अध्यायः 040
विदुरेण धृतराष्ट्रम् प्रति तत्तद्वर्णधर्मणां तैस्तैरवश्यानुष्ठेयत्वकथनपूर्वकं युधिष्ठिरस्य राज्यम् प्रदाय क्षात्रधर्मे नियोजनचोदनम् ॥ 1 ॥
विदुर उवाच KK05-03-040-001
योऽभ्यर्चितः मद्भिरसज्जमानः करोत्यर्थं शक्तिमहापयित्वा । KK05-03-040-001a
क्षिप्रं यशस्तं समुपैति सन्तमलं प्रसन्ना हि सुखाय सन्तः ॥ KK05-03-040-001c
महान्तमप्यर्थमधर्मयुक्तं यः सन्त्यजत्यनपाकृष्ट एव । KK05-03-040-002a
सुखं सुदुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ KK05-03-040-002c
अनृते च समुत्कर्षो राजगामि च पैशुनम् । KK05-03-040-003a
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ KK05-03-040-003c
असूयैकपदं मृत्युरतिवादः श्रियो वधः । KK05-03-040-004a
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ KK05-03-040-004c
आलस्यं मदमोहौ च चापलं गोष्ठिरेव च । KK05-03-040-005a
स्तब्धता चाभिमानित्वं तथा त्यागित्वमेव च ॥ KK05-03-040-005c
एते वै सप्त दोषाः स्युः सदा विद्यार्थिनां मताः । KK05-03-040-006a
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् । KK05-03-040-006c
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत्सुखम् ॥ KK05-03-040-006e
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । KK05-03-040-007a
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ KK05-03-040-007c
आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता । KK05-03-040-008a
अपालनं हन्ति पशूंश्च राजन्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ KK05-03-040-008c
अजाश्च कांस्यं रजतं च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च । KK05-03-040-009a
वृद्धो ज्ञातिरवसन्नः कुलीन एतानि ते सन्तु गृहे सदैव ॥ KK05-03-040-009c
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी । KK05-03-040-010a
विषमौदुम्बरं शङ्खः स्वर्णनाभोऽथ रोचना ॥ KK05-03-040-010c
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत् । KK05-03-040-011a
देवब्राह्मणपूजार्थमतिथीनां च भारत ॥ KK05-03-040-011c
इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टम् । KK05-03-040-012a
न जातु कामान्न भयान्न लोभाद्धर्मं जह्याज्जीवितस्यापि हेतोः ॥ KK05-03-040-012c
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यो धातुरस्य त्वनित्यः । KK05-03-040-013a
त्यक्त्वाऽनित्यं प्रतितिष्ठस्व नित्ये सन्तुष्य सन्तोषपरा हि सन्तः ॥ KK05-03-040-013c
महाबलान्पश्य महानुभावान्प्रशास्य भूमिं धनधान्यपूर्णाम् । KK05-03-040-014a
राज्यानि हित्वा विपुलांश्च भोगान् गतान्नरेन्द्रान्वशमन्तकस्य ॥ KK05-03-040-014c
मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति । KK05-03-040-015a
तं मुक्तकेशाः करुणं रुदन्ति चितामध्ये काष्ठमिव क्षिपन्ति ॥ KK05-03-040-015c
अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् । KK05-03-040-016a
द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ KK05-03-040-016c
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः । KK05-03-040-017a
अपुष्पानफलान्वृक्षान्यथा तात पतत्रिणः ॥ KK05-03-040-017c
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयं कृतम् । KK05-03-040-018a
तस्मात्तु पुरुषो यत्नाद्धर्मं सञ्चिनुयाच्छनैः ॥ KK05-03-040-018c
अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् । KK05-03-040-019a
तद्वै महामोहनमिन्द्रियाणां बुद्ध्यस्व मा त्वां प्रलभेत राजन् ॥ KK05-03-040-019c
इदं वचः शक्ष्यसि चेद्यथावन्निशम्य सर्वं प्रतिपत्तुमेव । KK05-03-040-020a
यशः परं प्राप्स्यसि जीवलोके भयं नचामुत्र नचेह तेऽस्ति ॥ KK05-03-040-020c
आत्मा नदी भारत पुण्यतीर्था सत्योदया धृतिकूला दयोर्मिः । KK05-03-040-021a
तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमलोभ एव ॥ KK05-03-040-021c
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् । KK05-03-040-022a
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥ KK05-03-040-022c
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् । KK05-03-040-023a
कार्याकार्ये पूजयित्वा प्रसाद्य यः सम्पृच्छेन्न स मुह्येत्कदाचित् ॥ KK05-03-040-023c
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा । KK05-03-040-024a
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ KK05-03-040-024c
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी । KK05-03-040-025a
सत्यं ब्रुवन्गुरवे कर्म कुर्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ KK05-03-040-025c
अधीत्य वेदान्परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च । KK05-03-040-026a
गोब्राह्मणार्थं शस्त्रपूतान्तरात्मा हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥ KK05-03-040-026c
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च । KK05-03-040-027a
त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे दिव्यसुखानि भुङ्क्ते ॥ KK05-03-040-027c
ब्रह्म क्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः । KK05-03-040-028a
तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ KK05-03-040-028c
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चानुब्रुवतो मे निबोध । KK05-03-040-029a
क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ KK05-03-040-029c
धृतराष्ट्र उवाच KK05-03-040-030
एवमेतद्यथा त्वं मामनुशाससि नित्यदा । KK05-03-040-030a
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ KK05-03-040-030c
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा । KK05-03-040-031a
दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ KK05-03-040-031c
न दिष्टमभ्यतिक्रान्तुं शक्यं भूतेन केनचित् । KK05-03-040-032a
दिष्टमेव ध्रुवं मन्ये पौरुषं तु निरर्थकम् ॥ ॥ KK05-03-040-032c
इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि चत्वारिंशोऽध्यायः ॥ ॥ समाप्तमिदं प्रजागरपर्व ॥
5-40-1 प्रसन्नाः सन्तः साधवः सुखाय अलं सुखं दातुं पर्याप्ताः ॥ 5-40-4 एकपदं सर्वात्मना ॥ 5-40-5 मदमोहौ एकीकृत्य सप्त ॥ 5-40-9 आकर्षः विषादीनाम् ॥ 5-40-10 अजेन सहितः उक्षा अजोक्षा । औदुम्बरं ताम्रमयं पात्रजातम् । विषं लोहमिति सर्वज्ञः । स्वर्णनाभः शालग्रामः । दक्षिणावर्तः शङ्खः । 5-40-11 धन्यानि मङ्गलावहानि ॥ 5-40-12 महाविशिष्टं महेन उत्सवेन अविशिष्टं समानं माङ्गलिकमित्यर्थः ॥ 5-40-19 अस्माल्लोकादूर्ध्वं स्वर्गे । अमुष्य अमुष्मात् स्वर्गात् । प्रलभेत स्पृशेत् ॥ 5-40-20 प्रतिपत्तुं ज्ञातुं शक्ष्यसि चेदिति सम्बन्धः ॥ 5-40-21 पुण्यमपि किं नित्यमलोभ एव । वैराग्यान्न परं पुण्यमित्यर्थः ॥ 5-40-24 मनो वाचं च विद्ययेति ङ पाठः ॥ 5-40-25 नित्योदकी यथाकालं स्नानाचमनपरः ॥