अध्यायः 039

विदुरेण धृतराष्ट्रम् प्रति ज्ञातिसङ्ग्रहे गुणवर्णनपूर्वकम् पुनः कुरुपाण्डवेषु साम्येन वर्तनविधानम् ॥ 1 ॥ धृतराष्ट्र उवाच KK05-03-039-001
अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा । KK05-03-039-001a
धात्रा तु दिष्टस्य वशे कृतोऽयं तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥ KK05-03-039-001c
विदुर उवाच KK05-03-039-002
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । KK05-03-039-002a
लभते बुद्ध्यवज्ञानमवमानं च भारत ॥ KK05-03-039-002c
प्रियो भवति दानेन प्रियवादेन चापरः । KK05-03-039-003a
मन्त्रमूलबलेनान्यो यः प्रियः प्रिय एव सः ॥ KK05-03-039-003c
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः । KK05-03-039-004a
प्रिये शुभानि कार्याणि द्वेष्ये पापानि चैव ह ॥ KK05-03-039-004c
उक्तं मया जातमात्रेऽपि राजन्दुर्योधनं त्यज पुत्रं त्वमेकम् । KK05-03-039-005a
तस्य त्यागात्पुत्रशतस्य वृद्धिरस्यात्यागात्पुत्रशतस्य नाशः ॥ KK05-03-039-005c
न वृद्धिर्बहुमन्तव्या या वृद्धिः क्षयमावहेत् । KK05-03-039-006a
क्षयोऽपि बहुमन्तव्यो यः क्षयो वृद्धिमावहेत् ॥ KK05-03-039-006c
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत् । KK05-03-039-007a
क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥ KK05-03-039-007c
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे । KK05-03-039-008a
धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जय ॥ KK05-03-039-008c
धृतराष्ट्र उवाच KK05-03-039-009
सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसम्मतम् । KK05-03-039-009a
न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥ KK05-03-039-009c
विदुर उवाच KK05-03-039-010
अतीव गुणसम्पन्नो न जातुः विनयान्वितः । KK05-03-039-010a
सुसूक्ष्ममपि भूतानामुपमर्दमुपेक्षते ॥ KK05-03-039-010c
परापवादनिरताः परदुःखोदयेषु च । KK05-03-039-011a
परस्परविरोधे च यतन्ते सततोत्थिताः ॥ KK05-03-039-011c
सदोषं दर्शनं येषां संवासे सुमहद्भयम् । KK05-03-039-012a
अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥ KK05-03-039-012c
ये वै भेदनशीलास्तु सकामा निस्त्रपाः शठाः । KK05-03-039-013a
ये पापा इति विख्याताः संवासे परिगर्हिताः ॥ KK05-03-039-013c
युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् । KK05-03-039-014a
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति ॥ KK05-03-039-014c
या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् । KK05-03-039-015a
यतते चापवादाय यत्नमारभते क्षये ॥ KK05-03-039-015c
अल्पेऽप्यपकृते मोहान्न शान्तिमधिगच्छति । KK05-03-039-016a
तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः । KK05-03-039-016c
निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥ KK05-03-039-016e
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम् । KK05-03-039-017a
स पुत्रपशुभिर्वृद्धिं श्रेयश्चानन्त्यमश्रुते ॥ KK05-03-039-017c
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् ॥ KK05-03-039-018ac
कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर । KK05-03-039-019a
श्रेयसा योक्ष्यते राजन्कुर्वाणो ज्ञातिसत्क्रियाम् ॥ KK05-03-039-019c
विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ । KK05-03-039-020a
किम्पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः ॥ KK05-03-039-020c
प्रसादं कुरु वीराणां पाण्डवानां विशाम्पते । KK05-03-039-021a
दीयतां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर ॥ KK05-03-039-021c
एवं लोके यशः प्राप्तं भविष्यति नराधिप । KK05-03-039-022a
वृद्धेन हि त्वया कार्यं पुत्राणां तात शासनम् ॥ KK05-03-039-022c
मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् । KK05-03-039-023a
ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना । KK05-03-039-023c
सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ KK05-03-039-023e
सम्भोजनं सङ्कथनं सम्प्रीतिश्च परस्परम् । KK05-03-039-024a
ज्ञातिभिः सह कार्याणि न विरोधः कदाचन ॥ KK05-03-039-024c
ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च । KK05-03-039-025a
सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥ KK05-03-039-025c
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद । KK05-03-039-026a
अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥ KK05-03-039-026c
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति । KK05-03-039-027a
दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥ KK05-03-039-027c
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति । KK05-03-039-028a
तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥ KK05-03-039-028c
येन खट्वां समारूढः परितप्येत कर्मणा । KK05-03-039-029a
आदावेव न न तत्कुर्यादध्रुवे जीविते सति ॥ KK05-03-039-029c
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात् । KK05-03-039-030a
शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥ KK05-03-039-030c
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम् । KK05-03-039-031a
त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥ KK05-03-039-031c
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः । KK05-03-039-032a
भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥ KK05-03-039-032c
सुव्याहृतानि धीराणां फलतः परिचिन्त्य यः । KK05-03-039-033a
अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥ KK05-03-039-033c
असम्यगुपयुक्तं हि ज्ञानं सुकुशलैरपि । KK05-03-039-034a
उपलभ्यं चाविदितं विदितं चाननुष्ठितम् ॥ KK05-03-039-034c
पापोदयफलं विद्वान्यो नारभति वर्धते ॥ KK05-03-039-035ac
यस्तु पूर्वकृतं पापमविमृश्यानुवर्तते । KK05-03-039-036a
अगाधपङ्के दुर्मेधा विषमे विनिपात्यते ॥ KK05-03-039-036c
मन्त्रभेदस्य षट् प्राज्ञो द्वाराणीमानि लक्षयेत् । KK05-03-039-037a
अर्थसन्ततिकामश्च रक्षेदेतानि नित्यशः ॥ KK05-03-039-037c
मदं स्वप्नमविज्ञानमाकारं चात्मसम्भवम् । KK05-03-039-038a
दुष्टामात्येषु विश्रम्भं दूताच्चाकुशलादपि ॥ KK05-03-039-038c
द्वाराण्येतानि यो ज्ञात्वा संवृणोति सदा नृप । KK05-03-039-039a
त्रिवर्गाचरणे युक्तः स शत्रूनधितिष्ठति ॥ KK05-03-039-039c
नवै श्रुतमविज्ञाय वृद्धाननुपसेव्य वा । KK05-03-039-040a
धर्मार्थौ वेदितुं शक्यौ बृहस्पतिसमैरपि ॥ KK05-03-039-040c
नष्टं समुद्रे पतितं नष्टं वाक्यमशृण्वति । KK05-03-039-041a
अनात्मनि श्रुतं नष्टं नष्टं हुतमनग्निकम् ॥ KK05-03-039-041c
मत्या परीक्ष्य मेधावी बुद्ध्या सम्पाद्य चासकृत् । KK05-03-039-042a
श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् ॥ KK05-03-039-042c
अकीर्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः । KK05-03-039-043a
हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ KK05-03-039-043c
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया । KK05-03-039-044a
परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥ KK05-03-039-044c
उपस्थितस्य कामस्य प्रतिवादो न विद्यते । KK05-03-039-045a
अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ॥ KK05-03-039-045c
प्राज्ञोपसेविनं वैद्यं धार्मिकं प्रियदर्शनम् । KK05-03-039-046a
मित्रवन्तं सुवाक्यं च सुहृदं परिपालयेत् ॥ KK05-03-039-046c
दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत् । KK05-03-039-047a
धर्मापेक्षी मृदुर्ह्रीमान्स कुलीनशताद्वरः ॥ KK05-03-039-047c
ययोश्चित्तेन वा चित्तं निभृतं निभृतेन वा । KK05-03-039-048a
समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यति ॥ KK05-03-039-048c
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव । KK05-03-039-049a
विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥ KK05-03-039-049c
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च । KK05-03-039-050a
तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥ KK05-03-039-050c
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम् । KK05-03-039-051a
जितेन्द्रियं स्थितं स्थित्यां मित्रमित्यभिवाञ्छति ॥ KK05-03-039-051c
इन्द्रियाणामनुत्सर्गो मृत्युनापि विशिष्यते । KK05-03-039-052a
अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतानपि ॥ KK05-03-039-052c
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः । KK05-03-039-053a
आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥ KK05-03-039-053c
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते । KK05-03-039-054a
मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥ KK05-03-039-054c
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः । KK05-03-039-055a
अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥ KK05-03-039-055c
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते । KK05-03-039-056a
तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥ KK05-03-039-056c
मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम् । KK05-03-039-057a
भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ KK05-03-039-057c
अनिर्वेदः श्रियो मूलं लाभस्य च शुभस्य च । KK05-03-039-058a
महान्भवत्यनिर्विण्णः सुखं चानन्त्यमश्नुते ॥ KK05-03-039-058c
नातः श्रीमत्तरं किञ्चिदन्यत्पथ्यतमं मतम् । KK05-03-039-059a
प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥ KK05-03-039-059c
क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात् । KK05-03-039-060a
अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥ KK05-03-039-060c
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते । KK05-03-039-061a
कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥ KK05-03-039-061c
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च । KK05-03-039-062a
न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ॥ KK05-03-039-062c
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम् । KK05-03-039-063a
अशक्तं मन्यमानास्तु धर्षयन्ति कुबुद्धयः ॥ KK05-03-039-063c
अत्यार्यमतिदातारमतिशूरमतिव्रतम् । KK05-03-039-064a
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥ KK05-03-039-064c
न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च । KK05-03-039-065a
नैषा गुणान्कामयते नैर्गुण्यान्नानुरज्यते । KK05-03-039-065c
उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥ KK05-03-039-065e
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम् । KK05-03-039-066a
रतिपुत्रफला नारी दत्तभुक्तफलं धनम् ॥ KK05-03-039-066c
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम् । KK05-03-039-067a
न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥ KK05-03-039-067c
कान्तारे वनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे । KK05-03-039-068a
उद्यतेषु च शस्त्रेषु नास्ति सत्ववतां भयम् ॥ KK05-03-039-068c
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः । KK05-03-039-069a
समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तु ॥ KK05-03-039-069c
तपो बलं तापमानां ब्रह्म ब्रह्मविदां बलम् । KK05-03-039-070a
हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ॥ KK05-03-039-070c
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः । KK05-03-039-071a
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥ KK05-03-039-071c
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः । KK05-03-039-072a
सङ्ग्रहेणैव धर्मः स्यात्कामादन्यः प्रवर्तते ॥ KK05-03-039-072c
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत् । KK05-03-039-073a
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥ KK05-03-039-073c
स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि । KK05-03-039-074a
चोरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥ KK05-03-039-074c
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । KK05-03-039-075a
चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशो बलम् ॥ KK05-03-039-075c
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण वा । KK05-03-039-076a
अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ KK05-03-039-076c
अविद्यः पुरुषः शोच्यः शोच्यं मैथुनमप्रजम् । KK05-03-039-077a
निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥ KK05-03-039-077c
अध्वा जरा देहवतां पर्वतानां जलं जरा । KK05-03-039-078a
असम्भोगो जरा स्त्रीणां वाक्छल्यं मनसो जरा ॥ KK05-03-039-078c
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् । KK05-03-039-079a
मलं पृथिव्या बाह्लीकाः पुरुषस्यानृतं मलम् ॥ KK05-03-039-079c
कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥ KK05-03-039-080ac
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु । KK05-03-039-081a
ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् ॥ KK05-03-039-081c
न स्वप्नेन जयेन्निद्रां न कामेन जयेत्स्त्रियः । KK05-03-039-082a
नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥ KK05-03-039-082c
यस्य दानजितं मित्रं शत्रवो युधि निर्जिताः । KK05-03-039-083a
अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥ KK05-03-039-083c
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा । KK05-03-039-084a
धृतराष्ट्र विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ॥ KK05-03-039-084c
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । KK05-03-039-085a
नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ KK05-03-039-085c
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर । KK05-03-039-086a
समता यदि ते राजन्स्वेषु पाण्डुसुतेषु वा ॥ ॥ KK05-03-039-086c

इति श्रीमन्महाभारते उद्योगपर्वणि प्रजागरपर्वणि एकोनचत्वारिंशोऽध्यायः ॥

5-39-1 भवाभवे ऐश्वर्यानैश्वर्ये । दिष्टस्य दैवस्य । वदैव नतु मां दूषयेति भावः । धृतः धृतिमान् ॥ 5-39-2 बुद्ध्यवज्ञानम् अवज्ञातबुद्धित्वम् ॥ 5-39-9 आयतीयुक्तम् उदर्के हितम् ॥ 5-39-15 फलनिर्वृत्तिः सुखं च प्रणश्यति । आरभते नीच इति शेषः ॥ 5-39-16 सङ्गतं सम्बन्धम् । निशाम्य विचार्य ॥ 5-39-27 दिग्धहस्तं विषाक्तबाणहस्तम् । स श्रीमान् एनस्तस्य ज्ञातेरवसादजं पापं विन्दति । मृगवधजं पापं व्याध इवेत्यर्थः ॥ 5-39-29 खट्वां समारूढश्चिन्तागारं प्रविष्टः ॥ 5-39-30 भार्गवात् शुक्रादन्यत्र नीतिशास्त्रकर्तारं शुक्रं विहाय अन्यः कश्चिदपि न अपनयते इति न अपितु सर्वोऽप्यपनयते अनीतिं करोति । अतः यत् अतीतं तत् अतीतमेव । शेषस्य तत्कालोचितस्य अर्थस्य प्रतिपत्तिः विचारः कर्तव्य इत्यर्थः ॥ 5-39-31 प्रत्यानेयं प्रतिकर्तव्यम् ॥ 5-39-33 अध्यवस्यति निश्चयं करोति ॥ 5-39-34 सुकुशलैरप्युपयुक्तम् उपदिष्टं तत् ज्ञानम् असम्यगेव । यतः उपलभ्यं ज्ञेयं तेन अविदितं न ज्ञातम् । ज्ञातं वा तत् नानुष्ठितम् । मदुक्तं त्वयि निष्फलमेवेति भावः ॥ 5-39-35 पापोदयफलं पापहेतुभूतप्रयोजनकं कर्म यो नारभते स वर्धते ॥ 5-39-36 पापमेवानुवर्तते सततं करोति । पङ्के नारके ॥ 5-39-38 अविज्ञानं परकीयगुप्तचारादेरज्ञानम् । आत्मसम्भवम् आकारं नेत्रवक्त्रविकारादिकम् ॥ 5-39-39 मन्त्रभेदस्य द्वाराणि संवृणोति पिदधाति ॥ 5-39-40 श्रुतं शास्त्रम् ॥ 5-39-44 परिच्छदः भोग्यवस्तुसामग्री । क्षेत्रेण जन्मस्थानेन । कुग्रामवासिषु प्रायेण विवेकाभावात् । परिचर्यया आचारेण ॥ 5-39-46 वैद्यं विद्यावन्तम् ॥ 5-39-52 इन्द्रियाणाम् उत्सर्गो विषयेषु प्रवृत्तिः । अनुत्सर्गो विषयेभ्यो निवृत्तिः । सा मृत्युतुल्या दुरनुष्ठेयेत्यर्थः ॥ 5-39-53 आयुष्याणि आयुष्कराणि ॥ 5-39-54 अपनीतं नाशितम् ॥ 5-39-55 आयत्याम् आगामिनि काले दुःखस्य प्रतीकारज्ञः तदात्वे वर्तमाने दृढनिश्चयः ॥ 5-39-57 मङ्गलानां दधिदूर्वागवादीनाम् आलम्भनं स्पर्शः । योगः सहायसम्पत् । उत्थानम् उद्यमः ॥ 5-39-58 अनिर्वेदः उद्योगात् अनुपरमः ॥ 5-39-61 मूढव्रतम् आहारादौ अतिनिर्बन्धम् ॥ 5-39-62 अदान्तेषु लिप्साहीनेषु ॥ 5-39-67 और्ध्वदेहिकं परलोकसाधनं यज्ञदानादि ॥ 5-39-69 संयमः इन्द्रियाणां निग्रहः । भवस्य ऐश्वर्यस्य ॥ 5-39-71 ब्राह्मणकाम्या ब्राह्मणस्य इच्छा इत्येत्यर्थः ॥ 5-39-73 सन्दध्यात् कुर्यात् ॥ 5-39-73 साधुना कर्मणा 5-39-78 स्त्रीधूर्तके स्त्रियां धूर्ते चेत्येकवद्भावः ॥ 5-39-79 बाह्लीकाः पञ्चानां सिन्धुषष्टानां नदीनां यत्र सङ्गमः बाह्लीका नाम ते देशाः ॥ 5-39-80 विप्रवासः प्रवासः ॥ 5-39-82 स्वप्नेन शयनेन ॥ 5-39-86 यदि ते स्वेषु पुत्रेषु पाण्डवेषु च समतास्ति तर्हि सर्वेषु सममेवाचर ॥