018a
लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥ KK05-04-043-018c
विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोपं चपलो रोषणश्च । KK05-04-043-019a
एतान्पापाः षण्णराः पापधर्मान्प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥ KK05-04-043-019c
सम्भोगसंविद्विषमोऽतिमानी दत्तानुतापी कृपणो बलीयान् । KK05-04-043-020a
वर्गप्रशंसी वनितासु द्वेष्टा एते परे सप्त नृशंसवर्गाः ॥ KK05-04-043-020c
धर्मश्च सत्यं च दमस्तपश्च आमात्सर्यं ह्रीस्तितिक्षानसूया । KK05-04-043-021a
यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य ॥ KK05-04-043-021c
यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात् । KK05-04-043-022a
त्रिभिर्द्वाभ्यामेकतो वार्थितो यस्तस्य स्वमस्तीति स वेदितव्यः ॥ KK05-04-043-022c
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् । KK05-04-043-023a
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ KK05-04-043-023c
दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् । KK05-04-043-024a
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ KK05-04-043-024c
क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च । KK05-04-043-025a
मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥ KK05-04-043-025c
अपस्मारश्चातिवादस्तथा सम्भावनात्मनि । KK05-04-043-026a
एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥ KK05-04-043-026c
मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः । KK05-04-043-027a
विपर्ययाः स्मृता एते मददोषा उदाहृताः । KK05-04-043-027c
दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥ KK05-04-043-027e
श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् । KK05-04-043-028a
तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥ KK05-04-043-028c
श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति । KK05-04-043-029a
इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥ KK05-04-043-029c
कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः । KK05-04-043-030a
अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥ KK05-04-043-030c
त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः । KK05-04-043-031a
न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥ KK05-04-043-031c
न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत् । KK05-04-043-032a
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ KK05-04-043-032c
अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति । KK05-04-043-033a
इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥ KK05-04-043-033c
अर्हते याचमानाय प्रदेयं तच्छुभं भवेत् । KK05-04-043-034a
अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥ KK05-04-043-034c
सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च । KK05-04-043-035a
अस्तेयं ब्रह्मचर्यं च तथाऽसङ्ग्रहमेव च ॥ KK05-04-043-035c
एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत् । KK05-04-043-036a
तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥ KK05-04-043-036c
अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत् । KK05-04-043-037a
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत । KK05-04-043-037c
अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥ KK05-04-043-037e
सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः । KK05-04-043-038a
तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥ KK05-04-043-038c
निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत् । KK05-04-043-039a
एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥ KK05-04-043-039c
दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः । KK05-04-043-040a
एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥ KK05-04-043-040c
यन्मां पृच्छसि राजेन्द्र सङ्क्षेपात्प्रब्रवीमि ते । KK05-04-043-041a
एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥ KK05-04-043-041c
धृतराष्ट्र उवाच KK05-04-043-042
आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः । KK05-04-043-042a
तथा चान्ये चतुर्वेदास्त्रिवेदाश्च तथा परे ॥ KK05-04-043-042c
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे । KK05-04-043-043a
तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ KK05-04-043-043c
सनत्सुजात उवाच KK05-04-043-044
एकस्य वेदस्याज्ञानाद्वेदास्ते बहवः कृताः । KK05-04-043-044a
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ KK05-04-043-044c
एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते । KK05-04-043-045a
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ॥ KK05-04-043-045c
सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् । KK05-04-043-046a
ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥ KK05-04-043-046c
मनसान्यस्य भवति वाचान्यस्याथ कर्मणा । KK05-04-043-047a
सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ KK05-04-043-047c
अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत् । KK05-04-043-048a
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ॥ KK05-04-043-048c
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः । KK05-04-043-049a
विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥ KK05-04-043-049c
तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम् । KK05-04-043-050a
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ KK05-04-043-050c
छन्दांसि नाम क्षत्रिय तान्यथर्वा पुरा जगौ महर्षिसङ्घ एषः । KK05-04-043-051a
छन्दोविदस्ते य उत नाधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥ KK05-04-043-051c
छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र । KK05-04-043-052a
छन्दोविदस्ते न च तानधीत्य गता न वेदस्य न वेद्यमार्याः ॥ KK05-04-043-052c
न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान्बुद्ध्यते वापि राजन् । KK05-04-043-053a
यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ KK05-04-043-053c
न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम् । KK05-04-043-054a
यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम् ॥ KK05-04-043-054c
यो वेद वेदान्स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः । KK05-04-043-055a
तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो भवन्ति ॥ KK05-04-043-055c
धामांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य । KK05-04-043-056a
संवेदने चैव यथामनन्ति तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥ KK05-04-043-056c
अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम् । KK05-04-043-057a
यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान् ॥ KK05-04-043-057c
नास्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम् । KK05-04-043-058a
नार्वाचीनं कुतस्तिर्यङ्नादिशन्तु कथञ्चन ॥ KK05-04-043-058c
तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन । KK05-04-043-059a
अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥ KK05-04-043-059c
तूष्णीम्भूत उपासीत न चेष्टेन्मनसापि च । KK05-04-043-060a
उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥ KK05-04-043-060c
मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः । KK05-04-043-061a
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ KK05-04-043-061c
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते । KK05-04-043-062a
तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥ KK05-04-043-062c
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः । KK05-04-043-063a
सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥ KK05-04-043-063c
धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति । KK05-04-043-064a
वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥ KK05-04-043-064c
॥ इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि त्रिचत्वारिंशोऽध्यायः ॥