अध्यायः 041

धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरणमात्रसन्निहितं सनत्सुजातम् प्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥ धृतराष्ट्र उवाच KK05-04-041-001
अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते । KK05-04-041-001a
तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ KK05-04-041-001c
विदुर उवाच KK05-04-041-002
धृतराष्ट्र कुमारो वै यः पुराणः सनातनः । KK05-04-041-002a
तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ KK05-04-041-002c
स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् । KK05-04-041-003a
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ KK05-04-041-003c
धृतराष्ट्र उवाच KK05-04-041-004
किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः । KK05-04-041-004a
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ KK05-04-041-004c
विदुर उवाच KK05-04-041-005
शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे । KK05-04-041-005a
कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ KK05-04-041-005c
ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत् । KK05-04-041-006a
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ KK05-04-041-006c
धृतराष्ट्र उवाच KK05-04-041-007
ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् । KK05-04-041-007a
कथमेतेन देहेन स्यादिहैव समागमः ॥ KK05-04-041-007c
वैशम्पायन उवाच KK05-04-041-008
चिन्तयामास विदुरस्तमृषिं शंसितव्रतम् । KK05-04-041-008a
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ KK05-04-041-008c
स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा । KK05-04-041-009a
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥ KK05-04-041-009c
भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः । KK05-04-041-010a
यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ KK05-04-041-010c
यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत् ॥ KK05-04-041-011ac
लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ । KK05-04-041-012a
विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ । KK05-04-041-012c
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ ॥ KK05-04-041-012e

इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि एकचत्वारिंशोऽध्यायः ॥

5-41-2 सनुत्कुमारः प्रोवाचेति क. पाठः ॥ 5-41-4 तमहं नाभिजानामि तत्वतो वै सनातनमिति क. पाठः ॥ 5-41-12 विषहेरन् बाधेरन् । अमर्षः असहिष्णुता । उद्भव उत्कृष्टैश्वर्यम् ॥